सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - २५. सू - ४३. ] दीपिकासहितम्. ८७७
( ४ ) श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः ।
( ५ ) ब्रह्मतर्के च—
हितत्वात्समस्तमुपासनं कर्तव्यमिति भावः ॥
( ४ ) ननु श्रुतोऽपि श्रवणादित्रितयसमुच्चयः कथमङ्गीकर्तुं शक्य
ते, ध्यानादेव दर्शनसम्भवात् । न च ज्ञानोपयोगितया श्रवणादेः क
र्तव्यता । श्रवणादेः फलान्तरस्योक्तत्वादित्याशङ्कानिरासकं प्रतिब
न्धः फलमित्यंशं व्याचष्टे—श्रवणादीति ॥ श्रवणादेः साक्षात्फलं चे
त्यर्थः । आदिशब्देन मननं गृह्यते । अज्ञानेति । अज्ञानविपर्ययादिरूपं
यद्दर्शनस्य प्रतिबन्धकं तन्निवृत्तिरित्यर्थः । आदिपदेन संशयो गृह्य
ते । तथा च तत्त्वनिर्णयो वेदार्थनियमः अपरोक्षज्ञानं चेति क्रमभावी
ति शब्दादिजन्यानीत्युत्तरभाविटीकारीत्या गुरूपदेशरूपशब्दप्रत्यय
स्य श्रवणशब्दार्थत्वेन विवक्षितस्य तत्त्वनिर्णयद्वाराऽज्ञाननिवर्तकत्वा
त् युक्त्यनुसन्धानात्मकमननस्य च वेदार्थनियमद्वारा संशयविपर्यय
निवर्तकत्वेन प्रतिबन्धकनिवर्तकतया ध्यानफलकापरोक्षज्ञानोपयोगि
त्वात् , ध्यानस्य च ज्ञानप्रतिबन्धकस्य दृढत्वाद्ध्यानादेव दर्शनमिति
टीकानुसारेण दृढप्रतिबन्धकस्य संशयस्यात्यन्तिकनिरासद्वारा तदु
पयोगित्वात् , ज्ञानार्थिनः समस्तोपासनमपेक्षितमेवेति भावः । अने
न—'हि' यतः 'तन्निर्धारणार्थनियमः' तत्त्वनिश्चयो वेदार्थनियमश्चे
त्येवंरूपं गुरूपदेशविषयवाक्यश्रवणयुक्त्यनुसन्धानात्मकमननफलं
ध्यानफलात् 'तद्दृष्टेः' ब्रह्मदर्शनात्पृथक् ताभ्यां तद्दृष्टेरसिद्धेः, तद्दृष्टे
रर्थे तद्ध्यानं कार्यम् । ननु ध्यानादेव चेद्दर्शनं , तर्हि श्रवणम
ननाभ्यां प्रयोजनाभावात् श्रवणादित्रयानुष्ठानं कुत इत्यतो—हीति ।
'श्रोतव्यो मन्तव्यः' इत्यादिश्रुत्या ज्ञानार्थं त्रितयस्यापि विहितत्वा
दित्यर्थः । ननु श्रौतोऽपि त्रितयसमुच्चयः कथमङ्गीकर्तुं शक्यः, ध्याना
देव दर्शनसम्भवात्, श्रवणादेः फलान्तरस्यैव उक्तत्वाच्चेत्यतः—अप्र
तिबन्धः फलमित्याह । यतस्तद्दृष्टेः 'अप्रतिबन्धः' प्रतिबन्धनिवृत्तिः
तयोः श्रवणमननयोः साक्षात् फलं, तद्द्वारा ध्यानजन्यज्ञानं फलं अ
तः समुच्चयोऽङ्गीकार्य इति सूत्रार्थ उक्तो भवति ॥
( ५ ) श्रवणादेः प्रतिबन्धकनिवृत्तिद्वारा ज्ञानोपयोगित्वरूपोक्तार्थे
स्मृतिं चाह—ब्रह्मतर्के चेति ॥ उक्तमिति शेषः । न केवलं सूत्र इति
चार्थः । किमुक्तमित्यतस्तत्पठति—श्रुत्वेति । 'श्रुत्वा' गुरूपदेशं प्रा

८७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ॥ इति ॥ ४३ ॥
प्य तज्जन्यतत्त्वज्ञानद्वारा तदज्ञानं 'पराणुद्य' परिहृत्य 'मत्वा' ब्रह्म
विषयकयुक्त्यनुसन्धानात्मकमननं कृत्वा 'तत्संशयविपर्ययौ' संशय
मिथ्याज्ञाने पराणुद्य, तथा 'ध्यात्वा' दृढप्रतिबन्धं च पराणुद्य ब्रह्म
दर्शनं 'लभते' प्राप्नोतीत्यर्थः । यद्वा—श्रवणमनननिदिध्यासनानां क्र
मेणाज्ञानविपर्ययसंशयनिवर्तकत्वमत्रोच्यते । यथोक्तं तत्त्वप्रदीपे—
तत्त्वनिश्चयवतोऽपि परोक्षात्कश्चित्संशयो भवति आ दृष्टेः । दर्शने तु
कीदृशोऽपि न भवेत् । तदाह—
श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ॥ इति ॥
ननु—
अथ वा सततं शास्त्रविमर्शो न भविष्यति ।
विष्णुशास्त्रावमर्शनं, एकमन्यद्धरेर्ध्यानम् ॥
इति च । तन्त्रसारे श्रवणादिरूपशास्त्रावमर्शस्य साक्षादपरोक्षज्ञान
साधनत्वोक्तेरत्र प्रतिबन्धकनिवर्तकतया ध्यानाङ्गतया अपरोक्षज्ञानोप
योगित्वोक्तौ तद्विरोध इति चेत, अत्रोक्तं सुधायां—शास्त्राभ्यास
स्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । तेन चित्तवृत्तिनिरोध
नादिति । अथ वा--उपासनाप्राक्कालीनयोः तदन्तर्गतयोः तज्जाती
ययोः श्रवणमननयोः अत्र विचारितत्वात् तन्त्रसारे च तदतिरिक्त
योः तदनन्तरभाविनोः विवक्षितत्वात् न विरोधः । शास्त्राभ्यासध्यान
रूपद्विविधोपासनस्यापि श्रवणमननमङ्गमिति तत्त्वप्रदीपोक्तेः सुधा
यामपि श्रवणमननरूपशास्त्राभ्यासस्य भेद एव तात्पर्यं, न तु भावबो
ध इव अभेदे तात्पर्यं वर्णनीयम् । केचित्तु—ईषद्बिम्बध्यानस्य सर्वापे
क्षितत्वेऽपि अधिकारिविशेषे शास्त्रविमर्शप्राचुर्यविवक्षया 'अथवा
सततम्' इति वाक्योपपत्तेः न विरोध इत्याहुः । इति ब्रह्मतर्के इत्यन्व
यः । अस्य च अज्ञानादिनिवृत्तिः श्रवणादिफलमित्युक्तमिति पूर्वेणा
न्वयः ॥ २५ ॥
॥ इति निर्धारणाधिकरणम् ॥

