सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 130, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 130

९८ रसगङ्गाधरः
अवच्छेदकं दुष्यन्तत्वमप्यनिर्वचनीयमेव । अवच्छेदकं च रत्यादि-
विशिष्टबोधे विशेष्यतावच्छेदकत्वम् । एतेन—“दुष्यन्तादिनिष्ठस्य रत्या-
देरनास्वाद्यत्वान्न रसत्वम् । स्वनिष्ठस्य तु तस्य शकुन्तलादिभिरतत्संब-
न्धिभिः कथमभिव्यक्तिः ? स्वस्मिन्दुष्यन्ताद्यभेदबुद्धिस्तु बाधबुद्धिपराहता”
इत्यादिकमपास्तम् । यदपि विभावादीनां साधारण्यं प्राचीनैरुक्तं तदपि
काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु
शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम् । अतोऽवश्यकल्प्ये दोष-
विशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरपि सूपपादा ।
सम्प्रति नव्यमतानुसारेण भट्टनायकमतपूर्वपीठिकां निराकरोति—एतेनेत्या-
त्यादिना । अस्यापास्तमित्येनेनान्वयः । एतेनेत्यस्य च सामाजिके दुष्यन्ता-
भेदबुद्ध्याऽनिर्वचनीयरत्याद्युत्पत्तिसम्भवेनेत्यर्थः । अनास्वाद्यत्वादिति । अना-
स्वाद्यत्वं च सामाजिकस्य तादृशरत्यादि प्रति तटस्थ्येनोपपद्यते । बाधबुद्धिपरा-
हतेत्यादि भट्टनायकमतनिरूपणावसरे व्याख्यातम् । साधारण्यमित्यस्य भट्टनायक-
मते भावकत्वव्यापारेण काव्यनिष्ठेनेत्यादिः, अभिनवगुप्तादिमते च भावनाविशेषणे-
त्यादिः । विशेषप्रतिपादकशब्दस्य विशेषधर्मपुरस्कारेणैवार्थप्रतिपादकत्वमित्याह—
शकुन्तलादिशब्दैरित्यादिना । शकुन्तलादिष्विति । अत्र विषयत्वं सप्तम्यर्थः ।
तथा च शकुन्तलादिविषयको यो दोषविशेषो भावनाविशेषात्मकस्तस्य कल्पनं विने-
त्यर्थः । भावकत्वव्यापारोऽपि फलतो भावनाविशेषाऽव्यतिरिक्त एवेति हृदयम् ।
तेनैव =दोषविशेषेणैव ।
अत्र च पक्षे दुष्यन्तादिनिष्ठवास्तवरत्यादेरेव स्थायित्वम् ।
स्वोत्तरभाविना लोकोत्तराह्लादेन भेदाऽग्रहादेकत्वाध्यवसायाद्वा रसस्य सुखत्व-
व्यपदेशः पूर्वं समर्थितः । स च रतिविषये सम्भवति, तस्या इष्टत्वेन तद्बोधोत्तरं
सुखानुभवस्यानुभविकत्वात् । यत्र त्वनिर्वचनीयशोकाद्यप्रियभावोत्पत्तिः सामाजिके
तत्र तदुत्तरं सुखानुभवाऽभावात् कथं शोकाद्यात्मकस्य करुणादेः सुखत्वव्यपदेश उप-
के कारण तभी तक सामाजिक में रहता जब तक उक्त दोषविशेष बना रहता है ।
उसके नष्ट होते ही यह रस भी नष्ट हो जाता है । यद्यपि यह रस स्वरूपतः सुख-
स्वरूप नहीं है तथापि स्वोत्तरभावी लोकोत्तर आह्लाद से इसका भेद-ज्ञान न होने
से इसे सुखरूप भी कहा जाता है । तात्पर्य यह है कि स्वनिष्ठ अनिर्वचनीय रत्यादि
के अनुभव (=साक्षिप्रत्यक्ष ) के बाद काव्यव्यापार (=व्यञ्जना ) के प्रभाव से
उक्त अनुभव से सामाजिक को अलौकिक सुख होता । ( करुण आदि रस के सन्दर्भ
में प्रातिभासिक सामाजिकनिष्ठ शोकादि से अलौकिक सुख होता है या नहीं—यह
विचार बाद में स्वयं ग्रन्थकार करेंगे । ) दोनों—रत्यादि और तत्समकालिक