पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
तु सदिति पदच्छेदं कृत्वा सदित्यस्य भवत्कार्यमिति च ज्ञे-"
Wait, what is at the end of line 31?
"ज्ञे-" or "ज्ञेयं"?
Wait, look at the last character:
There is "ज्ञे" and a hyphen or a small mark?
It looks like "ज्ञे-" or "ज्ञेयं"?
Wait, look at the bottom:
Is line 31 the last line on this page?
Yes, it's the very bottom line.
Let's look at the end of line 31:
"च ज्ञे" - wait, after ज्ञे, there is a letter:
Is that "यं"?
Let's zoom in on line 31:
"माध्वबोधे तु सदिति पदच्छेदं कृत्वा सदित्यस्य भवत्कार्यमिति च ज्ञे"
Wait, after 'ज्ञे', is that a hyphen, or a 'यं'?
Look at the shape: it has a loop with an e-matra: ज्ञे.
Then there is a small horizontal mark: hyphen! "ज्ञे-"
Wait, or is it "ज्ञेयं"? No, it's definitely hyphenated: "ज्ञे-" (continued on next page: "यम्").
Let's double-check all lines carefully!
Line-by-line review:
Header:
७८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
Line
[ अधि - १४. सू - २३. ] दीपिकासहितम्. ७८५
( ३ ) चशब्दात् स्मृतिश्च —
सृष्टिं च पालनं चैव संहारं नियमं तथा ।
एक एव करोतीशः सर्वस्य जगतो हरिः ॥
इति ब्रह्माण्डे ॥ २२ ॥
*
१४. अधिकरणम् ॥
( १ ) परमात्मापरोक्ष्यं च तत्प्रसादादेव । न जीवशक्त्येति
धा व्याख्यानमित्युक्तम् । तत्र स इति प्रसिद्धपदविभागाविरोधादक-
रे द्वित्वाश्रवणं च बाधकमिति ध्येयम् ॥
( ३ ) सृष्टिसंहारकर्तुरपि पालकत्वरूपगुणान्तरसत्त्वे स्पष्टस्मृति-
परतया सौत्रचशब्दं व्याचष्टे—चशब्दादिति ॥ समुच्चितेति शेषः ।
तां स्मृतिं पठति—सृष्टिमिति । सृष्ट्यादिशब्दैः प्रयोज्यव्यापारा लक्ष्य-
न्ते । सर्वस्य जगत इत्यादौ योज्यम् । परस्परसमुच्चये चः । 'चैव'
एवं संहारम् । तथाशब्दः समुच्चये । नियमनं च । 'एक एव' न त्व-
न्यः । अत्रोपपत्तिः—ईश इति । ब्रह्माण्डे उक्तिश्चेति शेषः । अस्य श्रु-
तिरित्यस्य च ब्रवीतीति क्रियापदेनान्वयः । श्रुतौ स्थित्यतिरिक्तस्य
धारणपोषणादिरूपप्रयोजनान्तरस्योक्त्या तस्य च 'एकः' इति स्मृ-
तावनन्यसाध्यत्वस्योक्त्या च स्थितेः स्वतःसिद्धत्वात्तत्पालनं नि-
ष्प्रयोजनमिति चोद्यं निरस्तं भवति । अनेन—'हि' यतो 'नैतावत्'
इति श्रुतिः 'अस्येदेषा सुमतिः' इत्यादिना पूर्वं प्रकृतस्योक्तस्य सृ-