[ अधि - २६. सू - ४४. ] दीपिकासहितम्. ८७९
२६. अधिकरणम् ॥
( १ ) सू- ॐ ॥ प्रदानवदेव हि तदुक्तम् ॥ ॐ ॥ ४४ ॥
न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिक-
र्तव्येन । यथा गुरुदत्तं तथैव भवति ।
( २ ) 'आचार्यवान् पुरुषो वेद' (छां. ६-१४-२.) इति हि
२६. अधिकरणम् ॥
( १ ) अत्र भगवज्ज्ञानसाधनश्रवणाद्युपासनस्य सेतिकर्तव्यताक-
त्वं साध्यते । सूत्रं पठति—प्रदानवदेवेति ॥ अत्र तच्छब्दपरामर्शप्रद-
र्शनपूर्वकं एवशब्दसूचितपूर्वपक्षं प्रतिक्षिपन् सूत्रं व्याचष्टे—न चेति ।
श्रवणादिमात्रेनेति । यथाकथंचिदनुष्ठितेन इतिकर्तव्यतारहितेन श्रव-
णादिनेत्यर्थः। अनेन पूर्वपक्षसूचकैवशब्दार्थ उक्तो भवति । ब्रह्मदृष्टिर्भ-
वतीत्यनेन सूत्रे पूर्वस्माद्विपरिणामेन दृष्टेरिति पदमनुवर्तत इति सूचि-
तम् । कुतो नेत्याशङ्कते—किं त्विति । तदुत्तरतया मतुबाश्रयणेन प्रदा-
नवदित्येतद्व्याचष्टे—सेतिकर्तव्येनेति । भावप्रधानोऽयं निर्देशः । इति-
शब्दः प्रकारार्थः । इति प्रकारेण कर्तव्यमितिकर्तव्यमङ्गभूतं कर्म त-
स्य भाव इतिकर्तव्यत्वमङ्गं तत्सहितेनेत्यर्थः । श्रवणादिनेति वर्तते ।
कुत इत्यतोऽपि प्रवृत्तं यतस्तत्फलं 'प्रदानवत्' तदनुरूपमित्यभिप्रा-
येण वत्यन्तांशं विवृणोति—यथेति । 'गुरुदत्तं' गुरुदानं तदुपदेशो यथा
'तथा' तदनुसार्येव भवति । फलमिति शेषः । सप्रदानेनेत्यनुक्त्वा
सेतिकर्तव्येनेत्युक्त्या 'श्रोतव्यो मन्तव्यः' इति श्रुतिविरोधः परिहृतः।
तथा च गुरुप्रदानं ज्ञानसाधनस्य श्रवणादेः इतिकर्तव्यताऽङ्कमेव, न
चैतावता तस्य साधनवत्कार्यत्वेन पृथग्वाच्यता सोमलतारसकार्य-
त्वोक्तवत् तदङ्गदृढमुष्टिनिपीडनादेः पृथग्वचनात् । अतो न श्रवणा-
दिमात्रस्य ज्ञानहेतुतावोधकश्रोतव्य इत्यादिवचनविरोध इति भावः॥
( २ ) ननु प्रदानाधीनत्वं ज्ञानस्य कुत इत्यतः प्रवृत्तं तदुक्तमित्ये-
तद्व्याचष्टे—आचार्यवानिति ॥ 'हि' यस्मादुक्तं तदिति सम्बध्यते ।
तथा च छन्दोगश्रुतौ तज्ज्ञानस्य गुरुप्रसादाधीनत्वमुक्तमित्यर्थः । ही-
त्यनेन सूत्रे पूर्वस्माद्विशब्दोऽनुवर्तनीयः, स च श्रुतिसूचकः, यस्मा-
दित्यर्थे चेत्युक्तं भवति । 'आचार्यवान्' तदनुग्रहवान् पुरुषो विमु-
क्ताविद्यापटलस्सन् ब्रह्म वेदेति छन्दोगश्रुत्यर्थः । अनेन—'हि' यत-
स्तत् प्रदानयुक्तमेव श्रवणादि ज्ञानसाधनमिति तस्यां श्रुतायुक्तं अतः

:
क्तम् ॥ ४४ ॥ - that is the end of तदुक्तम् ॥ ४४ ॥!
Now look at the commentary on Sutra 44 (Adhikarana 26, Pradanadhikarana):
The sutra has words:

  1. प्रदानवत्
  2. एव
  3. तदुक्तम्
    Wait! Where would 'तद्गृहेः' come from if the sutra is प्रदानवदेव तदुक्तम्?
    Wait, is it 'तद्गृहेः' or 'तद्ग्रहे' or 'तदुक्तेः'?
    LOOK AT THE LETTERS:
    त
    दु (da with u-kara ु!)
    क्तेः (ka-ta with e-kara and visarga ेः!)
    ' त दु क्तेः ' !!!!!!!!!
    YES! तदुक्तेः!
    Look at it:
    त
    दु
    क्तेः
    'तदुक्तेः'!
    Because the sutra word is तदुक्तम्!
    In the commentary, the commentator explains तदुक्तम् as:
    'तदुक्तेः' ब्रह्मज्ञानस्य साधनं, न श्रवणादिमात्रमिति सूत्रार्थ उक्तो भवति ॥ २६ ॥

[ अधि - २७. सू - ४५. ] दीपिकासहितम्. ८८१
भगवद्दृशेभ्य आचार्य्याद्धैव विद्या विदिता साधिष्ठं
प्रापयति' (छा. ४-९-३.) इति वचनात् ।
( २ ) 'अत्र ह न किञ्चन वीयाय' इत्यनुज्ञानादुपकोसलव
त्य ब्रह्मविद्यामुपदिदिशुः । अथ तैः ब्रह्मविद्यां श्रुत्वा स्वाचार्यकुलं पुनः
प्राप्तोऽथाचार्येण गौतमेन हे सत्यकाम त्वं ब्रह्मविदिव भासि को नु
त्वामनुशशास देवो वा मनुष्यो वेत्युक्तो मनुष्येभ्योऽन्य देवा इति
'प्रतिजज्ञे' विज्ञापयांचक्रे । अथ गौतममुपदेशाय प्रार्थयत । किमि
ति ? यद्यपि देवेभ्यो मया श्रुतं ब्रह्म, तथाऽपि भगवानेव तु 'मे' मम
'कामे' तादर्थ्ये सप्तमी, शुभार्थं 'ब्रूयात्' ब्रवीतु । कुतः ? 'हि' य
तो 'भगवद्दृशेभ्यो' भगवत्समेभ्य एव 'मे' मया श्रुतम्, न त्वाचा
र्यात् अतो हेतोः । न च यस्मात्कस्माच्चित् श्रवणेनालमिति शङ्क्यम् ।
यतः उपनयनादिकर्तुराचार्यादाराधितादेव 'विदिता' लब्धा विद्या
'साधिष्ठं' भावप्रधानोऽयं, साधुतमत्वं स्थिरत्वं वा 'प्रापयति' स्वा
र्थे णिच्, प्राप्नोति । कचिद्भवतीति पाठः, तदा भवतेः प्राप्त्यर्थता ज्ञे
या । न च देवा मे आचार्याः, तेषामाचार्यतया मयाऽनङ्गीकृतत्वाद्वि
ति भावः । प्रापयतीत्यनन्तरं श्रुताविति शब्दोऽस्ति, तस्य इति प्रतिज
ज्ञे इत्यन्वयः । अयं तु भाष्यकारीयः । इति वचनादित्यस्योत्तरत्रा-
न्वयः ॥
( २ ) लिङ्गान्तरं दर्शयति—अत्रेति ॥ 'अत्र' ऋषभादिदेवेभ्यः
श्रवणे तन्निमित्तं किञ्चन 'न वीयाय' नापगतं न ते काचिद्धानिरप
राधोऽभूदिति गौतमः सत्यकामायोवाचेत्यर्थः । हेत्यास्वादने । इत्यनु
ज्ञानादिति । इत्येवं गौतमेन गुरुणा देवोपदिष्टस्य स्वाभिमतिसूचक
शब्दोक्तिरूपानुज्ञाकरणादित्यर्थः । स्वप्रदानस्याप्राबल्येऽनुज्ञावैयर्थ्या
दिति भावः । लिङ्गान्तरं दर्शयति—उपकोसलवचनाच्चेति । उपकोस

