सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 127, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 127

प्रथमाननम् ९५
व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदय-
तोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्ना कल्पितदुष्यन्तत्वाव-
च्छादिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्य-
मानोऽनिर्वचनीयः साक्षिभास्यशकुन्तलादिविषयकरत्यादिरेव रसः ।
एतेन मतेऽस्मिन्नालम्बनकारणादीनां शकुन्तलादीनां विभावादिपदवीप्रापणाय न
भावनाविशेषस्य न वा भोजकत्वव्यापारस्य प्रयोजनमिति प्रतीयते, आलम्बनकारणा-
दीनामेव नामान्तराणि विभावादय इति ज्ञायते । सहृदयता = प्राक्तनी काव्यार्थ-
वासना, रत्यादिवासनेति यावत् । तया सहृदयतया उल्लासितस्य = सहकृतस्य,
शुक्तिरजतभ्रमोऽपि तस्यैव भवति यस्य रजतविषयकसंस्कारः पूर्वत एव वर्त्तते ।
अतोऽत्र रत्यादिभ्रमेऽपि वासनाख्यः कश्चन रत्यादिविषयकः संस्कारविशेषः सहृदये
नितरामपेक्षितः । तस्य चोद्वोधो दुष्यन्तादिस्थानीयनटकत्तृ करत्यनुकूलविलासादि-
ज्ञानेन काव्याध्ययनश्रवणजन्यतज्ज्ञानेन वा यथायथमवगन्तव्यः । सेयं वासना रत्या-
देर्भ्रमात्मकदुष्टफलजनकत्वादोष इत्युच्यते । स्वतस्तु वासनाया दोषत्वं दुर्घटम् ।
यद्वा भावनात्मकदोषसहकारितया रत्यादिवासनाया दोषत्वं निर्वाह्यम् । भावने-
त्यादि । काव्यार्थस्य पुनः पुनर्निरन्तर्येणानुसन्धानं भावना, सा चात्र सामाजिक-
गतस्वत्वस्य (= दुष्यन्तादिभिन्नत्वस्य) अपलापकत्वेन दोष इत्यभिहिता । अनेनैव
भावनाविशेषस्वरूपदोषेण स्वस्मिन् दुष्यन्तरूपेण प्रतीतिः । अयं च दुष्यन्तादि-
रनिर्वचनीयो यावत्प्रतिभासमवस्थानात् प्रातिभासिक इत्युच्यते वेदान्तनये ।
दुष्यन्तकल्पनायां च दुष्यन्तत्वमपि कल्पितं भवत्येवेति दुष्यन्तत्वमपि प्रातिभासिकं
सदसद्भ्यामनिर्वचनीयं तत्रोत्पद्यत एव । इदमेव प्रातिभासिकत्वं सामाजके
दुष्यन्तत्वादेः कल्पितत्वमुक्तं ग्रन्थे । यदा च सामाजके दुष्यन्तादिः कल्प्यते तदा
दुष्यन्तत्वादिः तत्सहचरितो रत्यादिरपि शकुन्तलादिविषयकः कल्पित एव रङ्गे रजत-
स्य कल्पनायां रजतत्वबहुमूल्यत्वादिकल्पनवत् । कल्पितेत्यादि । अज्ञानावच्छिन्नेऽत
एव दुष्यन्तत्वाद्यवच्छादिते स्वात्मनीत्यन्वयः । यदा भावनास्वरूपदोषवशात्सामा-
जिकस्य स्वत्वं दुष्यन्तादिभिन्नत्वमवच्छाद्यते आव्रियते तदा भेदाग्रहात् सामाजिकः
स्वं दुष्यन्तमभिमन्यमानः 'दुष्यन्तोऽहं शकुन्तलाविषयकरतिमान्' इति प्रत्येति ।
अस्यां प्रतीतो शकुन्तलाविषयिणी रतिविशेषणीभूता दुष्यन्तत्वविशिष्टश्च विशेष्य
(सदसद्विलक्षण-प्रातिभासिक) रत्यादि को हीं रस मानते । इस रस की उत्पत्ति
प्रक्रिया इस प्रकार है- सर्वप्रथम सामाजिक काव्य या नाट्य का अध्ययन या अव-
लोकन करते । इससे काव्य में कवि द्वारा वर्णित और नाट्य में नट द्वारा अभि-
नीत विभाव, अनुभाव एवं सञ्चारिभावों की यथासम्भव प्रत्यक्षात्मक या अनुमित्या-