ष्ट्यादिकर्तृत्वस्य 'एतावत्त्वं' एतावन्मात्रपर्यवसितत्वं पालनाख्यगु-
णान्तरासाहित्यं प्रतिषेधति । न केवलमेतावत्किन्तु 'ततः' सृष्ट्यादि-
कर्तृत्वात् 'भूयः' अधिकं पालकत्वमप्यस्य विष्णोर्ब्रवीति । तथा 'सृ-
ष्टिं च' इति स्मृतिश्च स्पष्टम् । अतः सृष्टिसंहारकर्तृत्वातिरिक्तं पा-
लकत्वाख्यं महिमान्तरमपि परस्य सिद्धमिति सूत्रार्थ उक्तो भव-
ति ॥ २३ ॥
॥ इति प्रकृत्यधिकरणम् ॥
ःःः—
१४. अधिकरणम् ॥
( १ ) अत्राधिकरणे भगवद्भक्तेः कर्तव्यतासमर्थनाय तस्योपल-
ब्धियोग्यत्वं समर्थ्यते । सिद्धान्तसूत्रमवतारयति—परमात्मेति ॥
वक्तुमुच्यते —
सू—ॐ ॥ तदव्यक्तमाह हि ॥ ॐ ॥ २३ ॥
अव्यक्तमेव तद्ब्रह्म स्वतः ।
(२) अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम् ।
यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत् ॥
इति कौण्डिन्यश्रुतिः ॥ २३ ॥
चस्त्वर्थः । भक्तिफलत्वेनोक्तमिति विशेषणसमुच्चये वा । तदिति
ईश्वरो भक्तिश्चोच्यते । तथा च भक्तिसाध्येश्वरप्रसादादित्यर्थः । य-
द्वा—तदितीश्वर एवोक्तः । भक्तिसाध्यादिति शेषः । एवकारव्यावर्त्य-
माह—नेति । ‘जीवशक्त्या’ पुरुषप्रयत्नेनेत्यर्थः । अनेनेश्वरस्य व्यक्त-
त्वे विनैव भक्तिं जीवशक्त्यैव स्तम्भादिवदपरोक्षज्ञानसम्भवात् अ-
व्यक्तत्वे च सत्यामपि भक्तौ तदसम्भवात्प्रयोजनस्याभावान्न भक्तिः
कर्तव्येति सयुक्तिकपूर्वपक्षः, तथा स्वतोऽव्यक्तस्यापीश्वरस्य भक्ति-
[
[ अधि - १४. सू - २४. ] दीपिका सहितम्. ७८७
( ३ ) सू--ॐ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ॐ ॥ २४॥
आराधनेऽप्यव्यक्तमेव ज्ञानिनां प्रत्यक्षेण इतरेषामतिसू-
क्ष्मत्वाल्लिङ्गादनुमानेन ।
( ४ ) न तमाराधयित्वाऽपि कश्चिद्व्यक्तीकरिष्यति ।
नित्योऽभिव्यक्तश्च भवेदित्यर्थः । हिशब्दो हेतौ । श्रुतिराहेति । अनेन
सूत्रे श्रुतिरिति शेषो दर्शितः ॥
( ३ ) नन्वस्तु ब्रह्म स्वतोऽव्यक्तं, तथाऽप्याराधनेन पुरुषप्रयत्नेन
व्यक्तीभविष्यति । समाराधनेनाव्यक्तयक्षसाक्षात्कारदर्शनात् । एवं
चेत्किं भक्त्येत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे--अपीति ॥ अ-
व्यक्तमेवेत्यनन्तरं तत्स्वत इत्यनुवर्तते । तथा च न केवलमणाराधनेऽ-
व्यक्तं, किंतु 'आराधनेऽपि' भक्तिरहिताराधनेन संपूजनेनाप्यव्यक्त-
मेव, न तु व्यक्तीकर्तुं शक्यमित्यर्थः । कुतः ? यतस्तद्ब्रह्म स्वतोऽव्यक्तं
अत इति योजना । यद्वा--भक्तिरहिताराधनं एव तदव्यक्तं, न तु भ-
क्तिसहिताराधनेऽपि येन भक्तेर्वैयर्थ्यं स्यादिति । अनेन सूत्रे संराधने