८८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
वचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रसाद एव बलवान् ।
तः । अथोपकोसलः स्वगुरोराज्ञानुसारेण बहुवर्षगणं गार्हपत्यादीन्
त्रीन् परिचचार । अथ ते तुष्टाः 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' (छा.
४-१०.) इत्यादिना सम्भूय प्रत्येकं च ब्रह्मविद्यामुपदिदिशुः । तेभ्यः
श्रुतविद्योऽप्युपकोसलः 'आचार्यस्तु ते गतिं वक्ता' (छा. ४-१४.)
इति तैरुपदिष्टो गुरुमार्थयत । गुरुरपि सत्यकामस्तं प्रति 'य एषोऽ
न्तरक्षिणि पुरुषो दृश्यते' (छा. ४-१५.) इत्यादिना विद्यामुवाचेति
श्रवणादेरेव प्राबल्येन तेन गुरुः प्रार्थ्येत, गुरुणा च नोच्येत, अतो
ज्ञायते गुरुप्रदानं बलवदिति । यद्यपि छान्दोग्ये 'किन्नु सोम्य तेऽनु
वोचन्' (छा.४-१४.) इति सत्यकामेन पृष्टः उपकोसलः 'इति ह प्र
तिजज्ञे' (छा.४-१४.) अग्निभिरुक्तं विज्ञापयांचक्रे इत्येवोच्यते, न तु
तेन विद्योपदेशाय गुरुरर्थ्यते इति । प्रत्युत 'लोकान्वाव किल
सोम्यतेऽब्रुवन्नहं तु वक्ष्यामि' (छा.४-१४.) इत्यनेन स्वयमेवोप
दिष्टवानिति प्रतीयते । तथाऽपि 'इति ह प्रतिजज्ञे' इत्यनेना
ग्निभिरुक्तस्य 'आचार्यस्तु ते गतिं वक्ता' (छा.४-१४.) इत्यस्या
पि विज्ञापितत्वात्तदेव प्रार्थनाज्ञापकमिति भावः । 'वचनात्'
अभ्यनुज्ञानात् । वचनाच्च लिङ्गभूयस्त्वादिति सामानाधिकरण्य
म् । तथा च सत्यकामप्रार्थनगौतमानुज्ञोपकोसलप्रार्थनसत्यकामव
चनात्मकात् बहुलिङ्गादित्यर्थः । एवं हेतुं व्याख्याय तद्वलीय इति प्र
तिज्ञांशं व्याचष्टे—गुर्विति । 'बलवत्' प्रवलं स्वप्रयत्नादिति शेषः ।
एवेति सूत्रेऽनुवृत्तपदानुवादः । न श्रवणादित्येवार्थः । यद्यपि तत्र गु
रुप्रसादमात्रं बलवदिति प्रतिज्ञातव्यम् । प्रसादप्राबल्यस्यैवेह वि
चार्यत्वात् । न तु प्रसादपूर्वकगुरूपदेशात्मकप्रदानपर्यन्तधावनम् ।
तथाऽपि 'सविशेषणे हि' इति न्यायेन गुरुप्रसादप्राबल्य एव तात्प
र्यान्न दोषः । न च सूत्रे बलीय इति बलप्रकर्ष एवोक्तः, न तु बलवत्त्व
मिति वाच्यम् । प्रदानं न श्रवणादितो दुर्बलं नापि तद्वत् बलवत्,
किन्तु बलीयः बलवत्तरमिति ज्ञानाय प्रयुक्तस्य बलीयःपदस्य बल
वत्तरमिति स्मृत्यनुसारेण तथैव व्याख्येयत्वात् । सूत्रे स्मृत्यनुसारेण
अर्शआद्यजन्तात् इन्मन्ताद्वा प्रत्ययमाश्रित्य बलवदिति व्याख्यातमि
त्यदोषः । तर्हि स्मृताविव प्रसादापेक्षया अन्यद्वलवत्साधनं व्युद
सितुं बलवत्तरमिति प्रतिज्ञातव्यमिति वाच्यम् । बलवदित्यस्य श्रवणा

[ अधि - २८. सू - ४६. ] दीपिकासहितम्. ८८३
( ३ ) तर्हि तावताऽलमिति न मन्तव्यम् । 'श्रोतव्यो मन्त-
व्यः' (बृ. ४-४-५.) इत्यादेस्तदपि कर्तव्यम् ।
( ४ ) वाराहे च—
गुरुप्रसादो बलवान्न तस्माद्बलवत्तरम् ।
तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धये ॥ इति ॥ ४५॥
*
२८. अधिकरणम् ॥
( १ ) सू—ॐ ॥ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानस-
वत् ॥ ॐ ॥ ४६ ॥
देः सर्वस्मात् साधनात् बलवत्तरमित्यर्थाभ्युपगमात् । एवशब्दश्च ब-
लवदेवेत्यपि संबध्यते । नाधमं नापि सममित्यर्थसिद्धेः । यद्वा—सूत्रे
मत्वर्थे ईयसुन्, स्मृतौ स्वार्थे तरबार्षः ॥
( ३ ) तदपीत्यंशमवतारयति—तर्हीति ॥ गुरुप्रसादस्य प्राबल्ये
इत्यर्थः । 'तावता' तावतैव न श्रवणादिना कृत्यमित्येवशब्दार्थः । 'इ-
ति' इत्यपि न केवलं प्रसादस्य दौर्बल्यमिति, किन्तु श्रवणादेर्वैयर्थ्य-
मित्यपि न मन्तव्यमित्यर्थः । कुतो नेत्यतस्तत्र हेतुतया—हि तदपीत्यंशं
हिशब्दसूचितश्रुत्युदाहरणपूर्वकं कर्तव्यमिति पदाध्याहारेण च व्या-
चष्टे—श्रोतव्य इति । 'तदपि' श्रवणादिकमपीत्यर्थः ॥
( ४ ) अत्र स्मृतिमाह—वाराहे चेति ॥ न केवलं सूत्र इति चार्थः।
साधनेषु गुरुप्रसादो बलवान्, तस्मात्प्रसादात् 'बलवत्तरं' बलवत्सा-
धनं नास्तीत्यर्थः । यद्यप्येवं, तथाऽपि मोक्षसिद्धये 'श्रवणादिश्च' श्र-
वणादिरपि कर्तव्य इत्यर्थः । इति वाराहे इत्यस्य सूत्रकृदुक्तमुक्तमि-
त्यध्याहृतेनान्वयः ॥ २७ ॥
॥ इति लिङ्गभूयस्त्वाधिकरणम् ॥
*
२८. अधिकरणम् ॥
( १ ) अत्राधिकरणे पूर्वप्राप्तादन्योऽपि गुरुः स्वीकार्य एवेति सम-
र्ध्यते ।
गुरुत्यागे भवेन्मृत्युर्मन्त्रत्यागे दरिद्रता ।
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ॥ इति ॥
गुरुपरित्यागे दोषश्रवणात्, प्रथमप्राप्तपरित्यागे कारणाभावाच्च पूर्व

८८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३.]
न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चे
त्पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् ।
प्राप्त एव गुरुर्ग्राह्यो नान्य इति प्राप्ते सिद्धान्तयत्सूत्रं पठति—पूर्वेति ॥
अत्र पूर्वविकल्पः स्यादिति साध्यांशं व्याचष्टे—न चेति । किन्तु प
श्चात्तनोऽपि स्वीकार्यो भवतीत्येवकारार्थः। अनेन पूर्वविकल्पस्स्यादि
त्यस्य पूर्वप्राप्ते गुरौ विकल्पो ‘नियमः’ स एवानुवर्तनीय इति निय
मो नास्ति, किन्तु पश्चात्तनोऽपि स्वीकार्यो भवेदित्यर्थ उक्तो भवति ।
ननु पश्चात्तनस्वीकार वैय्यर्थ्यमित्यतः प्रवृत्तं प्रकरणादित्यंशं व्याच
ष्टे—समग्रेति । समग्रानुग्रहमिति प्र इत्यस्यार्थकथनम् । शिष्याज्ञा
नादिपरिहरणसमर्थं तदपेक्षितार्थोपदेशार्थानुग्रहमित्यर्थः । अनुग्रह
मित्यनेन सूत्रे प्रकृष्टानुग्रहकरणमपेक्ष्येति ल्यब्लोपे पञ्चमीत्युक्तं भव
ति । ‘चेत्’ यतः पश्चात्तनो गुरुरिति शेषः । प्रकरोतीत्यनेनोपसर्ग
स्य न केवलं कर्मसमर्पकत्वं, किन्तु क्रियातिशयद्योतकत्वमपीत्युक्तं
भवति । तथा च पूर्वगृहीतात्पश्चात्तनो गुरुः यतः समग्रानुग्रहं करो
ति अतो न हत्स्वीकारवैयर्थ्यमिति सोऽपि स्वीकार्यः, न तु पूर्वप्राप्त ए
व गुरुरिति नियम इति योजना । इदानीं प्रकरणात्पूर्वविकल्प इत्यंशं
पूर्वत्यागे पश्चात्तनस्वीकारे विशेषाभिधानपरतयाऽपि व्याचष्टे—स
मग्रेति । अस्मिन् पक्षे प्रकरोतीत्यन्तस्य न पूर्वेणान्वयः, किन्तु उत्तर
वाक्येनान्वयः। ‘चेत्’ यदि। पश्चात्तन इत्यनन्तरं समोऽधिकः अध
म इति शेषः । ‘स्वयमेव’ यदृच्छयैव । तदेत्यस्य तत्र त्यागे स्वीका
रे चेत्यप्यर्थः । सूत्रे पूर्वविकल्प इत्यस्य पररूपभावाभावयोः अविक
ल्पो विकल्प इति द्वेधा विच्छिन्नत्वात् भाष्येऽपि विकल्पोऽविकल्प इ
ति द्वेधा विच्छेदः कार्यः । पूर्वानुज्ञयेति शेषः । नेति चानुपज्यते । त
था च पश्चात्तनो यदि पूर्वगृहीतेन समः तदा पूर्वत्यागे पश्चात्तनः
समग्रानुग्रहं करोति चेत् पूर्वतनस्त्याज्यः, न चेत् न त्याज्य इति वि
कल्पः व्यवस्थितप्रकारभेदः स्यात् । एवं समः समग्रानुग्रहं करोति
चेत्तदा पूर्वसमस्वीकारे विकल्पः स्यात् पूर्वानुज्ञया स्वीकार्यः । तद
भावे ‘न वा’ न स्वीकार्य एवेति विधिरिति । स्वयमेवेत्यनेन विकल्पश्च
यदृच्छया प्राप्तौ, न तु तदर्थं प्रयतितव्यमित्युक्तं भवति । एवं पश्चा
त्तनोऽधिक उत्तमश्चेत् स च यदि समग्रानुग्रहं न करोति, तदा पूर्वे
स्मादधिकस्वीकारे ‘अविकल्पो’ विकल्पो न स्यात् । न स्वीकार्ये

