पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - १५. सू - २५ ] दीपिकासहितम्. ८४७
पुरुषसूक्तोक्तविद्यायामपि केषां चिद्गुणानामनाम्नानात् ।
(३) सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।
तत्रापि नैव सर्वेऽपि तस्मात्कार्योपसंहृतिः ॥
इति ब्रह्मतर्के ॥ २५ ॥
हेतोश्च सिद्धत्वात्, तथाऽपि कुतस्सर्वत उपसंहारः कर्तव्य इत्यतोऽ
नाम्नानादित्यनेनैव एकस्यां विद्यायां सर्वगुणानामनुक्तत्वादिति हेतु
साधकहेतोरपि सिद्धत्वात्, सोऽपि कुतः सिद्ध इत्यतः कैमुत्येन त
त्साधनपरतया समग्रसूत्रं व्याचष्टे—पुरुषेति । अपिर्भिन्नक्रमः । तथा
च अपि सर्वविद्योत्तमायामपि 'पुरुषविद्यायां पुरुषसूक्तोक्तविद्यायां'
पुरुषसूक्तमित्युक्तविद्यायां स्वापेक्षितगुणानां मध्ये केषां चिदेव आ
म्नानात् पाठात् 'इतरेषां' तदन्येषां 'अनाम्नानात्' सुतरां विद्यान्त
रे सर्वेषामनाम्नानस्य सिद्धत्वादत एवैकस्यां विद्यायां सर्वेषां 'अना
म्नानात्' अनुक्तेस्सिद्धत्वादित्यर्थः । अनेन केषां चिदाम्नानात् इतरे
षाम् अनाम्नानाच्चेत्यपि समुच्चयः चशब्दार्थ इत्युक्तं भवति ॥
(३) भवेदुपसंहारस्य कर्तव्यता, यदि स्यात् पुरुषसूक्तस्य सर्व
विद्योत्तमत्वं, तत्रापि केषां चिद्गुणानामनुक्तत्वं च । तदेव कुत इत्यत
आह—सर्वत इति ॥ 'पौरुषे सूक्ते' परमपुरुषप्रतिपादके पुरुषसूक्ते
'सर्वतः' सर्वत्र आदावन्ते च मध्ये चेत्यर्थः । 'सर्वतः' सर्वे गुणा इ
ति वा । 'सर्वतः' सर्वविद्यातः आधिक्येनेति शेष इति वा । 'तत्रापि'
पुरुषसूक्तेऽपि स्वापेक्षिताः सर्वेऽपि गुणा नोदीरिता इत्यन्वयः । मानु
षापेक्षितज्ञानानन्दादिगुणानामकथनादिति भावः । तस्मादिति । एक
स्यामपि स्वापेक्षितसर्वगुणावचनात् सर्वतः उपसंहृतिः कार्येत्यर्थः ।
ब्रह्मतर्के सूत्रकृदुक्तमुक्तं इत्यध्याहारेणान्वयः । सूत्रे सर्वेषामनाम्नाना
दित्यनुक्त्वा इतरेषामनाम्नानादित्युक्त्या च एकस्यामेव विद्यायां सर्व
गुणानुक्तेः अस्तु चतुर्मुखस्य सर्वविद्यातो गुणोपसंहारः, अन्येषां म
हदल्पगुणाभिधायकविद्याभिरेवोपास्तिसम्भवात् उपसंहारो व्यर्थ
इति चोद्यं निरस्तं भवति । सङ्ख्यासाम्यसम्भवेऽपि एकस्यामेव स्वा
पेक्षितगुणोक्तिनियमाभावात् ॥ १५ ॥
॥ इति पुरुषाधिकरणम् ॥
-*-
८४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
१६. अधिकरणम् ॥
( १ ) सू- ॐ ॥ वेधाद्यर्थभेदात् ॥ ॐ ॥ २६ ॥
भिन्धि विद्ध्य शृणीहीति फलभेदेन सर्वशः ।
यत्यादीनां तेष्वयोगान्नाधिकारैकता भवेत् ॥
अयोग्योपासनादीयुरनर्थं चार्थनाशनम् ।
१६. अधिकरणम् ॥
( १ ) अत्राधिकरणे भेदनादिगुणानां सर्वोपास्यत्वं निरस्यते । स-
र्वसज्जनापेक्षितदुष्टजननिग्रहफलकत्वेन वेधादीनां सर्वोपास्यत्वान्न च-
तुर्गुणोपासनानियम इति प्राप्तं सिद्धान्तयत्सूत्रं पठति—वेधादीति ॥
अत्र वेधाद्यर्थभेदादित्येकं पदम् । वेधादीति भिन्नं चावर्तते । नेत्य-
स्ति । तथा च ‘वेधादि’ रक्षोघ्नसूक्तं
‘ताभिर्विध्य हृदये यातुधानान् ....
अग्ने त्वचं यातुधानस्य भिन्धि ....
प्रपर्वाणि जातवेदःशृणीहि’ ( ऋ. १० - ८७ - ४, ५. ) इत्या-
दिनोक्तं दुर्जनवेधनभेदनहिंसनादिकं न सर्वोपास्यं, कुतः ? यतो न
यत्याद्युपास्ये, तदपि कुतः ? ‘वेधाद्यर्थभेदात्’ वेधाद्यर्थस्य तद्विषय-
कोपासनफलस्य हिंसनस्य यत्यादियोग्यफलात् भेदात् विलक्षण-
त्वात् । अयोग्यफलस्य चानर्थकफलसाधनत्वादिति सूत्रार्थमभिप्रे-
त्यात्र स्मृतिं चाह—भिन्धीति ॥ ‘शृणीहि’ जहि । इतिशब्दानन्तरमु-
पासनेष्विति शेषः । तथा चेत्थं योजना—हे भगवन् दुष्टान् भिन्धि
विद्ध्य शृणीहीत्येवंरूपेषूपासनेषु ‘सर्वशः’ सर्वेषां ‘नाधिकारैकता’
नाधिकारसाम्यं भवेत् । एतदुपासनं सर्वाधिकारिसमं न भवेदिति
यावत् । कुतः ? यत्यादीनां ‘तेषु’ उपासनेषु ‘अयोगात्’ अयोग्यत्वा-
त् । तदपि कस्मात् ? ‘फलभेदेन’ फलभेदात् एतदुपासनफलानां य-
त्यादियोग्यफलाद्विलक्षणत्वात् । नन्वयोग्यत्वेऽपि कुतो यत्यादीनां वे-
धाद्युपासनाभाव इत्यत आह—अयोग्येति । यतोऽयोग्योपासनादनर्थ-
मर्थनाशनं च ‘ईयुः’ प्राप्नुयुरत इति । बृहत्तन्त्रे इति । सूत्रकारोक्तः
कथित इति शेषः । इदं त्ववधेयम् । यत्यादीनां ध्यानात्प्राक्प्राणायाम-
करणकाले पापपुरुषशोषणदहनादिकमस्ति, न तु ध्यानकाले । तदा
[ अधि - १७. सू - २७. ] दीपिकासहितम्. ८४९
इति बृहत्तन्त्रे ॥ २६ ॥
:----:
१७. अधिकरणम् ॥
( १ ) मुक्तस्योपासना कर्तव्या न वेति ।
तु ते स्वयोग्यगुणानेव ध्यायन्ति न तु भेदनादिकमिति ॥ २६ ॥
॥ इति वेधाधिकरणम् ॥
---
१७. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनस्य मुक्तावप्यनुवृत्तिः समर्थ्यते । तत्र वि-
षयसंशयौ दर्शयति-मुक्तस्येति ॥ प्रकृतोपासनं विषयः । मुक्तेन क्रिय-
ते न वेति सन्देह इत्यर्थः । प्राप्तफलत्वं 'जक्षन् क्रीडन्' (छां.८-१२-३.) इ-
तिक्रियान्तरश्रुतिश्च सन्देहबीजमिति भावः । एवं मुक्तस्योपासना न क-
र्तव्येत्यनेन मुक्तेनोपासना क्रियत इति पूर्वपक्षस्य तथा मुक्तस्योपास-
ना कर्तव्या न वेति समग्रवाक्ये कर्तव्या विहिता नेति विकल्पपरतया
व्याख्यायमाने नोभावपि कल्पौ युक्तौ विहितस्य वा अविहितस्य वा
कर्मणः फलावश्यंभावात्फलप्राप्तिप्रसङ्गात्, तथा चापूर्णताप्रसक्तिः ।
न चेष्टापत्तिः, मुक्तस्य अपूर्णतारूपामुक्त्तस्य तदयोगात् । किञ्चाद्ये मु-
क्तस्य विधिवद्धत्वेन मुक्तेस्संसारसमानधर्मत्वापत्तिः । द्वितीये मुक्त-
स्याविधिबद्धत्वादेव करणानुपपत्तिरिति मुक्तस्येत्यस्मिन् व्याख्यां-
यमाने च अनेन पूर्वपक्षयुक्तेश्च सूचनं कृतं भवति । सिद्धान्तदूषणयु-
क्तेरेव पूर्वपक्षसाधनत्वादिति ज्ञातव्यम् । तत्त्वप्रदीपे तु मुक्तस्योपास-
