सामग्री पर जाएँ
सर्वकोश
राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास)

राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास)

Rajatarangini of Kalhana with Hindi Translation

महाकवि कल्हण / पं. रघुनाथ सिंह द्वारा

DevanagariHindipublished984 पृष्ठ

पृष्ठ 118, कुल 984 में से

संदर्भ में पढ़ें
पृष्ठ 118

प्रथम तरङ्ग ३६
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः ॥
—सभापर्व : ३४:१२
काश्मीराश्च कुमाराश्च घोरका हंसकायनाः ।
शिवि त्रिगर्त यौधेया राजन्या मद्र केकयाः ॥
—सभापर्व : ५२:१४
केकयान् मालवांश्चैव तथा काश्मीरकानपि ।
अद्राक्षमहमाहूतान् यज्ञे ते परिवेषकान् ॥
—म० :-वनपर्व ५१.२६
आवन्त्यान् दाक्षिणात्यांश्च पर्वतीयान् दशेरकान् ।
काश्मीरकानौरसिकान् पिशाचांश्च समुद्रगलान् ॥
—द्रोणपर्व ११:१६
भृगो रामाभिधावेति यदाक्रन्दन् द्विजोत्तमाः ।
ततः काश्मीरदरदान् कुन्तिशुद्रकमालवान् ॥
—द्रोणपर्व: ७०:११
काश्मीर मंडल के विशेष महत्त्व का उल्लेख
महाभारत में मिलता है । काश्मीर मडल में
उत्तर के ऋषियो यथा नहुष, यंयाति, अग्नि तथा
कश्यप का परस्पर विचार विनियम हुआ था ।
काश्मीरमण्डलं चैतत् सर्वपुण्यमरिंदम ॥
महर्षिभिश्चाप्युषितं पश्येदं भ्रातृभिः सह ॥ १० ॥
यत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च ।
अग्नेश्चैवात्र संवादः काश्यपस्य तु भारत ॥११॥
—वन पर्व : १३०
काश्मीर मंडल के चंद्रभागा तथा वितस्ता
नदियो में सात दिन नित्य स्नान करने पर कहा
गया है, मनुष्य निर्मल हो जाता है ।
सप्ताहं चन्द्रभागां वै वितस्ता भूमिमालिनीम् ।
विगाह्य वै निराहारो निर्मलो मुनिवद् भवेत् ॥७॥
काश्मीरमण्डले नद्यो या. पतन्ति महानदम् ।
ता नदी: सिन्धुमासाद्य शीलवान् स्वर्गमाप्नुयात्॥९॥
अनुशासन पर्व : २५:७०९
उत्तर दिशा में कश्यप का निवास बताया
गया है । काश्मीर उत्तर दिशा में है :
अत्रिर्वसिष्ठो भगवान् कश्यपेश्च महानृषिः ।
गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥३८॥
ऋषीकतनयश्चोग्रो जमदग्निः प्रतापवान् ।
धनेश्वरस्य गुरवः सप्तैते उत्तराश्रितः ॥
—अनुशासन पर्व : १५०:३८-३९
कश्यप की पत्नियां दक्ष की कन्याएं अदिति, दिति,
दनु, काला, दनायु, सिंहिका, क्रोधा, प्राधा, विश्वा,
विनता, कपिला, मुनि, कद्रू थी ।
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह ।
प्रादात् ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥
—आदि पर्व १६:६
दितिर्दितिश्चैदनुः काला दनायुः सिंहिका तथा ।
क्रोधा प्राधा च विश्वा च विनता कपिला मुनि ॥१३॥
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत ।
एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥१३॥
—आदि पर्व : ६५:१२
सुर, असुर दोनों के पूर्वपुरुष कश्यप हैं ।
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः ।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥
—आदि पर्व : ६६:३४
ज्येष्ठ पत्नी अदिति से १२ जनों का जन्म
हुआ था :
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा ।
मारीचः कश्यपस्तस्यामादित्यान् समजीजनत् ॥
— आदि पर्व : ७५:१०
कश्यप की पत्नी अदिति के गर्भ से भगवान्
वामन का अवतार हुआ था ।
कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः ।
पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम् ॥