[ अधि - २८. सू - ४६. ] दीपिकासहितम्. ८८५
( २ ) मानसक्रियावत् । यथोभयोर्ध्यानयोः समयोः ।
( ३ ) पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि ।
गृह्णीयादविचारेण विकल्पः समयो र्भवेत् ॥
समग्रानुग्रहाभावात्सत्यकामस्स्वकं गुरुम् ।
ऋषभाद्यनुज्ञया चैव प्राप तस्माद्धि युज्यते ॥
इति बृहत्तन्त्रे ॥
इति यावत् । एवं पश्चात्तनः पूर्वस्मादधिकः समग्रानुग्रहं करोति चेत्
तदा स्वयमेव पूर्वानुज्ञां विना ‘अविकल्पः’ असंशयः, पूर्वं परित्य
ज्योत्तमो गुरुस्वीकार्यस्स्यात् । एवं पश्चात्तनः पूर्वस्मादधमश्चेत्तदात्या
गे ‘अविकल्पो’ नियमत्याग एव न स्यात् । ‘गुणाधिकं गुरुं प्राप्य तर्द्धा
नं नाप्नुयात्क्वचित्’ इति वचनात् । पूर्वस्मादधमः समग्रानुग्रहं क
रोति चेत् स्वीकारे विकल्पः स्यात् पूर्वानुज्ञया ग्राह्य एव स्यात् । य
थोक्तं तत्त्वप्रदीपे, अतः सिद्धं समग्रानुग्रहे तूत्तमस्य तदनुज्ञया वरः
प्राप्य इतीति योजना ॥
( २ ) साम्ये विकल्प इत्यत्र सूत्रोक्तं दृष्टान्तमर्थक्रमेण व्याचष्टे—
मानसेति ॥ अनेन सूत्रे षष्ठीद्विवचनान्ताद्धतिः । क्रिया धात्वर्थः ध्या
यत्यर्थो ध्यानम् । मानसी मनोवृत्तिरूपा च सा क्रिया च कडारादि
त्वात्परनिपातः इत्युक्तं भवति । मानसक्रियावदिति स्वपदं वर्णय
ति—यथेति । विकल्पः स्यादिति सम्बन्धः । ‘उभयोः’ रामकृष्णा
दिरूपद्वयविषययोः नीलपीतादिरूपद्वयविषययोर्वेत्यर्थः । ‘समयोः’
फलतः समयोरेव विकल्पः नोत्तमाधमयोरिति ॥
( ३ ) अत्र स्मृतिमाह—पूर्वस्मादिति ॥ यदि ‘पूर्वस्मात्’ पूर्व
गृहीतात् उत्तमो गुरुर्लब्धस्तदा असौ अविचारेणासंशयं स्वयमेव
पूर्वानुज्ञां विना गृह्णीयादित्यर्थः । ‘समयोः’ ज्ञानादितः । पूर्वोत्तरयो
रिति च त्यागस्वीकारयोरिति च शेषः । यदि पूर्वस्मादुत्तमोऽविचा
रेण स्वीकार्यः, तर्हि कथमृषभादयः सत्यकामेन न गृहीताः, प्रत्युत
पूर्वतन एव प्राप्तोऽतो नैतद्युक्तमित्यत आह—समग्रेति । ‘हि’ यस्मा
त्सत्यकामः ऋषभादीनां एकैकस्मादेव ‘समग्रानुग्रहाभावात्’ तैस्त
दकरणात् ऋषभाद्यनुज्ञयैव ‘स्वकं’ स्वयोग्यावदुपदेशकत्वेन स्व
योग्यमेव गुरुं गौतमं ‘प्राप’ जग्राह, न तूत्तमान्, तस्मात्पूर्वपरित्यागे
न समग्रानुग्रहकर्ता उत्तमः समो वा स्वीकार्य इत्येतद्युज्यत इत्यर्थः ॥

८८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ४ ) समग्रानुग्रहं कश्चित्स्वयमेव समो यदि ।
कुर्यात्पुनश्च गृह्णीयादविरोधेन कामतः ॥
( ५ ) ध्यानयोस्समयोर्यद्वद्विकल्पः कामतो भवेत् ।
एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च ।
इति महासंहितायाम् ॥ ४६ ॥
( ६ ) सू- ॐ ॥ अतिदेशाच्च ॥ ॐ ॥ ४७ ॥
‘ ब्रह्मोपास्व ब्रह्मोपचरस्व तच्छृणु हि तत्त्वामवतु ।
यथा ब्रह्मोपचरेर्यथा मामुपचरेर्य चाऽन्येऽस्मद्विधाः श्रे
( ४ ) साम्ये पूर्वानुज्ञापेक्षितेति भावेन तत्र स्मृतिमाह — समग्रे-
ति ॥ यदि पुनः पूर्वस्य ज्ञानादिगुणैः समः कश्चिन्मध्ये प्राप्तो गुरुः
स्वयमेव शिष्यप्रयत्नं विनैव प्रसन्नः समग्रानुग्रहं कुर्यात् ‘तदाऽविरो-
धेन’ पूर्वानुज्ञया ‘कामतो’ यथेच्छं गृह्णीयात्तन्मिति शेषः ।

[ अधि - २९. - सू - ४८. ] दीपिकासहितम्. ८८७
यसश्च तानूपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वा
मवन्तु' इति पौष्यायणश्रुतावतिदेशाच्च ॥ ४७ ॥
*
२९. अधिकरणम् ॥
( १ ) न च 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः'
( गी.३-२०. ) इत्यादिनाऽन्यन्मोक्षसाधनम् ।
सू--ॐ ॥ विद्यैव तु निर्धारणात् ॥ ॐ ॥ ४८ ॥
'तमेवं विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽ
यनाय' ( श्वे. ३-८. ) इति निर्धारणाद्विद्ययैव मोक्षः ॥४८॥
प्रसिद्धं ब्रह्म शृणु । शृणुहीति छान्दसमेकं वा पदम् । तत् त्वां रक्ष
तु । यथा ब्रह्मोपासीथाः तथा मामुपास्व, यथा ब्रह्मोपचरेः तथा मा
मुपचरस्वेति शेषः । यथा मामुपचरेस्तथा येऽन्ये च 'अस्मद्विधाः'
अस्मत्समानाः 'श्रेयसो' विभक्तिविपरिणामेन श्रेयांसः तान् श्रेय
सोऽस्मदुत्तमांश्च उपास्वोपचरस्वेति शिष्यं प्रति गुरुवाक्यमेतत् ।
आचार्योपासनं नाम सविनयमन्ते स्थितिः आचार्योपचारोऽभीष्टकर
णादिः । 'तेभ्यः' समोत्तमेभ्यः ब्रह्म शृणु 'ते' समोत्तमाः त्वां 'अ
वन्तु' रक्षन्त्विति तत्त्वप्रदीपदिशा श्रुत्यर्थः ॥ २८ ॥
इति विकल्पाधिकरणम् ॥
:*:-
२९. अधिकरणम् ॥
( १ ) अत्र नये उपासनस्य कर्तव्यता समर्थनाय ज्ञानमेव मुक्तिहे
तुरिति समर्थ्यते । सूत्रगतैवकारसूचितपूर्वपक्षं प्रतिषेधति—न चेति ॥
चोऽवधारणे अप्यर्थे च । ज्ञातमिति शेषः । तथा च इत्यादिना वाक्येन
मोक्षसाधनत्वेन ज्ञातं ज्ञानात् 'अन्यत्' कर्माद्येव मोक्षसाधनं नेत्यर्थः ।
यद्वा-'अन्यत्' कर्माद्यपि मोक्षसाधनं नेत्यर्थः । आदिशब्देन 'त्यागेनैके
अमृतत्त्वमानशुः' ( महाना.१०. ) 'प्रयागमरणेन वा' इत्यादिकं गृह्य
ते । 'संसिद्धिं' मोक्षं 'आस्थिताः' प्राप्ताः 'जनकादयो' विदेहाद
यः । इदं गीतावाक्यम् । 'त्यागेन' देवतामुद्दिश्य द्रव्यत्यागेन 'अमृ
तत्वं' मोक्षं 'आनशुः' प्रापुरिति श्रुत्यर्थः । न चेत्युक्तार्थे हेतुतया सू
त्रमुपन्यस्य व्याचष्टे—विद्येति । 'अयनाय' मोक्षार्थे अपरोक्षज्ञानाद्
न्यः 'पन्थाः' उपायो न विद्यते इत्यर्थः । इति निर्धारणादिति । इति