ना न कर्तव्येत्यंशमेकपूर्वपक्षपरतया व्याख्याय तत्पूर्वपक्षे विध्यभावान्प्र-
योजनाभावाच्चेति हेतुमभिधाय मोक्षार्थं ह्युपासनं तत्पर्यन्तं च विधेय-
म्, अतः कुतो मुक्तस्योपासनाप्राप्तिरिति तमुपपाद्य कर्तव्येत्यपरः प-
क्षः । मुक्तस्यापि परतन्त्रत्वात् । तदा विशेषभोगापेक्षयोपास्तिसम्भ-
वादित्यत आहेति कर्तव्यंत्यंशः पूर्वपक्षान्तरपरतया व्याख्यातः । तत्रा-
द्यः पूर्वपक्षः तद्धेतुश्च टीकोक्तः । द्वितीयस्तु तन्मात्रोक्तः । तत्पक्षे न क-
र्तव्येति पूर्वपक्षनिरासो 'हानौ तूपायनशब्दशेषत्वात्' इत्यनेन सूचि-
तोऽभ्युपगमेन कृतः । कर्तव्येति द्वितीयपूर्वपक्षनिरासस्तु 'कुशाच्छन्द'
इत्यनेन सूचितो विधिवद्धत्वान्न क्रियते, किन्तु स्वेच्छयेत्यंशेऽङ्गी-
१०५
८५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( २ ) अतो ब्रवीति ।
सू-ॐ ॥ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगा
नवत्तदुक्तम् ॥ ॐ ॥ २७ ॥
नियतस्वाध्यायानन्तरं स्वेच्छयाकुशाग्रहणस्तुत्यु
पगानवदेव मोक्षे उपासनादि ।
( ३ ) 'ब्रह्मविदाप्नोति परम्' ( तै.३-१०.) इति मोक्षवाक्य
रेण कृतः । तस्मात्संसारोपाधिकमेवोपासनं न स्वाभाविकमिति त
त्साधनाय भक्तिर्व्यर्थेति भावः ॥
( २ ) अथ सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे मुक्त
स्योपासना विहिता न वेति विकल्पितपक्षद्वये आ संसारहानेः विहित
त्वात्प्रयोजनाय क्रियते । तद्धानौ मोक्षे तु स्वेच्छयेति तत्त्वप्रदीपदिशा
'हानौ तु' इत्यनेन आद्यपक्षोक्तदोषनिरासात् । द्वितीयपक्षोक्तदोषप
रिहाराय 'कुशाच्छन्द' इत्याद्युक्तम् । तत्र कुशपदं तद्ग्रहणपरम् । आ
च्छन्दपदं च बुद्ध्या विवेकेन कुशग्रहणे तच्छब्दार्थोपासनादौ चान्वी
यत इति भावेनार्थक्रमेण व्याख्याति—स्वेच्छयेति । स्वेच्छया कुशा
ग्रहणपूर्वकत्वं स्तुत्युपगानयोः कदेत्याकांक्षायां तयोर्ग्यं कालमाह—
नियतेति । स्वाध्यायो वेदाध्ययनं स्वकाले विधिनियतब्रह्मयज्ञानन्तर
मित्यर्थः । कुशस्य आग्रहणं सम्यग्ग्रहणं, स्तुतिः यजुरादिमन्त्रः, उप
गानं साम । आच्छन्देन कुशग्रहणेन सहिते तत्पूर्वके च ते स्तुत्युप
गाने च ते तथोक्ते, ताभ्यां तदध्ययनं लक्ष्यते । तत्त्वप्रदीपे उपगानं
साम्ना, स्तुतिस्तदन्यैर्यजुरादिभिरित्युक्तत्वेऽपि टीकायां स्तुत्युपगान
पदाभ्यां तत्करणे एव गृहीते तयोरेवाध्ययनकर्मत्वात् । अत्र ब्रह्मयज्ञ
रूपमन्त्राध्ययनकाल एव कुशाग्रहणं विहितम् । ब्रह्मयज्ञानन्तरभावि
मन्त्राध्ययने तु कुशाग्रहणं स्वेच्छयैवेति विवेकः । एवेत्यनेन एवार्थ
कतुशब्दो भिन्नक्रमेणात्र सम्बध्यत इत्याह । तत्त्वप्रदीपे तु तुशब्दो
विशेषार्थक इत्याशयेन बन्धहानौ त्वित्यन्वयो दर्शितः । हानावित्यस्य
विविधबन्धहानावित्यर्थमभिप्रेत्य तद्विशेष्यस्यागामिसूत्रादाकृष्टस्य 'सा
म्पराय' इत्यस्यार्थमाह—मोक्ष इति । आदिपदेन यजनादिकर्मपरिग्र
हः । उपासनादीत्यनन्तरं अस्तीति क्रियत इति वा शेषः । तेनाप्येवा
र्थकतुशब्दस्यान्वयः ॥
( ३ ) ननु मोक्षे उपासनमस्ति चेत्तत्कुतः स्वेच्छयैवेत्यङ्गीकार्यं,
[ अधि - १७. सू - २७. ] दीपिकासहितम्. ८५१
शेषत्वादितरेषाम्, तच्चोक्तम्। ‘एतत्साम गायन्नास्ते’
( तै. ३-१०. ) इत्यादि ।
(४) ब्रह्मतर्के च ।
मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः ।
विधित एव किं न स्यादित्याशङ्कापरिहारायोक्तं सूत्रे—उपायनेति ॥
तत्रायनेन ज्ञानेन उप ब्रह्मसमीपे अयनं गमनं तस्य शब्दः उपायनश-
ब्दो मोक्षस्य ज्ञानसाध्यताबोधकं वाक्यमिति भावेन तमंशं व्याचष्टे-
ब्रह्मेति । इति मोक्षेति । इत्येवंरूपं यन्मोक्षस्य ज्ञानसाध्यताभिधायकं
वाक्यं तच्छेषत्वात् तदर्थत्वात् तद्वाक्यविहितापरोक्षज्ञानसाधनविधा-
यकत्वादित्यर्थः । ‘पुरुषविद्यायाम्’ इत्यतोऽस्य सम्बन्धिपदमनुवर्त-
नीयमित्याह—इतरेषामिति । ‘श्रोतव्यो मन्तव्यः’ ( बृ.४-४-५. ) ‘त-
द्विजिज्ञासस्व’ ( तै. ३ - १०.) इत्याद्युपासनविधीनामित्यर्थः । केचि-
त्तु—इदमध्याहृतमित्याहुः । तत्त्वप्रदीपदिशा उपासनाशब्दशेषत्वादि-
ति सूत्रपाठे उपासनाशब्दानां उपासनाविधीनां शब्दशेषत्वात् मोक्ष-
वाक्यशेषत्वादित्यर्थः । अस्मिन् पक्षे उपासनेति व्यस्तं पदं समस्तं
च । तत्र व्यस्तपदस्य कर्मोपलक्षकस्यार्थो भाष्यकृता उपासनादीत्य-
नेन दर्शितः, न तु पृथक्तच्छब्दव्याख्यानं, न वा भावबोधरीत्याऽयं शे-
षः । इतरेषामित्येतदपि श्रुतपदार्थकथनं, नानुवृत्तमिति ध्येयम् । भवे-
दियं चिन्ता, यदि मुक्तस्योपासनमेव स्यात्, तदेव कुत इत्यतस्सूत्रे
तदुक्तमित्युक्तं, तद्व्याचष्टे—तच्चेति । अनेन सूत्रे तुशब्दार्थोऽपि ।
स च तदित्यनेनापि सम्बध्यते । तथा च यदुपासनं श्रुतावुक्तं यत्त-
स्य स्वेच्छायत्तत्वं तच्च ब्रह्मतर्के उक्तं चेति सूत्रांशयोजना दर्शिता भ-
वति । श्रुतिं पठति—एतदिति । आदिपदात् ‘ऋचां त्वः पोषमास्ते’
(ऋ.१०-७१-११.) इत्यादि गृह्यते । इत्यादीति । इत्यादावित्यर्थः। ‘एतत्’
वक्ष्यमाणं ‘हावु’ (तै.३-१०-५.) इत्यादि साम गायन्नास्ते मुक्तचतुर्मुख
इति तैत्तिरीयश्रुत्यर्थः । ‘त्वः’ कश्चिद्ब्रह्मा ‘पुपुष्वान्’ पुष्टस्सन् ऋचां ‘पो-
षं’पुष्टिमुच्चारणं कुर्वन्नास्ते । ‘त्वः’ अन्यस्तु ब्रह्मा शक्वरीषु ऋक्षु गायत्रं
साम गायति । त्वस्तु ब्रह्मा ‘जातविद्यां’ पौरुषेयविद्यां वदति । त्व-
स्तु ब्रह्मा ‘यज्ञस्य’ विष्णोः ‘मात्रां’ उ अंशमेव ‘विमिमीते’ ध्यायती-
ति ऋङ्मन्त्रार्थः ॥
(४) न केवलं श्रुतौ, किन्तु ब्रह्मतर्के चोपासनमुक्तमिति चशब्दा
८५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
नियमानन्तरं विप्राः कुशाग्रैरप्यधीयते ॥ इति ॥
( ५ ) कृष्णो मुक्तैरिज्यते वीतमोहैः ॥ इति च भारते ॥ २७ ॥
