सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 136, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 136

१०४ रसगङ्गाधरः
काव्यव्यापारस्य महिमा यत्प्रयोज्या अरमणीया अपि शोकादयः पदाथ
आह्लादमलौकिकं जनयन्ति। विलक्षणो हि कमनीयः काव्यव्यापारज
आस्वादः प्रमाणान्तरजादनुभवात्। जन्यत्वं च स्वजन्यभावनाजन्य रत्यादि-
विषयकत्वम्। तेन रसास्वादस्य काव्यव्यापारजन्यत्वेऽपि न क्षतिः।
शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताद्यभेदबुद्धया प्रति-
बध्यते' इत्याहुः ॥
(४) परे तु 'व्यञ्जतव्यापारस्यानिवर्चनीयख्यातेश्चानभ्युपगमेऽपि प्रागु-
क्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयक-
व्यापारस्य = व्यञ्जनायाः। अरमणीया इति। लोके दुःखजनकत्वेन प्रसिद्धा
अपीत्यर्थः। प्रमाणान्तरजात् = प्रत्यक्षादिप्रमाणजन्यात्। शोकाद्यास्वादस्य काव्य-
व्यापारजन्यत्वं कथमुक्तं तस्य सामाजिकतन्निष्ठानिर्वचनीयशोकादिजन्यत्वादित्यतः
काव्यव्यापारजन्यत्वं परिष्करोति-जन्यत्वमित्यादिना। स्वं काव्यव्यापारो
व्यञ्जना, तज्जन्या रत्यादिभावना तज्जन्यः सामाजि के प्रातिभासिको रत्यादिस्त-
द्विषयकत्वं तदास्वादस्येति काव्यव्यापारस्यास्वादजनकत्वं परम्परया समागत-
मित्यर्थः। यद्यपि भावनाऽपि न काव्यव्यापारजन्या तथापि विषयतया भावना-
जनकीभूतदुष्यन्तादिनिष्ठरत्यादेरभिव्यञ्जकतया व्यञ्जनाया भावनाजनकत्वमुक्त-
मित्यपि बोध्यम्। भावनारूपदोषविशेषमहिम्ना सामाजिका दुष्यन्तत्वोत्पत्तिहारेण
या दुष्यन्ताभेदबुद्धिरहं दुष्यन्त इत्याकारिका तस्याः प्रभावेण शकुन्तलादावगम्यात्व-
प्रकारकज्ञानाभावमुपपादयति- शकुन्तलादावित्यादिना। अगम्यात्वप्रकारकज्ञाने
हि सति तद्विषयकरतिमत्त्वबोधाभाव एव सामाजिकानां स्यादित्यर्थः ॥
भावनारूपदोषवशात् सामाजि केऽनुत्पन्नस्यैव रत्यादेर्भ्र मात्मको बोधः 'अहं
शकुन्तलाविषयकरतिमान् दुष्यन्तः' इत्याद्याकारको रस इति चतुर्थं मतमाह-परे
त्वित्यादिना। अत्र च मते दुष्यन्तादिनिष्ठरत्यादिरनुमेय एव, व्यञ्जनाया अनभ्युप-
गमात्। भावनावशात् स्वात्मनि दुष्यन्ताद्यभेदभ्रमे कृतं सामाजि के प्रातिभासिकरत्या-
द्युत्पादाभ्युपगमेनेति मतस्यैतस्य सारम्। तदेतदाह-व्यञ्जनव्यापारेत्यादिना।
कुछ अन्य आचार्य तो रस के विषय में यह मानते हैं-दुष्यन्तादिनिष्ठ
रत्यादि के बोध के लिए व्यञ्जना वृत्ति की कोई आवश्यकता नहीं।
रत्यादि-बोध तो अनुमान से हीं सम्भव है। इसी तरह सामाजिक में
प्रातिभासिक रत्यादि की उत्पत्ति मानने का भी कोई प्रयोजन नहीं है। तब
सामाजिक को रस-प्रतीति कैसे होती-इस प्रश्न के उत्तर में यही समझना चाहिए
कि सर्वप्रथम काव्य के अध्ययन या श्रवण से सामाजिक को दुष्यन्तादि तथा उनके
रत्यादि के व्याप्य चेष्टा आदि का शब्द ज्ञान होता। नाट्य के अवलोकन से तो