९८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( २) सू—ॐ ॥ दर्शनाच्च ॥ ॐ ॥ ४९ ॥
न केवलं विद्यया, किं तु अपरोक्षज्ञानेन च । 'सर्वान्
परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण'
इति कौशिकश्रुतेः ॥ ४९ ॥
:—*—:
३०. अधिकरणम् ॥
( १ ) सू—ॐ ॥ श्रुत्यादिवलीयस्त्वाच्च न बाधः ॥ ॐ ॥ ५० ॥
श्रुतौ अन्यस्य मोक्षसाधनत्वनिवारणादित्यर्थः । यद्वा—निर्णायकव
चनादित्यर्थः । सूत्रे मोक्षसाधनमिति शेषः कार्य इति भावेन विद्यैवे
त्येतत्तात्पर्यतो व्याचष्टे—विद्ययैवेति । 'मोक्षः' संसारनिवृत्तिरूपः ।
भवतीति शेषः। भवति यतोऽतो नेत्यन्वयः। सूत्रे 'नान्यःपन्थाः' इत्येवा
र्थश्रुत्यनुसारेण प्रथमाप्रयोगेऽपि विद्ययैवेति तृतीयाप्रयोगेन 'कर्मणैव'
इत्यादिवचनात्सावधारणविद्यावचनस्य प्राबल्यमुक्तं भवति । अनेन
सौत्रतुशब्दः प्राबल्यार्थतया व्याख्यातः । कर्मवचनानां गतिस्तु भाक्त
नये एव प्रतिपादिता । प्रतिपादयिष्यते चोत्तरत्र ॥
( २ ) ननु यदि विद्या मोक्षसाधनं तर्हि ध्यानवैयर्थ्यं, ज्ञानरूपा
याः विद्यायाः श्रवणादेव सम्भवादित्याशङ्कां परिहरत्सूत्रं पठति—द
र्शनाच्चेति ॥ अत्र चशब्दः समुच्चये अप्यर्थेः । मोक्ष इति शेष इति भा
वेन सूत्रं व्याचष्टे—नेति । 'विद्यया' परोक्षज्ञप्त्या । सौत्रदर्शनपदा
र्थमाह—अपरोक्षज्ञानेनेति । मोक्ष इति वर्तते । तथा च दर्शनार्थं ध्या
नमावश्यकमिति भावः । नन्वेवं 'विद्वान्' इति परोक्षविद्यया मोक्ष
श्रवणात्कथमुच्यते दर्शनान्मोक्ष इति, तत्राह—सर्वानिति । विशेषश्रु
तिबलात्साऽपि दर्शनार्थेति भावः । अयं 'परः' सर्वोत्तमः हरिः 'स
र्वान्' जीवान् 'मायया' स्वेच्छया प्रकृत्या च यतः 'सिनीते' बध्ना
ति अतः 'तं' यथायोग्यं दृष्ट्वैव मुच्यते बन्धात, नान्येन परोक्षज्ञानमा
त्रेण नान्यपुरुषदर्शनेन, अन्यस्य बन्धमोचनशक्तस्याभावादिति वा श्रु
त्यर्थः । श्रुतेरित्यनेन न केवलं ब्रह्मदर्शनादित्यर्थः, किन्तु श्रुतेरित्यप्य
र्थ इत्युक्तं भवति ॥ २९ ॥
॥ इति विद्याधिकरणम् ॥
— * —
३०. अधिकरणम् ॥
( १ ) अस्मिन्नधिकरणे यत्साधनं भगवदुपास्तिः तस्य ज्ञानस्य

[ अधि - ३०. सू - ५०. ] दीपिकासहितम्. ८८९
सावधारणा बलवती श्रुतिः ।
इन्द्रोऽश्वमेधांश्छतमिट्ष्ट्वाऽपि राजा
ब्रह्माणमीड्यं समुवाचांपसन्नः ।
न कर्मभिर्न धनेनैव चान्यैः
पश्येत् सुखं तेन तत्त्वं ब्रवीहि ॥ इति बलवल्लिङ्गम् ।
'नास्त्यकृतः कृतेन' (मु. १-२.) इत्युपपत्तिश्च ॥
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
मोक्षसाधनत्वं समर्थ्यते । 'कर्मणैव' इति वचनात् कर्मसाध्य एव
मोक्ष इति प्राप्ते सिद्धान्ताभिधानाय सूत्रं पठति—श्रुत्यादीति ॥ अत्र
मत्वर्थे ईयसुन् । श्रुत्यादिवलीयस्त्वादित्यस्य श्रुतिलिङ्गोपपत्तिस्मृती
नामतिबलवत्त्वात् । बलवच्छ्रुत्यादेरिति यावत् । इत्यर्थमभिप्रेत्य बलीय
स्त्वे हेतुप्रदर्शनपूर्वकं सूत्राभिप्रेतां श्रुतिं, आदिपदसूचितप्रमाणानि
च दर्शयति—सावधारणेति । 'तमेवम्' इति 'दृष्ट्वैव' (कौशिक. )
इति श्रुतिः 'कर्मणैव' इति स्मृतेर्बलवती यतः 'सावधारणा' निरव
काशेतरव्यवच्छेदरूपाऽवधारणेन युक्ता अत इत्यर्थः । यद्यपि 'तमेव
म्' (श्वे. ३-८. ) इति श्रुताववधारणं न श्रूयते, तथाऽपि 'नान्यः प
न्थाः' (श्वे. ३-८. ) इत्यवधारणार्थप्रतीतेः, 'दृष्ट्वैव' इत्यत्र च साक्षा
दवधारणश्रुतेः सावधारणेत्युक्तम् । राजा इन्द्रः शतसङ्ख्याकानश्वमे
धाख्यक्रतून् कृत्वा ईड्यं ब्रह्माणं उपसन्नस्समुवाच । किमिति ? हे ब्रह्म
न् अहं 'कर्मभिः' अश्वमेधाद्यैः धनैः 'अन्यैः' तपआदिभिः सुखं 'न
पश्येत्' पश्येयं न पश्यामि । पश्य इति पाठोऽप्यस्ति । तदा पदिव्यत्य
यः । आद्यपाठे पुरुषव्यत्ययः । (यद्वा-इन्द्रःपश्येदिति परोक्षनिर्देशः।
द्रोणं प्रति भीमवचनमेतत्)। यत एवं 'तेन' कारणेन तदर्थं दुःखासंभि
न्नसुखरूपमोक्षार्थं 'तत्त्वं' मोक्षसाधनज्ञानविषयं ब्रवीहीति श्रुत्यर्थः ।
इति बलवदिति । इत्युक्तं मोक्षस्य ज्ञानसाध्यत्वे अव्यवहितं लिङ्गं बहु
कर्मकृतोऽपीन्द्रस्य दुःखासम्भिन्नसुखरूपमोक्षार्थं तत्त्वज्ञानस्य प्रार्थन
रूपज्ञापकं स्मृतेर्बलवत् निरवकाशत्वरूपप्राबल्योपेतमित्यर्थः । इत्युप
पत्तिरिति । इति श्रुतिबोध्या कार्यत्वे सत्यन्यासाध्यत्वादित्येवंरूपा मो
क्षस्य ज्ञानैकसाध्यत्वे साक्षादुपपत्तिश्च स्मृतेर्बलवतीति सम्बन्धः ।
व्यभिचारादिदूषणशून्यत्वात् श्रौतत्वाच्चेति भावः । लिङ्गोपपत्त्योरुभ
११२