( ६ ) सू—ॐ ॥ साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ ॐ ॥ २८ ॥
स्वेच्छयैत्यङ्गीकर्तव्यं मुक्तस्य तीर्णत्वात् । 'तीर्णा हि
र्थः । 'नियमानन्तरं' नियतस्वाध्यायानन्तरं 'विप्राः' द्विजन्मानः ।
यथेति शेषः । कुशाग्रैरित्याद्यशब्दात् प्राङ्मुखत्वादि गृह्यत इति त-
त्त्वप्रदीपोक्तिः । इति ब्रह्मतर्के इत्यन्वयः ॥
( ५ ) किञ्च मुक्तानां यजनाद्यप्यस्ति, किमुतोपासनमिति भावेन
चार्थकतुशब्दात्कर्मापि क्रियत इत्युक्तं सूत्रे । तद्विवृतं आदिपदेन भा-
ष्यकृता । तत्रार्थे प्रमाणमाह—कृष्ण इति ॥ व्याख्यातमिदमंशाधिक-
रणे । भारते उक्तमित्यन्वयः । अनेन—अस्त्येव 'हानौ' बन्धहानिरू-
पायां मुक्तौ तदुपासनादि । न च विधिवद्धत्वेन संसारसमानधर्मत्वं मु-
क्तेः, यतः तत्रोपासनादि विधिं विना 'छन्देन तु' स्वेच्छयैवाङ्गीकृत-
म् । कुतो ? यतो मुक्तिर्बन्धहानिर्विधिवन्ध्यहानिरूपा अतः । न चावि-
हितत्वान्न तत्करणानुपपत्तिः, अदर्शनादिति वाच्यम् । कुशाच्छन्द-
स्तुत्युपगानवदुपपत्तेः । यथा द्विजन्मनां स्वकाले विधिनियतस्वाध्या-
यानन्तरमपि संस्कारवशात्स्वेच्छया कुशाग्रहणपूर्वं स्तुत्युपगानपदो-
क्तमन्त्रसामाध्ययनं तद्वत् मुक्तानां संस्कारवशान्मोक्षेऽपि स्वेच्छयैवौ-
पासनोपपत्तेः । न च मुक्तावुपासनमस्ति चेत्स्वेच्छयेति कुतः, वैधमे-
व किं न स्यादिति वाच्यम् । इतरेषां 'उपायनशब्दशेषत्वात्' अयने-
न ज्ञानेनोपायनं ब्रह्मसामीप्यादिप्राप्तिः । तथा चोपासनाविधीनां 'ब्र-
ह्मविदाप्नोति' (तै. २-१-१०) इति सामीप्यादिरूपमोक्षस्य ज्ञानसाध्य-
ताभिधायकमोक्षवाक्यशेषत्वादित्यर्थः । तथा च, मोक्षसिद्ध्यर्थं प्रवृत्ता
विधयस्तत्रापि कथं तां विदध्युरिति भावः । न च मुक्तस्योपासनादा-
वेव मानाभाव इति वाच्यम् । यतस्तस्योपासनादि तस्येच्छाधीनत्वं
च श्रुतौ भारते ब्रह्मतर्कवाक्ये चोक्तमिति सूत्रार्थ उक्तो भवति ॥
( ६ ) ननु मुक्तस्योपासनं न स्वेच्छया, किन्तु मोक्षे तदातदा प्रा-
प्तानिष्टपरिहारार्थमेव, कस्यापि निष्फलप्रवृत्तेरदर्शनात् इत्याशङ्कां प-
रिहर्तुं सूत्रं—साम्पराय इति ॥ अत्र आच्छन्देनेत्यनुवृत्तपदस्यार्थमा-
ह—स्वेच्छयेति । इतीति सावधारणम् । न त्वनिष्टपरिहारार्थमित्यव-
धारणार्थः । तदुपासादीति सम्बध्यते । साम्परायशब्दस्य तात्पर्यार्थ
[ अधि - १७. सू - २८. ] दीपिकासहितम्. ८५३
तदा सर्वान् शोकान् हृदयस्य भवति' (बृ. ६-३-२२.)
इति हान्ये पठन्ति।
(७) वायुप्रोक्ते च—
स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः।
ब्रह्मलोकं गतास्सर्वे ब्रह्मणा च परं गताः ॥
तीर्णतर्तव्यभागाश्च स्वेच्छयोपासते परम् ॥ इति ॥ २८ ॥
माह—मुक्तस्येति। पूर्वोत्तरान्वयि तत्। साम्परायशब्दस्तु सम्यक्प
रस्य आयः प्राप्तिः सम्परायः स एव साम्पराय इति व्युत्पत्त्या मो
क्षार्थक इति पूर्वमेव मोक्ष इत्युक्त्या व्याख्यातः। कुत इत्यतस्साम्परा
ये तर्तव्यानिवृत्त्यैवाभावादिति सूत्र एव हेत्वभिधानात् तमनुपन्यस्य
तस्यासिद्धिपरिहाराय तल्लब्धं हेतुमाह—मुक्तस्य तीर्णत्वादिति। ती
र्णाशेषानिष्टत्वादित्यर्थः। तस्याप्यसिद्धिमाशङ्क्य तत्परिहारत्वेन त
था हान्य इत्येतद्व्याचष्टे—तीर्णा हीति। 'तदा' मुक्तौ सर्वान् शोका
न् 'तीर्णः' अतिक्रान्तः पुरुषः 'अयनाद्धृदि विष्णुः स हृदयं कीर्ति
तो बुधैः' इति छान्दोग्यभाष्योक्तेः सर्वहृदि स्थितः हृदयं विष्णुः त
स्य 'भवति' तत्सम्बन्धी भवति। तत्प्रतिबिम्बत्वेन तच्छेषभूतो भ
वतीत्यर्थः। सार्वकालिकस्यापि शेषभावस्य व्यक्त्यपेक्षयाऽत्र भवती
ति निर्देशः। अत एव तत्त्वप्रदीपे हृदयस्यैव भवति स्वदृष्ट्याऽपीत्यु
क्तम्। 'हि' यस्मात् 'अन्ये' छन्दोगाः वाजसनेयिनश्च॥
(७) अत्र स्मृतिं चाह—वायुप्रोक्ते चेति॥ 'ये' जनाः परमा
त्मनो 'ज्ञानेन' परोक्षेण 'स्थितप्रज्ञत्वं' स्थिता प्रतिष्ठां प्राप्ता प्रज्ञा
अपरोक्षज्ञानं येषां ते तथोक्तास्तेषां भावस्तत्त्वं तत्प्राप्ताः तत एव 'ब्र
ह्मलोकं' सत्यलोकं गताः तत्र चतुर्मुखोपदेशं प्राप्ताः अथ तेन सह
'परं' आत्मानं गताः बन्धमोक्षाख्यभागयोर्मध्ये तर्तव्यो भागः अंशो
बन्धः तीर्णः तर्तव्यभागो यैस्ते तथोक्ताः ते सर्वेऽपि 'परं' परमात्मा
नं स्वेच्छया उपासत इत्यर्थः। प्रतीकालम्बनविवक्षया 'ब्रह्मलोकं ग
ताः सर्वे' इत्युक्तिरिति केचित्। तत्रान्त्यपादः साध्याभिधायी, उपा
न्त्यः साधनाभिधायी, अन्ये तदुपपादकसमर्पका इति स्मृतेः प्रकृतो
पयोगो द्रष्टव्यः। इतीति। इति वायुप्रोक्ते एतदेवोक्तमित्यर्थः॥ १७॥
॥ इति हान्याधिकरणम् ॥
८५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
१८. अधिकरणम् ॥
( १ ) कर्मापि कुर्वन्ति न वेत्यत आह—
सू—ॐ ॥ छन्दत उभयाविरोधात् ॥ ॐ ॥ २९ ॥
स्वेच्छया कुर्वन्ति न वा। बन्धप्रत्यवाययोरभावात् ॥२९॥
( २ ) सू—गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ ॐ ॥ ३० ॥
बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा
मोक्षत्वमेव न स्यात् ।
१८. अधिकरणम् ॥
( १ ) अत्राधिकरणे मुक्तानां कर्मणि नियमाभावः समर्थ्यते । प्रा-
सङ्गिकत्वान्नाध्यायादिसङ्गतिः । विषयसंशयौ दर्शयति—कर्मेति ॥
मुक्ता इति प्रकृतमस्ति । न केवलमुपासनमित्यपिशब्दार्थः । कर्मकर-
णशक्तावपीति वा । नियमेनेति शेषः । तथा च इति सन्देहे नियमेन कु-
र्वन्तीति पूर्वपक्षे प्राप्ते कर्म कुर्वन्ति न वेत्यनियमसिद्धान्तमाह सूत्रकार
इत्यर्थः । सूत्रं पठति—छन्दत इति । सूत्रे हानावित्यनुवर्तते । तदिति
च । तच्च कर्मकरणवाचीत्याशयेन छन्दत इत्यस्यार्थमाह—स्वेच्छये-
ति । स्वेच्छानुसारेणेत्यर्थः । छन्दत इत्यनेन लब्धं साध्यमाह—कुर्व-
न्ति न वेति । अनेन कर्मण्यनियमः सूचितः । कुत इत्यतस्तत्र हेतुत्वे-