संपूजने इति निमित्तसप्तमी । अपिः भिन्नक्रमः समुच्चये । तदव्यक्त-
मिति चानुवर्तनीयमित्युक्तं भवति । आराधनेऽप्यव्यक्तत्वं कुत इत्य-
तः प्रवृत्तं प्रत्यक्षानुमानाभ्यामिति सूत्रखण्डं व्याचष्टे--ज्ञानिनां प्रत्य-
क्षेणेति । कर्तरि षष्ठीयम् । इतरेषां ज्ञानसाधनमाह--इतरेषामिति ।
ज्ञानिभ्योऽन्येषामित्यर्थः । इतरेषामित्यनेन प्रत्यक्षसिद्धेऽर्थेऽनुमानवैफ-
ल्यमिति निरस्तम् । लिङ्गादनुमानेनेति । लिङ्गाख्येनानुमानेनेत्यर्थः ।
आगमव्यावर्तनायेदं विशेषणम् । यद्वा--लिङ्गात् अव्यक्तत्वस्य अनु-
मानेनेति वैयधिकरण्येनान्वयः । समासपाठे सूक्ष्मत्वहेतुकानुमानेने-
त्यर्थः । अस्याराधनेऽप्यव्यक्तमेवेति साध्येनान्वयः । इति सिद्धमिति
शेषः । यद्यपि सूक्ष्मत्वस्याव्यक्तशब्दप्रवृत्तिनिमित्तत्वान्न तत्साधक-
त्वम् । तथाऽपि प्रत्यक्षाविषयस्वभावत्वमव्यक्तत्वम् । सूक्ष्मत्वं तु त-
तोऽतिरिक्तमिति भेदादविरोधः । यदा सूक्ष्मा अपि परमाण्वादयो
नास्मदक्षगोचराः तदा किम्बतिसूक्ष्मं ब्रह्मेति ज्ञापनाय--अतीत्युक्तम् ।
न च ज्ञानिकर्तृकब्रह्मविशेष्यकाव्यक्तत्वप्रकारकप्रत्यक्षे ब्रह्मणोऽपि
भानात् तस्याव्यक्तताविरोध इति वाच्यम् । स्वतोऽव्यक्तस्यापि ब्र-
ह्मणो भक्तिवशादचिन्त्यशक्त्याभिव्यक्तेरङ्गीकारात् ॥
( ४ ) ननु परप्रत्यक्षस्यासिद्धत्वात्कथमत्र ज्ञानिप्रत्यक्षं प्रमाणीक्रि-
७८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
नित्याव्यक्तो यतो देवः परमात्मा सनातनः॥
इति ब्रह्मवैवर्ते ॥ २४ ॥
( ५ ) नित्याव्यक्तस्वरूपेण तथैव तिष्ठति व्यक्तं किञ्चिद्रूपं गृही-
त्वा दृश्यते । यथाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि
स्थूलरूपेण दृश्यन्ते एवमिति चेत्—
यत इत्यतः तैरव्यक्तत्वोक्त्या तदन्यथाऽनुपपत्त्या तेषामव्यक्तप्रत्य-
क्षसिद्धेः तदुपन्यासोपपत्तेरिति भावेनाह—नेति ॥ 'तं' परमात्मानं,
न केवलमनाराधयित्वा, किन्तु भक्तिं विनाऽऽराधयित्वाऽपि भक्तिं
विनाऽपीति वा अपिशब्दार्थः । 'कश्चित्' योग्यो जनः । कुतो न व्य-
क्तीकरिष्यति ? यतोऽव्यक्तः । नन्वव्यक्तस्यापि विष्णोराराधनेन
व्यक्तिस्सम्भवति यक्षादिवदित्यत उक्तम्—नित्येति । नित्यं सदा
स्वतोऽव्यक्त इत्यर्थः । यक्षादयस्तु नैवमिति न व्यभिचार इति भावः ।
एवम्भूतश्चेत्कथं भक्त्याऽपि व्यक्तो भवेत्, तथा च भक्तेर्वैयर्थ्यमि-
त्यतो—देवः परमात्मेति चोक्तम् । अचिन्त्यशक्त्योभयं युज्यत इति