८९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥
इति युक्तिमद्भगवद्वचनम् । अतो न प्रमाणान्तरबाधः॥
( २ ) 'कर्मणैव' ( गी. ३-२०. ) इत्ययोगव्यवच्छेदः ॥ ५० ॥
—*—
३१. अधिकरणम् ॥
( १ ) सू—ॐ ॥ अनुबन्धादिभ्यश्च ॥ ॐ ॥ ५१ ॥
योः श्रौतत्वेऽपि मोक्षस्य ज्ञानैकसाध्यत्वे साध्ये व्यवहितत्वाव्यवहि-
तत्त्वाभ्यां भेदः । श्रुतिस्तु जिज्ञासानये व्याख्याता । यस्मात् 'जन्तुः'
शरीरी काम्येन कर्मणा बध्यते 'विद्यया च' अपरोक्षज्ञानेनैव विमु-
च्यते, तस्मात्कर्म न कुर्वन्ति 'यतयो' निगृहीतेन्द्रियाः 'पारदर्शिनः'
संसृतेः पारभूतस्य ब्रह्मणो दर्शिन इति गीतास्मृत्यथः । इतीति। इति
वचनं स्मृतेर्बलवत् कर्मणो बन्धकत्वमुमुक्ष्वक्रियमाणत्वरूपयुक्तियुक्त-
त्वादित्यर्थः । भगवद्वचनमित्यनेन पूर्वपक्षिणा भगवद्वाक्यत्वादित्युक्त-
हेतोस्साम्यम् । ततश्च तस्य सावकाशत्वमुक्तं भवति । प्रथमान्तानां
अस्तीत्यध्याहृतेनान्वयः । ततः किमित्यतः साध्यसम्बन्धं दर्शयति—
अत इति । बलवच्छ्रुत्यादेः सत्त्वादित्यर्थः । नेति । प्रमाणान्तरेण स्मृ-
तिवचनेन बाधो नत्यर्थः । विद्यैव मोक्षसाधनमित्युक्तस्येति शेषः ।
( २ ) नन्वेवं चेत् 'कर्मणैव' इति स्मृतिरप्रमाणमेवेति प्राप्तमि-
त्यतः चशब्दसूचितार्थमाह—कर्मणेति । क्रियत इति शेषः । 'कर्मणैव'
इति वाक्यगतैवकारेण कर्मायोगस्य तदसम्बन्धस्य व्यवच्छेदो निरा-
सः क्रियते बोध्यत इत्यर्थः । तथा च जनकादयः 'कर्मणा सह' कर्म
कुर्वन्त एव 'संसिद्धिं' मुक्तिं 'आस्थिताः 'प्राप्ता इति न तस्याप्रामा-
ण्यमिति भावः । उपलक्षणमेतत् । कर्मणा संसिद्धिमास्थिता एवेत्य-
पि योजनासम्भवेन नासौ निरवकाश इत्यपि द्रष्टव्यम् । अनेन परकी-
यस्मृतेः सावकाशत्वाच्चेति सौत्रचशब्दार्थ उक्तो भवति ॥ ३० ॥
॥ इति श्रुत्यधिकरणम् ॥
————
३१. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मज्ञानसाधनस्योपासनस्य भक्तिपूर्वकत्वं
समर्थ्यते । प्रबलगुरुप्रसादेनैव ब्रह्मदर्शनसम्भवान्न तदर्थं भक्त्यादि
कमपेक्षितमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अनुब

[ अधि - ३१. सू - ५१. ] दीपिकासहितम्. ८९१
न केवलं श्रवणादिभिः गुरुप्रसादेन च ब्रह्मदर्शनम् ।
किन्तु भक्त्यादिभिश्च ।
( २ ) सर्वलक्षणसम्पन्नस्सर्वज्ञो विष्णुतत्परः ।
यद्गुरुस्सुप्रसन्नस्सन् दद्यात्तन्नान्यथा भवेत् ॥
तथाप्यनादिसंसिद्धभक्त्यादिगुणपूगतः ।
लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत् ॥ इति ॥
न्धेति ॥ सूत्रे पूर्वस्मादनुवृत्तस्य चशब्दस्यार्थमाह—न केवलमिति ।
श्रवणमननादिभिः दर्शनासम्भवेऽपि प्रबलगुरुप्रसादादिना तत्सम्भव
तीत्याशङ्कावारणाय गुरुप्रसादस्य पृथङ्निर्देशः। प्रसादेनापीत्यर्थः ।
‘ब्रह्मदर्शनं’ भवतीति शेषः । अनेन सूत्रे दर्शनाच्चेत्यतो विपरिणामे
न दर्शनमित्यनुवर्तनीयमित्युक्तं भवति । अनुबन्धादिभ्य इत्यत्र अनुब
न्धशब्दार्थमाह—भक्तीति । ‘अनुबन्धस्तु भक्तिस्स्याद्बन्धस्नेह उदा
हृतः’ इत्यभिधानात् । ‘अनुबन्धो’ माहात्म्यज्ञानानुसारिस्नेहरूपभ
क्तिरित्यर्थः । अनुबन्धशब्देन हरिगुरुभक्तयोरुभयोर्ग्रहणमिति सूच
नाय भक्तीति सामान्यनिर्देशः । आदिपदेन शमदमादयो गृह्यन्ते । तृ
तीयापञ्चम्योरेकार्थत्वान्न सूत्रभाष्ययोर्विसंवादः शङ्क्यः । सूत्रे भाष्ये
च तैर्विना तदसिद्धेरिति हेतोः सिद्धत्वान्नोक्तिः ॥
( २ ) ननु नियामकाभाव इत्यतोऽत्रार्थेऽनुवृत्तचशब्दसूचितस्मृ
तिमाह—सर्वेति । स्वयोग्यषण्णवत्यङ्गुलत्वादिलक्षणसम्पन्नः स्वयो
ग्यसार्वज्ञ्योपेतः ‘विष्णुतत्परो’ विष्णुभक्तिमान् गुरुः सुप्रसन्नस्सन्
शिष्याय ‘यद्दद्यात्’ उपदिशेत् ‘तदन्यथा’ फलविसंवादि न भवे
दित्यर्थः । यद्यपि बलवद्गुरुप्रसादादेव दर्शनं भवति । तथाऽपि भक्त्या
द्यपेक्षितमिति शेषः । कुत इत्यत आह—अनादीति । यदनादिकाला
त्संसिद्धं स्वतः सिद्धमव्यक्तं भक्त्यादि स एव गुणपूगः गुणसमुदा
यः तस्माद्गुरुप्रसादं लभेदित्यर्थः । चशब्दाद्धरिप्रसादं चेति सूचयति ।
यत इति शेषः । तर्हि भक्त्यादिकं हरिगुरुप्रसादार्थमेव, न ज्ञानार्थं
स्यादित्यत आह—तस्मादेवेति । ‘तस्मात्’ अभिव्यक्तभक्त्यादेरेव
‘तत्’ अपरोक्षज्ञानं भवेदित्यर्थः । तर्हि भक्त्यादि ज्ञानसाधनमेव न
गुरुप्रसादस्येत्यतोऽप्याह—तस्मादिति । ‘तस्मात्’ भक्त्यादेरेव त
द्गुरुप्रसादादि भवेदित्यर्थः । न च भक्त्यादेरुभयसाधनत्वमयुक्तमिति