नोभयाविरोधादित्येतद्व्याचष्टे—बन्धेति । अनेनोभयस्मिन् कर्मकर-
णाकरणयोः अविरोधात् विधिबन्धप्रत्यवायाख्यविरोधाभावादिति
हेत्वर्थ उक्तो भवति ॥
( २ ) ननु मुक्तानां विधिबन्धप्रत्यवायाभाव एव कुत इत्यतः सू-
त्रं—गतेरिति ॥ अत्रोभयाविरोधादित्यस्यानुवृत्तिमभिप्रेत्य तत्पदं व्या-
चष्टे—बन्धेति । निमित्तसप्तमीयं, विधिबन्धप्रत्यवायाभावादित्यर्थः ।
सावधारणमेतत् । तेनास्य व्यापकतासिद्धिः । हिशब्दः खल्वित्यर्थे ।
गतेरित्यस्यार्थमाह—मोक्षस्येति । ‘अर्थवत्त्वं’ अर्थ इच्छाविषयतया
तद्वत्त्वं पुरुषैरर्थ्यमानत्वमिति यावत् । ‘अन्यथा’ विधिबन्धप्रत्यवाय-
योर्भावे । अर्थवत्त्वमित्यस्य व्याख्या-मोक्षत्वम् । मोक्षेच्छावत्त्वमिति ।
मुचेः सनन्ताद्भावे घञ् , तत अर्शआद्यच् । मोक्षस्य तत्सम्बध्यते,
किमु प्राप्यत्वमित्येवार्थः । न स्यादित्यनेन विरोध इत्यस्यार्थ उक्तो
भवति । तथा चायं सूत्रार्थः—‘हि’ यस्मादुभयाविरोधादेव उभय-
स्मिन् कर्मकरणाकरणयोर्विधिबन्धप्रत्यवायाख्यविरोधाभावादेव ‘ग-
[ अधि - १८. - सू - ३०. ] दीपिकासहितम्. ८५२
( ३ ) कदाचित्कर्मकुर्वन्ति कदाचिन्नैव कुर्वते ।
नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥
तेः ' परमात्मगतिरूपमोक्षस्य ' अर्थवत्त्वं ' पुरुषैरर्थ्यमानत्वम् । भावे
घञन्तोऽयमर्थशब्दः अर्थ इच्छाविषयतयाऽस्यामस्तीत्यर्थवती तस्या
भावोऽर्थवत्त्वम् । 'अन्यथा' गतावपि विधिबन्धप्रत्यवाययोर्भावे तस्या
विधिबन्धप्रत्ययाख्यसंसारसमानधर्मवत्त्वे तद्वैलक्षण्याभावाद्विरोधः ।
तस्मान्मुक्तानां ' उभयथा ' कर्मकरणेन तदकरणेन च स्थितिरिति ॥
( ३ ) ननु मुक्तानां कर्मण्यनियमश्चेदुपासनेऽपि तथा स्याद्विशे-
पादित्याशङ्कां परिहर्तुं कर्मोपासनयोः अनियमनियमरूपोक्तार्थे स्मृति-
माह—कदाचिदिति ॥ मुक्ता इति शेषः । अनेन कर्मण्यनियम उक्तः ।
पूर्ववाद्युक्ताविशेषहेतोरसिद्धिं वक्तुमुपासननियमे हेतुमाह—नित्येति ।
नित्यं भगवद्विषयकं यदपरोक्षज्ञानं तत्स्वरूपत्वान्मुक्तानामित्यर्थः । सं-
सारे भगवदपरोक्षज्ञानस्यामुक्तकर्तृकस्यान्तःकरणवृत्तिरूपत्वेऽपि मुक्तौ
अन्तःकरणवृत्तिरूपत्वाभावेन तस्यात्मस्वरूपत्वमेवेति सिद्ध्यति । न च
स्वरूपत्वे ज्ञानस्य सकर्तृकत्वानुपपत्तिरिति वाच्यम् । विशेषबलादुपप-
त्तेः । 'नित्यं' नियमेन ध्यायन्ति । उपासते नित्यं भगवद्दृष्टिकर्तृत्वे नित्यं
भगवदुपास्तिकर्तृत्वं कुत इति चेत् दृष्टेरेवोपास्तिरूपत्वात्। यथोक्तं त-
तत्त्वप्रदीपे—नित्यं भगवद्दृष्टिरूपत्वान्मुक्ता नित्यमुपासते । सभक्तिभग-
वद्दृष्टिरुपास्तिर्भवति । पूर्वमविरतनिरन्तरोपास्त्या हि भगवन्तमैक्ष-
न्त पश्चादानन्दस्वरूपिणी सा स्वत एवानुवर्तत इति । अस्यार्थः—नि-
त्यं भगवद्दृष्टिस्तत्स्वरूपत्वात्कर्तृत्वान्मुक्ता नित्यमुपासते । उपास्तिक-
र्तारो भवन्ति । ननु भगवद्दृष्टिकर्तृत्वे उपास्तिकर्तृत्वं कुत इत्यत आ-
ह—सभक्तीति । इदं च द्वेषिकर्तृकभगवद्दृष्टिव्यावृत्त्यर्थम् । ननु भग-
वद्दृष्टेरुपास्तिसाध्यत्वात्कथं उपास्तिरूपत्वमित्यत आह—पूर्वमिति ।
संसारे अन्तःकरणवृत्तिरूपावच्छिन्नोपास्त्या हि भगवन्तमैक्षन्त जड-
मनसा युक्ताः । पश्चात्संसृत्यन्तरं मुक्तावानन्दस्वरूपिण्युपास्तिः स्व-
त एवानुवर्तते । तथा चान्तःकरणवृत्तिरूपायाः दृष्टेः तादृशोपास्ति-
साध्यत्वेऽपि न मुक्तकर्तृकभगवद्दृष्टेरुपास्तिसाध्यत्वं दृष्टि-
त्वमेवेति भवति । सोपास्तिरिति भाव इति ॥
८५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ४ ) तीर्णकर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ॥
प्रत्यवायस्य बन्धस्याप्यभावात्स्वेच्छया भवेत् ॥
इति ब्रह्माण्डे ॥ ३० ॥
( ५ ) सू— ॐ ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेलोंकवत् ॥ ॐ ॥ ३१ ॥
उपपन्नश्चैवंभावः । प्राप्तत्वात्तल्लक्षणस्य फलस्य ।
( ६ ) यथा लोके विध्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा स
( ४ ) विध्याद्यभावेऽप्यनिष्टनिवृत्त्यर्थं आनन्दप्राप्त्यर्थं वा कर्मणि
नियमः किं न स्यादिति शङ्कायामाह — तीर्णेति ॥ व्याख्यातमेतत् । ' पर-
मात्मनः ' हरेः प्रसादात् ये प्राप्तानन्दाः तेषामिति शेषः । अपिश्चार्थः ।
यद्यपीत्याद्यर्थे च । भवेत् कर्मेति शेषः । प्रत्यवायस्येत्यादिनाऽर्थेन कदा-
चिदिति साध्यवाक्यं हेतूक्तिपूर्वकं विवृतं भवति । न च ' सोमेनानन्दं
जनयन् ' इत्युक्तिविरोधः । कर्मभिरप्राप्तानन्दप्राप्तेरेवेह निषिद्धत्वा-
त् । तत्र भोगेनानन्दवैचित्र्यकरणमात्रस्योक्तत्वात् । ब्रह्माण्डे पुराणे
नियमानियमौ समर्थिताविति शेषः ॥
( ५ ) ननु विद्ध्याद्यभावो मुक्तानां कर्मनियमसम्भावकएव, न तू-
पपादकहेतुः, विद्ध्यादिरहितेश्वरकर्तृकसृष्ट्यादिकर्मणि व्यभिचारात्
तस्तदुपपादकाभावादनुपपन्नोऽसौ कर्मनियम इत्याशङ्कां परिहर्तुं सू-
त्रं— उपपन्न इति ॥ अत्रोपपन्न इत्यस्य विशेष्यमाह— एवंभाव इति ।
मुक्तानामिति शेषः । छन्दत इति प्रकृतः । कदाचित्कर्म कुर्वन्ति न चे-
त्येवंस्थितिरित्यर्थः । उपपन्नश्चैत्यनेन न केवलं सम्भावितोऽयम्, कि-
न्तूपपन्नश्चेति समुच्चयार्थकश्चशब्दः सूत्रेऽनुषञ्जनीय इत्युक्तं भवति ।
तल्लक्षणार्थोपलब्धेरिति हेतुपदस्य तस्य कर्मणः अर्थः फलं परम्परया
मोक्षस्तस्योपलब्धेः प्राप्तेरिति, एवं तत् स्वप्राप्त्यनन्तरं स्वसाधनानु-
ष्ठाननियमनिवारणं लक्षणमसाधारणधर्मो यस्यार्थस्य स तथोक्त इ-
ति विभागेनार्थमभिप्रेत्य तत्पदं व्याचष्टे—प्राप्तत्वादिति । तल्लक्षणस्ये-
ति । अत्रापि तत्फलस्य कर्मफलस्य मोक्षस्य तत् स्वप्राप्त्यनन्तरं स्व-
साधनानुष्ठाननियमनिवारणं लक्षणमसाधारणधर्मो यस्य फलस्येति