तदभिप्रायः । अनित्यस्य कथं नित्याभिव्यक्तत्वमित्यत आह—सना-
तन इति । देहतः स्वभावतश्च नित्य इत्यर्थः । ब्रह्मवैवर्ते इति । उक्त-
मिति शेषः । अतो न प्रत्यक्षासिद्धिरिति भावः ॥ न चानेनाव्यक्तत्व-
मात्रसिद्धावपि कथं तत्प्रत्यक्षासिद्धिरिति वाच्यम् । व्यासादिज्ञानिक-
र्तृकाव्यक्तत्वादिवचनस्य वचनान्तरमूलत्वेनानवस्थापत्या प्रत्यक्षमू-
लकत्वस्यैव वक्तव्यत्वेन तेनाव्यक्तत्वसिद्धिसम्भवात् ॥
( ५ ) आक्षिपति—नित्येति ॥ ब्रह्मेत्यनुवर्तते । आदिपदेन जलभु-
वौ गृह्येते । न त्वाकाशवायू अपि, तयोः स्थूलरूपेणाप्यदृश्यत्वात् ।
यद्यपिताथापीत्यर्थेऽपिशब्दः । तथा च यथा अग्न्यादयोऽग्निमात्रादिल-
क्षणानुपचितसूक्ष्मरूपेणादृश्या अपि स्थूलोपचितरूपेण 'दृश्यन्ते'
व्यज्यन्ते, एवं नित्यमुत्पत्त्यादिरहितमत एवाव्यक्तं यन्मूलरूपं तेन 'त-
थैव' अव्यक्तत्वेनैव तिष्ठति ब्रह्म, किञ्चिदवताररूपं गृहीत्वा तेन दृ-
श्यत इति योजना । यत एवमतो भक्तिं विनाऽपि ब्रह्मदर्शनाभावाद्व्यर्था
सेति वाक्यशेषः । तथैवेत्येतदवताररूपमित्यनेनापि सम्बध्यते ।
मूलरूपसदृशमेवेति तदर्थः । तेन मूलरूपदर्शनस्य मोक्षहेतुत्वेऽपि ना-
वतारदर्शनस्य तथात्वमिति शङ्काऽनवकाशः ॥
[ अधि - १४. सू - २५. ] दीपिकासहितम्. ७८९
( ६ ) न,
सू—ॐ ॥ प्रकाशवच्चावैशेष्यम् ॥ ॐ ॥ २५ ॥
अग्न्यादिवत्स्थूलसूक्ष्मत्वविशेषाभावात् ।
( ७ ) 'नासौ सूक्ष्मों न स्थूलः पर एव स भवति । तस्मादा-
हुः परमः' इति माण्डव्यश्रुतेः ।
( ८ ) स्थूलसूक्ष्मविशेपोऽत्र न क्वचित्परमेश्वरे ।
( ६ ) एतच्चोद्यं प्रतिषेधति—नेति ॥ नित्येत्यादिनोक्तं नेत्यर्थः । अ-
नेन सौत्रचशब्दो न दृष्टान्तसमुच्चायकः, किन्तु शङ्काव्यावर्तक
इत्युक्तं भवति । तत्त्वप्रदीपे तु 'सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमे-
श्वरः' इति तुश्रुतेः प्रकृतिवच्च नास्य सूक्ष्मत्वं नैव चाग्न्यादिवदिति
चकारार्थ इति चकारस्यानुक्तदृष्टान्तसमुच्चायकत्वमुक्तम् । एतत्पक्षे
नेत्येतत् आगामिसूत्रेऽध्याहृतनञर्थकथनरूपमिति द्रष्टव्यम् । कुतो
नेति हेत्वाकांक्षायां सूत्रमुपन्यस्य व्याचष्टे—प्रकाशवच्चेति । अग्न्या-
दिवदित्यनेन गुणवाचकप्रकाशशब्दोऽग्न्यादिगुणिवाचकतया व्याख्या-
तः । आदिशब्देन जलपृथिव्योर्ग्रहणम् । त्वप्रत्ययः प्रत्येकं सम्बध्यते ।
विशेष्येनेन सूत्रे स्वार्थे ष्यञित्युक्तं भवति । विशेषो धर्मः । पञ्चमी-
निर्देशेन चो यत इत्यर्थेऽपीत्युक्तं भवति । ब्रह्मणिति शेषः ॥