८९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ३ ) भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् ।
दद्याच्छमदमादींश्च तेन चैते गुणाः पुनः ॥
तैस्सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत् ॥
इति च नारायणतन्त्रे ॥ ५१ ॥
३२. अधिकरणम् ॥
( १ ) सू-ॐ ॥ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॥ ॐ ॥ ५२ ॥
उपासनाभेदवत्तद्दर्शनभेदः ।
वाच्यम् । यतोऽनादिसिद्धाव्यक्तभक्त्यादिना गुरुप्रसादः तेन भक्त्या-
द्यभिव्यक्तिः अभिव्यक्त्यादिना च ज्ञानमित्यभ्युपगम्यते ॥
( ३ ) भक्त्यादिगुणपूगत इत्यत्रादिशब्दोक्तं तस्मादिति सामान्ये-
नोक्तं च स्पष्टयति—भक्तिरिति ॥ विष्णौ गुरौ च स्वरूपभूतानादि-
सिद्धा या भक्तिः यश्च शमदमादिस्तत्सर्वं गुरोर्नित्यप्रसन्नतां दद्यात्।
तेन गुरुप्रसादेन च पुनरेते भक्त्यादिगुणाः व्यक्ता भवन्ति । व्यक्तै-
स्सर्वैस्तैर्भक्त्यादिभिः विष्णोर्दर्शनं भवेत् । न चैतावता श्रवणादिवै-
यर्थ्यमित्याह—श्रवणादिकृतमिति । दर्शनं श्रवणादिभिः साधनैश्च कृ-
तं भवति । 'तस्मादेव च तद्भवेदिति' इति प्रथमेतिशब्दस्य 'श्रव-
णादिकृतं भवेदिति' इति द्वितीयेतिशब्दस्य च इति नारायणतन्त्र इ-
त्यनेनान्वयः । सूत्रकृदुक्तमुक्तमिति शेषः ॥ ३१ ॥
॥ इति अनुबन्धाधिकरणम् ॥
*
३२. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनासाध्यज्ञाने विशेषतारतम्यं समर्थ्यते ।
'दृष्ट्वैव तम्' ( कौशिक. ) इति श्रुतावविशेषितज्ञानेनैव मोक्षोक्तेः सर्वेषां
ज्ञानमेकप्रकारमेवेति पूर्वपक्षे सिद्धान्तयितुं सूत्रं प्रवृत्तं-प्रज्ञान्तरेति ॥
अत्र प्रज्ञान्तरपृथक्त्ववदित्यनेन दृष्टान्तोक्तिमुखेन हेतुरुच्यत इत्याशये-
न तत्पदं व्याचष्टे—उपासनेति। चशब्दोऽवधारणे, पृथगित्यस्यानुकर्ष-
णार्थश्चेति भावेन दृष्टिश्चेति साध्यांशं व्याचष्टे—दर्शनभेद इति। अने-
न प्रज्ञान्तरं प्रज्ञाविशेषः लिङ्गशब्दजन्याविच्छिन्नपरोक्षज्ञानसन्ततिरू-
पध्यानं तस्य पृथक्त्ववत् भेदवदनेकप्रकारवत्त्ववत् तदनुसारेण 'दृ-
ष्टिः' ब्रह्मदर्शनं च पृथक् भिन्नमनेकप्रकारमेव, फलस्य साधनानुसा

[ अधि - ३२. सू - ५२. ] दीपिकासहितम्. ८९३
(२) तथोक्तं कमठश्रुतौ । 'अन्तर्दृष्टयो बहिर्दृष्टयोऽवतार-
दृष्टयस्सर्वदृष्टय इति । देवा वाव सर्वदृष्टयस्तेषु चो-
त्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या
आचक्षते' इति ।
रित्वादिति सूत्रखण्डार्थ उक्तो भवति । न च ध्यानस्य परोक्षज्ञानस-
न्ततिरूपत्वं ' मानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानम् '
इति सुधाविरोधः, ' क्रियामानसत्वात् ' इति क्रियात्वविरोधश्चेति श-
ङ्क्यम् । परमात्मविषये परोक्षत्वेऽपि तदधिष्ठानभूतवासनामयरूपवि-
षये अपरोक्षत्वसम्भवात् । न च परमात्मांऽशे उपनीतभानरूपत्वान्न प-
रोक्षत्वमिति वाच्यम् । उपनीतांशेऽपि लौकिकापरोक्षप्रत्यासत्त्यज-
न्यत्वेन श्रवणादिरूपपरोक्षज्ञानोपनीतविषयत्वेन वा परोक्षत्वाभ्युपग-
मात् । केचित्तु — गुणादिध्यानमप्यत्र विवक्षितमिति तदंशे परोक्षत्वं
युक्तमित्याहुः । तन्न, तस्यापि स्मृतिरूपस्य मनोजन्यत्वेन परोक्षत्वानु-
पपत्तेः । ध्यायत्यर्थत्वेन क्रियार्थत्वसम्भवाच्च तद्विरोधः ॥
(२) ननु साधनपृथक्त्वेऽपि साध्यपृथक्त्वं मा स्तु, साध्यसाम्य-
मेव किं न स्यादित्यतस्तदुक्तमित्युक्तं सूत्रे, तद्व्याचष्टे ॥ तथोक्तमि-
ति ॥ चो भिन्नक्रमः । अनेन सूत्रे चशब्दः उक्तं चेत्यपि संयोज्यः । त-
था च न केवलं तद्दर्शनपृथक्त्वं साधनपृथक्त्वयुक्तिसिद्धम्, किन्तु
श्रुत्युक्तं चेति सूत्रखण्डार्थ उक्तो भवति । केचित् शरीरान्तर्ब्रह्मोपास-
काः, अत एव तत्र ब्रह्मदर्शिनः । केचित् बहिरप्रथाद्यधिष्ठाने ब्रह्मोपा-
सकाः, तत्रैव तद्दर्शिनश्च । केचित् अवतारोपासकाः, अत एव दिव्य-
दृष्ट्या रामकृष्णाद्यवतारदर्शिनः । केचित् व्याप्तोपासकाः, तत एव
'सर्वदृष्टयो' व्याप्तदर्शिनः । यद्यपि सर्वेषामन्तर्बिम्बदर्शनमपेक्षितमे-
व, तस्य मोक्षार्थत्वादिति सुधोक्तेः । तथाऽपि प्राचुर्यापेक्षया एवमु-
क्तिः । उपासात्रैविध्योक्तिरपि प्राचुर्यापेक्षयैव । अन्यथा एषां बहिरु-
पासनेन मोक्षः तेषां हृद्युपासनं किञ्चित्कार्यमेवेति बृहद्भाष्यविरोधापा-
तात् । भावबोधे तु केचिदधिकारिणोऽवताराणां दिव्यदृष्ट्या दर्शनेनै-
व मुच्यन्ते, न तेषामन्तरुपास्तिरावश्यकी, बृहद्भाष्यं तु अवतारदृष्टि-
विशेषार्थमेवान्तरोपास्यावश्यकतापरं, अत एव ' अञ्जसा दृष्ट्यैव
ह्यवताराणाम् ' इत्युक्तम् । इतीति । श्रुतिः व्याख्यातपदानि स्वयमेव

८९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ३ ) अध्यात्मे च —
दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।
दर्शनेनान्तरेणान्ये देवास्सर्वत्र दर्शनात् ॥
प्रतीकत्वेन गृह्णाति । तत्र प्राधान्यक्रमानुसारेण व्याप्तदृष्टीन् प्रथमतः
निर्दिशति—देवा इति । 'तेषु' देवेष्वपि 'आब्रह्मणः' चतुर्मुखपर्य
न्तं 'उत्तरोत्तरं' अधिकं व्याप्तदर्शित्वं ज्ञेयमित्यर्थः । तत्प्रकारश्च 'ब्र
ह्मा तु सर्वगं पश्येत्' इत्यादिनोक्तः । अवतारादिदर्शिनः के ? तेषां
च कथं स्थितिरित्याशङ्कायामाह—अन्येष्विति । अवतारादिदर्शिष्वि
त्यर्थः । 'यथायोगं' योग्यतानुसारेण व्यक्तिविशेषो निर्णेतव्य इति शे
षः । यद्वा—अन्येष्वपि यथायोगं उत्तरोत्तरमाधिक्यं ज्ञातव्यमित्यर्थः ।
ननु योग्यतैव कथं ज्ञायत इत्यत आह—यथेति । 'आचार्याः' गुरवो
यथा 'आचक्षते' उपदिशन्ति त्वमेतद्रूपदर्शनयोग्यस्त्वमेतद्रूपदर्श
नयोग्य इति तथेत्यर्थः ॥
( ३ ) ननु यद्यस्ति दर्शनभेदः, तर्हि न सर्वेषां मोक्षस्स्यात्, स
म्पूर्णज्ञानेनैव मोक्षस्य 'तमेवं, दृष्ट्वा' इत्यादौ प्रमितत्वादित्यतस्तदु
त्तरत्वेनापि तदुक्तमित्येतद्व्याचष्टे—अध्यात्मे चेति । अध्यात्माख्यग्र
न्थेपि तद्दर्शनपृथक्त्वमुक्तमित्यर्थः । तद्वाक्यं पठति—दृष्ट्वेति । दि
व्यदृष्ट्येत्यर्थः ।
प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ।
तदैव मुच्यते योगी ॥ इति काठकभाष्योक्तेः ।
तथा च केचिन्मनुष्याः 'अवताराणां' रामकृष्णदिरूपाणां 'अञ्जसा दृ
ष्ट्वा' दिव्यदृष्ट्यादर्शनेनैव मुच्यन्ते इत्यर्थः । एवकारस्त्वयोग्यव्यवच्छे
दकः । भावबोधपक्षेऽधिकारिविशेषापेक्षयाऽन्ययोग्यव्यवच्छेदकः । के
चित् ऋषयः 'आन्तरेण' हृदयान्तर्जातेन दर्शनेन मुच्यन्ते । सर्वत्र स्थि
तस्य ब्रह्मणो दर्शनाद्देवा मुच्यन्त इत्यर्थः । 'तेषां' अधिकारिणाम् । य
द्वा-'तेषां' देवानां 'विशेषं' तारतम्यं योग्यताविशेषं वा सर्वज्ञतां 'ग
तः' प्राप्त आचार्यो 'वेत्ति' जानातीत्यर्थः। अनेन 'विद्वान्, दृष्ट्वैव'
इत्यादेः न सम्पूर्णतो जानन् दृष्ट्वैवेत्यर्थः, किन्तुदाहृतविशेषवाक्यब
लाद्यथायोग्यमित्यभ्युपगमात् न तद्विरोध इत्युक्तं भवति । 'यावान्'
इति वाक्यं चतुर्मुखविषयं सामान्यतः सार्वज्ञद्यविवक्षया सर्वधिपर्य