द्वेधा व्याख्या कार्या ॥
( ६ ) लोकवदिति दृष्टान्तांशं विवृणोति— यथेति ॥ विध्यर्थत्वेने-
ति । यजमानस्य
[ अधि - १९. सू - ३२. ] दीपिकासहितम्. ८५७
प्राप्तकर्मेच्छया करोति न करोति च ॥ ३१ ॥
१९. अधिकरणम् ॥
( १ ) सू—ॐ ॥ अनियमस्सर्वेषामविरोधाच्छब्दानुमाना
भ्याम् ॥ ॐ ॥ ३२ ॥
प्राप्तज्ञानानामपि केषां चिन्मुक्तिप्राप्तिः केषां चिन्न,
यथोपसंहारनियम इति न मन्तव्यम् । 'सर्वे गुणा ब्र
ह्मणेव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः' इत्युपसं
हारे विरोधादन्यत्राविरोधात् ।
ङ्गभूतः कर्मविशेषः । 'समाप्ते' पूर्तिं गते 'कर्मणि' यागे 'इच्छया'
स्वेच्छया करोति । यजमान इति शेषः । समाप्तकर्मेति बहुव्रीहिपाठे
न शेषः कार्यः । अनेन मुक्ता न कर्मनियमवन्तः, विशेषहेत्वभावे सति
प्राप्तफलत्वात् यागकर्तृवदित्यनुमानमुक्तं भवति ॥ १८ ॥
॥ इति छंदाधिकरणम् ॥
१९. अधिकरणम् ॥
( १ ) अत्रोपासनोत्पन्नब्रह्मज्ञानानां सर्वेषां मोक्षनैयत्यं साध्यते ।
सूत्रे नियमपूर्वपक्षनिषेधपूर्वकं अनियम इति साध्यांशं व्याचष्टे—प्रा
प्तेति ॥ 'प्राप्तज्ञानानां' उत्पन्नापरोक्षज्ञानानामपीत्यर्थः । न केवलम
प्राप्तज्ञानानां मोक्षो नेत्यपिशब्दार्थः । यद्यपितथाऽपीत्यर्थे वा अपिः ।
सिद्धान्तवाक्येनास्यान्वयः । निर्धारणषष्ठीयम् । केषां चित् योग्यानां
केषां चित् अयोग्यानाम् । पूर्ववादी नियमे दृष्टान्तमाह—यथेति । उपास
केषु केषां चिदेव सर्वगुणोपसंहारो नायोग्यानामित्युपसंहारे यथा पु
रुषनियमस्तथा मुक्तावपीत्यर्थः । इतिशब्दो नेत्यनेनापि सम्बध्यते । ने
ति । नियम इति न मन्तव्यमित्यनन्तरं किन्तु सर्वेषामपि मुक्तिरिति
शेषः । अनेन सूत्रे तुशब्दानुवृत्तिस्तस्याप्यर्थत्वं मुक्तिरिति शेषश्च सू
चितः । अत्र हेतुः—अविरोधादिति । तद्व्याचष्टे— सर्वे इति । इती
ति । इति श्रुत्योपसंहारे अनियमनिषेधादित्यर्थः । 'अन्यत्र' सर्वेषां
मोक्षे 'अविरोधात्' निषेधाभावादित्यर्थः । 'हि' यस्मात् वेदोक्ताः
सर्वे गुणाः 'अन्यैः' ब्रह्मेतरैर्देवैर्नोपास्याः, किमु मनुष्यैर्नेति, तस्मादु
क्तेर्व्यर्थत्वायोगाद्ब्रह्मणैवोपास्या इति श्रुत्यर्थः ॥
१०८
८५८ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - ३. पा - ३. ]
( २ ) ' न कश्चिद्ब्रह्मवित्सृतिमनुभवति मुक्तो ह्येव भवति त
स्मादाहुः सृतिहेति ' इति कौण्डिन्यश्रुतेश्च ॥ यथा के
षां चिन्मोक्ष एवमन्येषामित्यनुमानाच्च ॥ ३२ ॥
*
२०. अधिकरणम् ॥
( १ ) सू-ॐ ॥ यावदधिकारमवस्थितिराधिकारिकाणा
म् ॥ ॐ ॥ ३३ ॥
( २ ) नन्वनियमे निषेधाभावेऽपि साधकाभावान्नियम एवेत्यतः
प्राप्तं शब्दानुमानाभ्यामित्यंशं व्याचष्टे—नेति ॥ 'कश्चित्' कोऽपि 'ब्र
ह्मवित्' ब्रह्मापरोक्षज्ञानी 'सृतिं' संसारं, सदेति शेषः । अत्र हेतु-
मुक्तो हीति । 'हि' यस्मात्कदाचित्सृतेः मुक्तो भवति तस्मादित्य
र्थः । हेत्वन्तरमाह—तस्मादिति । सदा सृत्त्यनुभवाभावादेवैनं ज्ञानि
जीवं 'सृतिहा' सृतित्यागीत्याहुरित्यर्थः । यद्वा—सृतिनिवर्तकज्ञान
विषयत्वादेनं परमात्मानं 'सृतिहा' सृतिघ्न इत्याहुरित्यर्थः । श्रुतेरिति
शब्दस्य इत्याहुर्वृद्धा इत्यन्वयः । श्रुतेश्चेति । न केवलमविरोधादिति
चार्थः । अस्यानियम इत्यनेनान्वयः । केषां चिदिति । ब्रह्मज्ञानिनां म
ध्ये केषां चिदित्यर्थः । अन्येषामिति । सम्प्रतिपन्नेभ्योऽन्येषां विप्रतिप
न्नानामित्यर्थः । इत्यनुमानादिति । इतिवाक्यस्मारितव्याप्तिमाल्लिङ्गादि
त्यर्थः । प्रयोगस्तु—विप्रतिपन्ना ज्ञानिनो नियतमोक्षाः, ज्ञानित्वात्, स
म्प्रतिपन्नवदिति । श्रुतिसमुच्चये चशब्दः । अनेन—सूत्रे साम्पराय
इत्यनुवर्तते, तु रिति च । मुक्तिरिति शेषः । तथा च यथा सर्वगुणोप
संहारे पुरुषनियमस्तथा ब्रह्मज्ञानिनां मध्ये केषां चिन्मुक्तिः केषां चि
न्नेति साम्पराये मोक्षे 'नियमः' पुरुषनियमो नास्ति, किन्तु प्राप्तज्ञाना
नामपि सर्वेषामस्ति मुक्तिः । कुतः? 'अविरोधात्' तन्निषेधाभावात् श
ब्दानुमानाभ्यां साधकाभ्यां च तत्सिद्धेरिति सूत्रार्थ उक्तो भवति॥१९॥
॥ इति अनियमाधिकरणम् ॥
*
२०. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनेऽधिकारनियमः समर्थ्यते । नोपास्ति
मन्तोऽधिकारनियमवन्तः मानाभावादिति प्राप्ते सिद्धान्तयत्सूत्रमुप
न्यस्य व्याचष्टे—यावदिति ॥ यथायथेत्यनेन यावदधिकारमित्यस्य
[ अधि - २०, सू - ३३. ] दीपिकासहितम्. ८५९
यथा यथाधिकारं विशिष्यते एवं मुक्तावानन्दो वि-
शिष्यत 'मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्य ऋषीणा
मृषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्राद्रुद्रस्य रुद्राद्ब्र-
ह्मण एष ह्येव शतानन्द इति' चतुर्वेदशिखायाम्।
( २ ) अध्यात्मे च—
ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।
यं अधिकारशब्दितयोग्यतानुसारेणैवेति व्याख्यातं भवति । एवमिति ।
तथा तथैव, न तु श्रवणादिरूपस्वप्रयत्नानुसारेणेत्यर्थः । 'विशिष्यते'
उत्तरोत्तरमतिशीयते तारतम्येन युक्तो वर्तते इति यावत् । अनेनाव-
स्थितिरिति पदं व्याख्यातम् । सूत्रे साम्पराय इत्यस्य गतावित्यस्य
वा अनुवृत्तिमभिप्रेत्य तदर्थमाह—मुक्ताविति । आनन्द इति अवस्था-
प्रकारीभूततारतम्याश्रयकथनम् । अनेन 'आधिकारिकाणां' अधिकारा-
नुसारेणैव अनुष्ठानशीलानां परमेश्वरदत्ताधिकारे वर्तमानानां ब्रह्मादी-
नां मुक्ताववस्थितिः आनन्दादिगुणतारतम्येन अवस्थानं यदस्ति तत्
'यावदधिकारं' उपासनाधिकारनियमानुसारेणैव भवति न तूपासना-
दिप्रयत्नानुसारेणेति समग्रसूत्रं हेतुसाध्ययोः व्याप्त्युपपादकतया
व्याख्यातं भवति । अनेनास्त्येवाधिकारिकाणां उपासनाधिकारनिय-
मः । कुतो ? मुक्तावानन्दतारतम्यसद्भावादित्यनुमानं सूचितम् । सूत्रे
