रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
DevanagariHindipublished414 पृष्ठ
पृष्ठ 129, कुल 414 में से
संदर्भ में पढ़ेंपृष्ठ 129प्रथमाननम् ९७
प्रथमाननम् ९७
लोकोत्तराह्लादेन भेदाऽग्रहात्सुखपदव्यपदेश्यो भवति । स्वपूर्वोपस्थितेन
रत्यादिना तदग्रहात्तद्रतित्वेनैकत्वाध्यवसानाद्वा व्यङ्ग्यो वर्णनीयश्चोच्यते ।
नानध्यवसीयमानो रत्यादिः सुखपदव्यपदेश्योऽपि भवति । अस्मिंश्च पक्षे सुखमा-
ह्लादापरपर्यायं चित्तवृत्त्यात्मकमेव, आनन्दरूपावरणनिवृत्त्यभावेन आत्मानन्दाऽ-
स्फुरणात् । प्रातिभासिकपदार्थतत्प्रतिभासयोस्तुल्यकालत्वाद्रत्यादिप्रत्यक्षोत्तरजाय-
मानस्यान्याह्लादस्य रत्याद्युत्तरभावित्वमुक्तम् । यद्वाऽनिर्वचनीयरत्यादिविषयक-
साक्षिप्रत्यक्षरूपेण जायमानयाऽविद्यावृत्त्या स्वात्मानन्दावरणनिवृत्तिः, ततश्च स्वात्म-
भूतानन्देन सह पूर्ववद् गोचरीक्रियमाणत्वाद्रत्यादेः सुखपदव्यपदेशः । अस्य च सुख-
स्यात्मस्वरूपभूततया अलौकिककाव्यव्यापारप्रयोज्यतया चाऽलौकिकत्वम्, विशेषणी-
भूतस्य विशेष्यभूतस्य वा रत्यादेः काव्यार्थभावनाजन्यतया वा जन्यत्वमुपपाद्यम् ।
अथवा रत्यादेः सुखजनकत्वेन सुखत्वव्यपदेशः । सुखस्य नित्यत्वेऽपि रत्याद्युपहित-
सुखस्य जन्यत्वमुक्तम् । अस्मिंश्च पक्षे शोकादेरप्यनिर्वचनीयस्य सुखव्यपदेश
इष्टश्चेदात्मस्वरूपभूतानन्दसंस्पर्शादेव, ‘सरसिजमनुविद्धं शैवलेनाऽपि रम्यम्’ इति
वदिति वक्ष्यति । तदेवमस्मिन् मते सामाजिककर्तृकरसानुभवोपपादनाय सामा-
जिकेषु प्रतिभासिकरत्याद्युत्पत्तिसाधनमेव विशेष इति बोध्यम् । अस्य सामाजि-
निष्ठरत्यादेरनिर्वचनीयस्य भावनादोषजन्यतया साक्षिप्रत्यक्षविषयतया व्यङ्ग्यत्व-
व्यपदेशः अनिर्वचनीयत्वेन च वर्णनीयत्वव्यपदेशः कथमित्युपपादयति—स्वपूर्वेत्या-
दिना । उपस्थितेन = व्यङ्ग्येन वर्णनीयेन च । रत्यादिनेत्यस्य दुष्यन्तादौ
शकुन्तलादिविषयकेणेत्यादिः । तदग्रहात् = भेदाग्रहात् । ननु ब्रह्मजगदध्यासे
धर्मिणोः परस्पराध्यासाद्धर्मयोरपि परस्पराध्यासो यद्यपि प्रसिद्धस्तथापि लोके यस्मिन्
यद्भेदाग्रहस्तत्रानुयोगिनि प्रतियोगिधर्माध्यास एव प्रसिद्धः, यथा शुक्तौ रजतधर्मा-
ध्यासः, तथा चानिर्वचनीयसामाजिकनिष्ठरत्यादिधर्मस्य दुष्यन्तादिनिष्ठशकुन्तलादि-
विषयकरत्यादिधर्मिण्यध्यासासम्भवेऽपि तद्विपर्ययेणानिर्वचनीयरत्यादौ दुष्यन्तादिनिष्ठ-
रत्यादेः सामाजिकैर्व्यञ्जनया गृहीतस्य यो धर्मो व्यङ्ग्यत्वं तस्याध्यासोऽनुपपन्न
एवेत्यतः समाधानान्तरमाह—एकत्वाध्यवसानाद्वेति । इदन्त्वाद्यारोपादुत्तरान्तर-
मेव वा । अत्रैव हेतुः—रतित्वेनेति । रतित्वं ह्युभयसाधारणम्, यश्च पूर्वोपस्थिते
व्यङ्ग्ये रत्यादौ दुष्यन्तादिनिष्ठत्वं नाम भेदको धर्मस्तस्य च भावनास्वरूपदोष-
महिम्ना स्वात्मनि दुष्यन्ताद्यभेदबुद्ध्या प्रतीतिरेव नेति न तद्धर्मस्य तयोर्भेदकत्वमिति
सूपपादोऽनयोरेकत्वाध्यवसाय इत्याशयः । तथा च रसे व्यङ्ग्यत्वमुपचरितमेवेति
बोध्यम् ।
की उत्पत्ति माननी पड़ती है ।
यह अनिर्वचनीय रत्यादिस्वरूप रस भावनात्मक दोषविशेष से उत्पन्न होने