[ अधि - ३३. सू - ५३. ] दीपिकासहितम्. ८९५
तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः ॥ इति ॥ ५२ ॥
—::—
३३. अधिकरणम् ॥
( १ ) सू—ॐ ॥ न सामान्यादप्युपलब्धेर्मृत्यवन्न हि लोका
पत्तिः ॥ ॐ ॥ ५३ ॥
येति ध्येयम् । इतीत्यस्याध्यात्म इत्यनेनान्वयः ॥ ३२ ॥
॥ इति प्रज्ञान्तराधिकरणम् ॥
—
—
३३. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनस्य बिम्बशब्दितयोग्यात्मरूपविषय
कस्यैव मुक्तिसाधनत्वं समर्थ्यते । भगवतस्सर्वरूपेष्वपि मोक्षदातृ
त्वगुणसाम्यात् यत्किञ्चिद्रूपदर्शनमेव मोक्षसाधनं न बिम्बविषयमेवे
ति नियम इति प्राप्ते सिद्धान्तयितुं प्रवृत्तं सूत्रं—न सामान्यादिति ॥
अत्र ' सामान्यात् ' साधारणात् उपलब्धेरिति सामानाधिकरण्यम् ।
लिङ्गव्यत्ययः शब्दस्वभावकृतः । यद्यपितथाऽपीत्यर्थे मात्रार्थे चापिश
ब्दः । उपलब्धेरपीत्यन्वीयते । मुक्तिरिति प्रकृतत्वात्सम्बध्यते । तथा
च यद्यपि भगवद्रूपाणां सामान्यं साम्यं, अत एव तद्विषयकदर्शनाना
मपि समानत्वम् । तथाऽपि ' सामान्यायाः ' समानब्रह्मरूपविषयत्वेन
स्वयोग्यरूपदर्शनेन समानतया वर्तमानायाः उपलब्धेरपि यत्किञ्चि
द्रूपदर्शनमात्रात् तस्मादेव सर्वेषां न मुक्तिरित्यर्थः । यद्वा—उपल
ब्धेः दर्शनस्य साम्यात् साधारणविषयत्वात् न तस्या मुक्तिरित्यर्थः।
अथवा-ल्यब्लोपनिमित्ता पञ्चमीयम् । तथा च सामान्यमपेक्ष्य रूपसा
मान्यं विषयीकृत्य सत्या उपलब्धेः दर्शनान्न मुक्तिरित्यर्थः । एतत्क
ल्पद्वये सामान्यादुपलब्धेरिति वैयधिकरण्यमिति भावेन सामान्याद
प्युपलब्धेरिति प्रतिज्ञांशं व्याचष्टे-नेति । अपि तु स्वयोग्यात्मदर्शनादे
वेति शेषः । तेनापीत्यस्यापि त्वित्यर्थाश्रयणेन उपलब्धेरित्यस्यावृत्त्या
च अपि तु उप समीपे योग्यतया वर्तमानस्य बिम्बरूपस्य लब्धेर्दर्श
नादेवेति सूत्रे प्रतिज्ञाशेषः प्रदर्शितो भवति । कुतो नेत्यतः तत्रोपल
ब्धेः सामान्यात् साधारणत्वादिति हेतुं उपलब्धेरित्यनेनोक्तं
मुक्त्यर्थमात्मयोग्यं तु विज्ञानं तदुदाहृतम् ।
समोऽपि भगवान् बिम्बदर्शनेनैवैनं मोचयति ॥ ( )

८९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् ।
( २ ) न हि लोकापत्तिमात्रं मुक्तिः ।
( ३ ) सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात् ।
इत्यादिश्रुतेरिति हेतुं मनसि निधाय सामान्यमात्रान्न मुक्तिरित्यत्र दृ-
ष्टान्तप्रतिपादनायोक्तं मृत्युवदित्यंशं व्याख्याति—यथेति । मृत्युमात्रा-
दिति । मृतिमात्रादित्यर्थः । न मुक्तिरित्यनुषज्यते । तथा च यथा ब्रह्म-
ज्ञानिनां सर्वमृत्यौ मृतित्वसाम्येऽपि न ‘मृत्युमात्रात्’ साधारणमृतेर-
नन्तरं मुक्तिः, किन्तु प्रारब्धकर्मक्षये चरममृत्यनन्तरमेव, तथा प्रकृते
ऽपि रूपविशेषज्ञानादेव मुक्तिः, न साधारणादित्यर्थः । यद्वा—मृत्यु-
शब्देन मारक उच्यते । संसृतेरिति शेषः । तथा च यथा ब्रह्मज्ञानिनां
ज्ञाने संसारमृत्युत्वे समानेऽपि ज्ञानरूपमृत्युमात्रादनन्तरं न मुक्तिः,
किन्तु प्रारब्धकर्मावसानकालीनत्वविशेषितान्मृत्योरवतरणानन्तरमे-
व, एवं भगवद्रूपाणां साम्येऽपि रूपविशेषज्ञानमेव मोक्षसाधनं, न सा-
मान्यदर्शनमित्यर्थः । ‘समोऽपि’ इति श्रुतौ बिम्बशब्दो योग्यात्मप-
रः । न तु
हृदिस्था या हरेर्मूर्तिः जीवो यत्प्रतिबिम्बकः ।
यद्वशे वर्तते जीवः सा तु जीवकला स्मृता ॥
इत्युक्तहृद्गतरूपविशेषपरः । ‘दृष्ट्वैव’ इति वाक्यविरोधात् । जीवः
कलांशो यस्यासौ जीवकला ॥
( २ ) ननु यदि सामान्यदर्शनान्न मुक्तिः, तर्हि तद्वैफल्यं स्यात् ।
न च ब्रह्मदर्शनस्य तद्युक्तं, अतः सफलत्वेऽवश्यंभाविनि यत्तस्य फलं
स एव मोक्ष इति सामान्यदर्शनमपि मुक्तिसाधनं भवतीत्यतः प्रवृत्तं-
न हि लोकापत्तिरित्यंशं व्याचष्टे—न हीति ॥ ‘लोकापत्तिमात्रं’ मह-
रादिलोकप्राप्तिरेवेत्यर्थः । अनेन लोकापत्तिरित्यनन्तरमप्यपिशब्दोऽनु-
षञ्जनीयः । स चावधारणार्थमात्रार्थः । तथा च न सामान्यदर्शनस्य
वैफल्यं शङ्क्यम् । यतः सामान्यादप्युपलब्धेर्लोकापत्तिः भवति अतः।
न चैवं तस्य मोक्षसाधनत्वापत्तिः । ‘हि’ यतो न लोकापत्तिरेव मो-
क्ष इति ‘हि’ प्रसिद्धमत इति सूत्रांशयोजनोक्ता भवति ॥
( ३ ) ननु सामान्यदर्शनेन लोकापत्तिरेव न मुक्तिरिति कुत इत्य-
तो हिशब्दसूचितप्रमाणमाह—सामान्येति ॥ योग्यात्मदर्शनातिरिक्त।
वतारादिदर्शनादित्यर्थः । ‘लोकाः’ महरादयः । योग्येति । स्वयोग्य