तारतम्यस्यावधिनिरूप्यत्वेऽपि तत्स्वरूपत्वज्ञापनायावस्थिति पर्यन्त-
धावनम् । अन्यथा तारतम्यमित्येवब्रूयात् । ननु मुक्तावानन्दतारतम्य-
मेव कुतः येनोपासनाधिकारनियम इत्यत आह—मनुष्येभ्य इति ।
मनुष्योत्तमेभ्य इत्यर्थः । न चास्य 'अथात आनन्दस्य मीमांसा'
( तै. २-८. ) इत्यादिश्रुतिविरोधः । चक्रवर्तिपित्रादीनां अनुक्तेरिति
वाच्यम् । संक्षेपरूपस्यास्य विस्तराविरोधित्वात् । अत्र गन्धर्वपदं
देवमनुष्योभयपरम् । ऋषिग्रहणेनाजानजा अपि परिगृहीताः । 'दे-
वानां' इन्द्रावरतात्त्विकदेवानाम् । षष्ठ्यन्तपदानां श्रुतिगतेन पूर्ववा-
क्येन आनन्दो विशिष्यत इत्येवंरूपेणान्वयः । अत एव प्राक् स्ववाक्ये
विशिष्यत इत्युक्तं, न तु रुद्राच्छतानन्दस्येति क्वचिदुच्यते । ब्रह्मण
इति कथमित्यत आह—एष इति । हिशब्दः प्रसिद्धौ । चतुर्वेदशिखा-
यामित्यस्य इत्युक्तमिति शेषेण विशिष्यत इत्येनेनान्वयः ॥
( २ ) ननु मुक्तावानन्दतारतम्यं उपासनादिरूपप्रयत्नतारतम्येनैव
८६० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - . ३. ]
यथाऽधिकारं देवानां भवेत्येवोत्तरोत्तरम् ॥ इति ॥ ३३ ॥
( ३) सू—ॐ ॥ अक्षरधियां त्वविरोधः सामान्यतद्भावा
भ्यामौपसदवत्तदुक्तम् ॥ ॐ ॥ ३४ ॥
न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वादोषाभा
वसाम्यादुत्तमेभ्योऽन्येषां भावाच्च ।
सम्भवत्यतोऽप्रयोजको हेतुरित्यत आह—अध्यात्म चेति ॥ चशब्दः
परस्परसमुच्चये । 'देवानां' मुक्तियोग्यानां 'यथाधिकारं' अधिका
रानुसारेणैव उपासनं यथोपासनमेव ज्ञानं यथाज्ञानमेव मुक्तावान
न्द इत्येते गुणाः उत्तरोत्तरं परस्परसापेक्षा भवन्तीत्यर्थः । अध्यात्मे
चेत्यस्यापि पूर्ववदन्वयः ॥
( ३ ) ननु मुक्तावानन्दतारतम्यमेव नोपपद्यते असमत्वे मुक्तानां
परस्परविरोधप्राप्तेः, लोके तथा दर्शनात् । तारतम्यश्रुतयस्तु संसार
विषया इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—अक्षरधियामिति ॥
असमत्वेन निमित्तेन, अनेन तुशब्दो विरोधनिमित्तसूचकतया व्याख्या
तः । विरोधः परस्परं वध्यघातकभावादिः । विरोधप्रयोजकासमत्व
स्य सत्त्वात् कथं मुक्तानां विरोधो न भवतीत्यतः तत्र सामान्यादि
त्यस्य हेतुत्वमभिप्रेत्य सामान्यशब्दितसाम्यप्रतियोगिनं दर्शयति—
दोषाभावेति । सूत्रे दोषाभावादित्येव वक्तव्ये साम्यादित्यधिकोक्ति
बलात्सर्वेषामिति लभ्यते । साम्यशब्दार्थः समस्तश इति सुधोक्तेः ।
तथा च दोषाभावसाम्यादित्यस्यासङ्कुचितसर्वेषां मुक्तानां विषयल
म्पटत्वमात्सर्यादिदोषाभावादित्यर्थः । विषयलम्पटत्वं विषयरागः,
मात्सर्यमप्रीतिः 'अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः' इति भागव
ततात्पर्योक्तेः । अप्रीतिश्चित्तोदः 'न मद्वशोऽसाविति चित्तोदो मा
त्सर्यमार्याः प्रवदन्ति' इति सङ्ग्रहरामायणोक्तेः । ननु मुक्तानां दोषा
भाव एव कुतः इत्यतः तत्राक्षरधियामिति हेतुगर्भविशेषणेन सूचितं
हेतुमाह—ब्रह्मधीत्वादिति । मुक्तानामिति शेषः । ब्रह्मधीत्वात् दोषा
भावसाम्यादिति हेतुहेतुमद्भावेनान्वयः । देशकालगुणापरिच्छेदवा
चिना ब्रह्मशब्देन अक्षरशब्दो व्याख्यातः । तदेतत्सर्वमक्षयगुणगणधा
म्नि परमानन्दरूपे परमेश्वर्यरूपे यथेष्टानन्दभोजके भगवति स्थित
धियां कुतोऽसमत्वेन विरोधः । रागद्वेषादिदोषाभावसाम्याच्च । अन्य
था ब्रह्मदर्शनमेव न स्यात् । रागमत्सराद्यपोहेन बहुजन्मसु निर
[ अधि - २०. सू - ३४. ] दीपिकासहितम्. ८६१
(४) औपसदवच्छिष्यवत् । उक्तं च तुरश्रुतौ—
नानाविधा जीवसङ्घा विमुक्तौ
न चैव तेषां ब्रह्मधियां विरोधः ।
दोषाभावाद्गुरुशिष्यादिभावात्
न्तरोपासकानां हि तद्भवतीति तत्त्वप्रदीपेऽभिहितम् । अत्र साम्याच्चे-
ति चशब्दस्योत्तरत्र तद्भावाद्धेतुनाऽन्वयः। असमत्त्वनिमित्तविरोधाभावे
दोषाभावाख्यहेतुमभिधाय हेत्वन्तरप्रतिपादनाय तद्भावादिति सूत्रख-
ण्डः प्रवृत्तः । तं व्याचष्टे—उत्तमेभ्य इति । मात्सर्यादिविषयतया प्र-
सञ्जितेभ्यः उत्तमेभ्यः 'अन्येषां' अवराणां ज्ञानादिरूपोपकारस्य 'भा-
वात् ' सद्भावादित्यर्थः । यथोक्तं तत्त्वप्रदीपे, यैश्च मत्सराद्विरोध आ-
शङ्क्यते तेभ्य एव परेषां ज्ञानादिगुणभावात्तत्रोत्कर्षो हर्षमाधत्त इ-
ति । अनेन सूत्रे तेभ्यः तेषां तस्येति तन्त्रावृत्तिर्दर्शिता भवति । चश-
ब्दो हेतुसमुच्चये । अनेन सौत्रतुशब्दो भिन्नक्रमेण चशब्दार्थतयाऽपि
व्याख्यातः ॥
(४) ननु विरोधिष्वसाम्यं विषयलम्पटत्वादि च दृश्यते, तत्कथं
निश्चिनुमो दोषनिबन्धन एव विरोधो, न त्वसाम्यनिमित्त इत्यतस्तदु-
त्तरत्वेनौपसदवदित्येतद्व्याचष्टे—औपसदवदिति ॥ उप ब्रह्मसमीपं
सादयति, गमयत्येनेमित्युपसद्गुरुः तस्यायमौपसदः तेन शिक्षणीयः
शिष्यः । (उपसीदतीत्युपसद्ः स एव औपसदः स्वार्थिकोऽण्प्रत्ययः ।
तथा च शिष्य इत्यर्थलाभ इति भावः) सच्छिष्यवदिति भाष्यपाठस्तु
शिष्यवदिति चायुक्तमिति सुधानुवादविरोधादनादरणीयः । व-
स्तुतस्तु शिष्यवदित्यस्य तत्त्वप्रदीपानुसारात् सच्छिष्यवदित्यर्थः ।
न च सूत्रे तदर्थालाभः । आङ्प्रश्लेषेण तल्लाभात् । तथा च दोषासम-
त्वयोः क्वचिद्विरोधिषु समावेशेऽपि दोषाणामेव विरोधप्रयोजकत्वनि-
श्चयो युज्यते । असमयोरपि गुरुशिष्ययोर्दोषाभावेन विरोधाभावद-
र्शनात् । अन्यथा तत्र व्यभिचारापत्तेरिति भावः । स्वोक्तार्थे श्रुतिं
चाह सूत्रकृत्—तदुक्तमिति ॥ तच्चार्थतुशब्दान्वयेन व्याचष्टे—उक्तं
चेति । 'देवसंघाः' मुक्तियोग्यसमुदायाः । जीवसंघा इति क्वचित्पा-
ठः । 'विमुक्तौ' मोक्षे । 'नानाविधाः' तारतम्योपेताः गणशस्सन्ती-
त्यर्थः । 'तेषां' मुक्तानां न विरोधः । कुतो ? दोषाभावात् । अत्र हे
८६२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.]
लोकेऽपि नासौ किमु तेषां विमुक्तेः ॥ इति ॥ ३४ ॥
--
२१. अधिकरणम् ॥
( १ ) सू—ॐ ॥ इयदामननात् ॥ ॐ ॥ ३५ ॥
नामाद्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम् । न
प्राणात्किञ्चिद्भूय उक्तम् । तथाऽपि पूर्ववत्स्यादिति न
वाच्यम् ।
तुः-ब्रह्मधियामिति । विरोधाभावे हेत्वन्तरमाह—गुरुशिष्यादीति ।
आदिशब्देन स्वामिभृत्यभावो गृह्यते । इदमर्थं कैमुत्येनाप्याह—लोक
इति । 'तेषां' ब्रह्मधियां 'लोके' संसारेऽपि । 'असौ' विरोधो न,
कुतो? दोषाभावाद्गुरुशिष्यादिभावाच्च । 'किमु विमुक्तेः' अनन्तरमिति
शेषः ॥ २० ॥
इति यावदधिकरणम् ॥
--
२१. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनाधिकारिणां प्राणावसानत्वं समर्थ्य-
ते । सूत्रं पठति—इयदिति ॥ तथाऽपि पूर्ववत्स्यादित्यनेन द्वितीयसूत्र-
सूचितपूर्वपक्षं प्रदर्शयिष्यन्पूर्वपक्षे बाधकमाशङ्कते-नामादीति । यद्य-
पि छन्दोगश्रुताविति वाक्यं प्रागध्याहार्यम् । नामादीत्यादिपदेन नाम-
वाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नास्तेज आकाशस्मराशा गृह्य-
न्ते । नामादिशब्दाश्च उषास्वाहापर्जन्यमित्राग्निवरुणविधुप्रवहनानि-
रुद्धाहङ्कारिकप्राणेन्द्रोमारुद्रवाणीपराः । 'प्राणान्तं' मुख्यवायुपर्यन्तं
' उत्तरोत्तरोत्तमत्वं ' पूर्वपूर्वापेक्षयोत्तरोत्तरमाधिक्यमुक्तमित्यर्थः ।
'प्राणात् ' मुख्यप्राणात् 'किंचित्' वस्त्विति शेषः । 'भूयः' अधिकं
नोक्तमित्यन्वयः । तथा च प्राणः स्वोत्तमाधिकारियुक्तः अधिकारि-
त्वात् नामाधिकारिवदिति पूर्वपक्षसाधकानुमानेऽनुक्तिः बाधिकेति
भावः । बाधकं परिहरन् द्वितीयसूत्रदर्शितपूर्वपक्षमाह—तथाऽपी-
ति । पूर्ववदिति । श्रुतौ पूर्वगृहीतनामादिवदित्यर्थः । स्यादिति । प्रा-
णादधिकोऽधिकारी साध्यः स्यादित्यर्थः । अधिकारित्वाद्धेतोरिति
शेषः । अनुक्तिस्तु प्रमाणदुर्बलत्वान्न बाधिकेति भावः । सिद्धान्तय-
[ अधि - २१. सू - ३६. ] दीपिकासहितम्. ८६३
( २ ) 'प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान्प्राणो ह्ये
व भूयांस्तस्माद्भूयान्नाम' इति कौण्ठरव्यश्रुतेः ॥ ३५ ॥
( ३ ) सू—ॐ ॥ अन्तरा भूतग्रामवदिति चेत्तदुक्तम् ॥ ॐ ॥ ३६ ॥
यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येवं प्राणा
दपि परमात्मानमन्तरा विद्यत इति चेन्न, प्राणादुत्त
माभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाण
म् । दृश्यते चान्यत्रोत्तमत्वम् ॥ ३६ ॥
ति--नेति । न वाच्यमित्यनन्तरं किन्तु अधिकारिणामपि 'इयत्' इ
यत्त्वमेव प्राणावधित्वमेवेति भावप्रधानं सौत्रं प्रतिज्ञावाक्यं संयोज्यम्।
अधिकारिणां प्राणावधित्वमेवेति तदर्थः ॥
( २ ) कुत इत्यतः प्रवृत्तं आमननादिति हेत्वंशं व्याचष्टे—प्राण इति।
वावेत्यवधारणे । 'हि' यस्मात्प्राणात् 'भूयान्' अधिकः कोऽपि ना
स्ति तस्मात्प्राण एव सर्वेभ्यो भूयान्, प्राण एव भूयानिति निगमनम् ।
यस्मात्प्राणो भूयानधिकः तस्मात्प्राणो लोके 'भूयान्नाम' भूयश्शब्द
वाच्यतया प्रसिद्ध इत्यर्थः ॥
( ३ ) उक्तमाक्षिप्य समाधातुं सूत्रं—अन्तरेति । अत्राक्षेपांशं व्या
चष्टे—यथेति । यथा 'भूतग्रामे' प्राणिसमूहे नामादौ 'उत्तमो' विशि
ष्टोऽस्त्येव, तथा प्राणादप्युत्तमो विद्यत इति साध्यत इत्यर्थः । ननु प
रमात्मनः श्रियश्चोत्तमत्वाङ्गीकारेण सिद्धसाधनमित्यत उक्तम्—अ
न्तरेति सौत्रं पदं व्याचष्टे—परमात्मानमिति । श्रियोऽप्युपलक्षकमेत
त् । अनेन सूत्रे अक्षरमिति पदानुषङ्गस्सूचितः । 'अन्तरा' विना । न
आकर्षेण परिहारांशं व्याचष्टे—नेति । नानुमानेन प्राणादप्युत्तमः सा
ध्य इत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन तदुक्तमित्यंशं व्याचष्टे—प्रा
णादिति । 'प्रमाणम्' 'प्राणो वाव सर्वेभ्यो भूयान्' इति श्रुतिरूपम्।
उक्तमित्यनन्तरं यत इति शेषः । तथा चाधिकारित्वादित्यनुमानस्या
गमबाध इति भावः । ननु नास्मदनुमानस्य बाधः, प्राणादुत्तमाभावे
नामादेरप्युत्तमो न स्यादधिकारित्वाविशेषादिति अनुकूलतर्कसाहा
य्येन इतरानुमानापेक्षया प्रबलत्वादित्याशङ्क्य आकृष्टनञावृत्त्या अन्य
त्रेत्यध्याहारेण च परिहरति-अन्यत्रेति । नामादावुत्तमाभाव इत्यर्थः ।
नन्वभाव इव भावेऽपि न प्रमाणमस्तीत्यतः तदुत्तरत्वेन दृश्यत इति
पदाध्याहारेण तदित्येतद्योजयति--दृश्यते चेति । 'अन्यत्र' वागादौ
८६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ४ ) सू — ॐ ॥ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ॐ ॥ ३७ ॥
प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चे
न्न, श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं
तस्मात्परमात्मनो ह्युपदिष्टम् ॥ ३७ ॥
—*—
नामाद्युत्तमत्वं ‘दृश्यते’ उच्यते छान्दोग्य इति शेषः । न केवलमन्य
त्रोत्तमभावो न दृश्यते, किन्तूत्तमसद्भावो दृश्यते प्रमीयते चेति चश-
ब्दार्थः । तथा च प्रतितर्कस्य प्रमाणबाध इति भावः । अनेन — ‘तत्’
तत्र प्राणादुत्तमभावे तच्छ्रुतिरूपं प्रमाणमुक्तम् । भूतग्रामे तु नोत्त-
मभावे प्रमाणम्, प्रत्युत तत्सद्भाव एव दृश्यत इति सूत्रखण्डार्थ उ-
क्तो भवति ॥
( ४ ) उक्तमाश्रित्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—अन्यथेति ॥ अ-
त्रान्यथाशब्दार्थमाह-प्राणस्येति । सर्वोत्तमत्वे इत्युपलक्षणम् । प्राणादु-
त्तमाधिकार्यभावे ‘प्राणो वाव सर्वेभ्यः’ (कौण्ठरव्य.) इति श्रुतिस्थ स-
र्वशब्दस्य निरुपचरित सर्वार्थत्वाङ्गीकारं चेत्यपि अन्यथाशब्दार्थो ज्ञात-
व्यः। सूत्रे अक्षरेणेत्यनुक्तपदस्यार्थमाह-परमात्मनेति । भेदेति । प्राण-
स्येति वर्तते। सर्वोत्तमद्वयायोगादिति भावः। एवं ‘अन्यथा’ श्रुतिस्थ
सर्वशब्दस्य सङ्कुचितार्थत्वे परमात्मानं च श्रियं च विनेतिवत्कतिप-
याधिकारिणश्च विनेत्यपि वक्तुं शक्यत्वाद्विवक्षितसिद्ध्यनुपपत्तिरि-
ति सूत्रखण्डव्यावृत्यन्तरमपि भाष्याभिप्रेतं द्रष्टव्यम्। परिहारांशं व्या-
चष्टे—नेति । नोक्तदोषप्राप्तिरित्यर्थः । कुत इत्यतः कर्मणि घञन्तत्वमा-
श्रित्य यत उपदेशवदुपपद्यत इति हेत्वंशं व्याचष्टे—श्रुतीति । छन्दो-
गश्रुत्युक्तप्रकारेणैव श्रुत्यन्तरस्थसर्वशब्दस्य सङ्कोचोपपत्तेः । अत ए-
व प्राणपरमयोः भेदोपपत्तेरित्यर्थः । तथा च द्वितीयपक्ष एवाङ्गीक्रिय-
ते । संकोचनियामकं तु श्रुतिवाक्यमेवेति भावः । किं तच्छ्रुत्युपदिष्ट-
मित्यत आह—अन्येभ्य इति । स्वव्यतिरिक्तसर्वाधिकारिभ्य इत्यर्थः ।
‘तस्मात्’ प्राणात् । हिः प्रसिद्धौ हेतौ वा । ‘उपदिष्टं’ उक्तं छन्दोग-
श्रुतौ । तस्मात् विष्णुव्यतिरिक्तसर्वार्थत्वं श्रुतेरिति वाक्यशेष
[ अधि - २२. सू - ३८. ] दीपिकासहितम्. ८६१
२२. अधिकरणम् ॥
( १ ) नेति चेन्न—
सू—ॐ ॥ व्यतिहारो विशिषन्ति हीतरवत् ॥ ॐ ॥ ३८ ॥
उक्तं प्राणात्परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण ।
( २ ) ‘एष तु वा अतिवदति’ ( छा. ७-१६. ) इति विशिष
न्ति हि ।
२२. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनाधिकारिणः प्राणात्परमेश्वरस्योत्तम
त्वं प्रसाध्यते । पूर्वपक्षयति—नेति ॥ छन्दोगश्रुतौ प्राणस्यैव सर्वोत्तम
त्वमुक्तम्, न तु प्राणात्परमात्मनः । न च वाच्यं सत्यपदोदितस्य वि
ष्णोः प्राणादाधिक्यमुक्तमिति । कुतो ? यतो भूतनामवत्प्रश्नप्रतिवच
नरूपप्रकरणभेदकल्पकं न, यतश्च ‘एष तु वा अतिवदति । यः सत्ये
नातिवदति’ इत्युक्तम्, सत्यत्वं प्राणविशेषणमेव न विष्णुविशेषणं,
अत इत्यर्थः। पूर्वपक्षं प्रतिषेधति-नेति । प्रश्नादिरूपप्रकरणभेदकल्पका
भावात् सत्यत्वस्य प्राणविशेषणतया विष्णुविशेषणत्वाभावात् न
प्राणाद्विष्णोरुत्तमत्वमुक्तमित्यर्थः । कुतो नेत्यतः सूत्रं पठित्वा व्या
चष्टे—व्यतिहार इति । यतश्छान्दोग्ये ‘पूर्वोक्ताध्याहारेण’ पूर्वेषु ना
मादिप्रकरणेषु ‘अस्ति भगवो नाम्नो वाव भूयोऽस्तीति, तन्मे भगवान्
ब्रवीत्विति’ ( छा. ७-१-५. ) ‘वाग्वाव नाम्नो भूयसी’ (छा.७-२-१.)
इत्युक्तवाक्यसदृशस्य ‘अस्ति भगवः प्राणाद्भूयोऽस्तीति तन्मे भगवा
न् ब्रवीत्विति सत्यं वाव प्राणाद्भूयः’ इत्येवंरूपस्य प्रश्नप्रतिवचनरूप
वाक्यस्याध्याहारेण प्रकरणभेदकल्पनया सत्यस्य विष्णोः प्राणादुत्त
मत्वमुक्तं अतो नेति योजना । अनेन यतः इतरवत् ‘व्यतिहारः’ अ
ध्याहार इति हेत्वंशो व्याख्यातः । श्रुतौ ‘भगवो’ भगवन्निति नारद
कर्तृकप्रश्नस्य ‘सत्यं वाव’ इति सनत्कुमारकर्तृकं प्रतिवचनम् ॥
( २ ) नन्वध्याहारे कारणाभाव इत्यतस्तत्र हेतुत्वेन विशिषन्तीत्यंशं
व्याचष्टे-एष तु वा अतिवदतीति ॥ विशिषन्ति हीति । छान्दोग्ये ‘स वा
एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति । तं चेद्ब्रूयुर
तिवाद्यसीति । अतिवाद्यस्मीति ब्रूयात् । नापह्नुवीत’ (छा. ७-१५.)
इति प्राणवादिनोऽतिशयितवस्तुवादित्वेनातिवादित्वमुक्तम् । ततश्च
१०९.
८६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ३ ) यथेतरेषु विशेषणम् ।
'एष तु वा अतिवदति यः सत्येनातिवदति' इति सत्याख्यवस्तुवादिनोऽ-
प्यतिवादित्वमुच्यते । तत्र प्राणातिवादिनः सकाशात्सत्यातिवादी तु
शब्देन विशेष्यते । तथा च 'हि' यस्माच्छन्दोगाः प्राणातिवादिनः स-
काशात्सत्यातिवादिनं 'विशिषन्ति' अतिशयितवस्तुवादित्वविशेषण
युक्ततया आमनन्ति । एवं सत्यवादिनं विशिषन्तः प्राणात्सत्यं विशिष-
न्ति । तेन ज्ञायते अन्योऽसावन्योऽसाविति । तस्मात् प्रकरणभेदकस-
द्भावात्प्राणप्रकरणात्परस्तात् 'एष तु वा' इत्यतः प्राक् 'अस्ति भग-
वः' इत्यादिप्रश्नप्रतिवचनाध्याहारः कार्य इत्यर्थः । स एषोऽधिकारी
एवं शृण्वन् एवं विजानन्नेवं ध्यायन्नेवं पश्यन् 'अतिवादी' अतिश-
यितं उत्तमं मुख्यप्राणाख्यं वस्तु वदतीत्यतिवादी भवति 'तं' प्राणा-
तिवादिनं प्रति यदि त्वमतिवाद्यसीत्यन्ये ब्रूयुः, तदा सत्यमतिवाद्य-
स्मीति ब्रूयात् 'नापह्नुवीतैव' नैवापह्नुवीतेत्यर्थः । योऽधिकारी सन् नि-
र्दोषश्वासौ यो नियामकश्चेति सत्यो विष्णुस्तेनातिवदति तमतिवद-
ति एष एव तु प्राणातिवाद्यपेक्षया विशेषेणातिवदति अतिशयितमुत्त-
मं वस्तु वदतीत्यर्थः ॥
( ३ ) ननु कथमिदं विशेषणं प्रकरणभेदकं, येन प्रश्नाद्यध्या-
हारं प्रतिपद्येमहीत्यतः तदुत्तरत्वेनापि इतरवदित्यंशं व्याचष्टे—
यथेति ॥ 'इतरेषु' वागादिषु । प्रयुक्तमिति शेषः । 'वाग्वाव नाम्नो
भूयसी' इत्यादिकं विशेषणं प्रकरणभेदकमित्यर्थः । वाचो नामाधि-
क्यरूपातिशयाभिधायकत्वादिति भावः । तथैतदपीति वाक्यशेषः ।
यस्सत्येनातिवदति स तु प्राणातिवादिनोऽप्यतिशयितं वस्तु विशे-
षेणवदतीति वचनमुखेन प्राणात्सत्यस्य आधिक्यवाचकत्वादिति भा-
वः । अनेनेतरवदित्यस्य विशिषन्ति हीत्यनेनापि सम्बन्धः सूचितः ।
अनेन न विष्णोः प्राणादुत्तमत्वाभावः, यतस्तच्छ्रुत्युपदिष्टं, न च प्र-
श्नाद्यभावात्प्राणपरैव श्रुतिः, यत इतरवत्प्रकरणान्तरवत्प्रश्नाद्यध्याहा-
रः कर्तुं शक्यः । न चात्र कारणाभावः । हि यतः छन्दोगाः इतरवद्धि
शिषन्ति 'वाग्वाव नाम्नो भूयसी' इत्यादिना नामादितो वागादिक-
मिव 'एष तु वा इति' तुशब्देन प्राणात्सत्यं विशिषन्त्यत इति सूत्रार्थ
उक्तो भवति ॥