( ७ ) ननु ब्रह्मणि स्थूलसूक्ष्मत्वयोरभावः कुतो ज्ञायते, येन व्य-
क्ताव्यक्तत्वयोरभावः स्यादित्यतः अत्रापि—आह हीत्यस्यानुवृत्तिम्
अभिप्रेत्य तदभिप्रेतां श्रुतिमुदाहरति—नासाविति ॥ 'असौ' भगवान्
केनचिद्रूपेण सूक्ष्मः केनचिच्च स्थूल इति न, किन्तु 'स पर एव' सर्व-
रूपेषु परमसूक्ष्म एव भवति न त्वनैवंभूतः । एवं असौ केनचित् रूपेण
स्थूलः केनचित्सूक्ष्म इति न, किन्तु सर्वत्र 'परः' परमस्थूल एवेत्य-
र्थः । अत एव नञ्द्वयप्रयोगः, 'महतो महीयान्' (कठ.२-२०.) इति
श्रुत्यविरोधश्च । स्थूलात् स्थूलतमत्वं हि तदर्थः ! न चैवं व्यक्तत्वाप-
त्तिः, तद्विरोधिपरमसूक्ष्मत्वेन तत्प्रतिबन्धात् । किञ्चातः ? यस्मात्सर्व-
त्र परमसूक्ष्मः स्थूलश्च तस्मादेनं विष्णुं परम इत्याहुर्ज्ञानिन इत्यर्थः ।
श्रुतेरित्यास्यावैशेष्यमित्यत्रान्वयः । सिद्धमिति शेषः ॥
( ८ ) नन्वनुत्पन्नस्य मूलरूपस्योत्पन्नानां चावताररूपाणां च क-
थं स्थूलसूक्ष्मत्वविशेषाभाव इत्यत आह—स्थूलेति ॥ व्यवस्थयेति शे-
७९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः ॥
इति च गारुडे ।
( ९. ) अव्यक्तव्यक्तभावौ च न क्वचित्परमेश्वरे ।
सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः ॥
इति कौर्मे ॥ २५ ॥
( १० ) तर्हि किं यत्नेनेत्यत आह—
सू—ॐ ॥ प्रकाशश्च कर्मण्यभ्यासात् ॥ ॐ ॥ २६ ॥
षः । तथा च यतोऽसौ भगवान् ‘सर्वरूपेष्वजः’ उत्पत्तिशून्यः सदा
अतः ‘अत्र’ भगवति क्वचिदपि रूपे काले वा ‘स्थूलसूक्ष्मविशेषः’ स्थू-
लसूक्ष्मत्वरूपो धर्मः ‘व्यवस्थया’ केनचित् रूपेण स्थूलः केनचित् रू-
पेण सूक्ष्म इति न । एवं घटादिवज्जननात्पूर्वं सूक्ष्मस्तदूर्ध्वं स्थूल इत्य-
पि न, किन्तु सर्वत्रैकरूप एवेत्यर्थः । ननु कथमेतदन्यत्रादृष्टमत्र युज्य-
त इत्यत आह—परमेश्वर इति । हेतुगर्भमेतत् । इति चेति चः श्रुति-
समुच्चये । गारुडे उक्तमिति शेषः । अस्याप्यवैशेष्यमित्यनेनान्वयः ॥
( ९ ) एवं स्थूलसूक्ष्मत्वयोर्व्यापकयोरेवात्रानुपलब्ध्या तद्व्याप्य-
योर्व्यक्तत्वाव्यक्तत्वयोरप्यभाव उक्तः । स्मृत्याऽप्येतदभावं साधय-
ति—अव्यक्तेति ॥ अव्यक्तत्वव्यक्तत्वे इत्यर्थः । चः समुच्चये । क्वचि-
द्रूपेऽव्यक्तत्वं क्वचिद्व्यक्तत्वमिति व्यवस्थितौ नेत्यर्थः । परमेश्वरपद-
प्रयोजनं तु पूर्ववदेव । कुतो नेत्यत आह—सर्वत्रेति । सर्वरूपेष्वित्य-
र्थः । ‘अव्यक्तरूपः’ अव्यक्तस्वरूपः ‘अयं’ परमेश्वरः । कुत इत्यत
आह—यत इति । एवकारो भिन्नक्रमः । उत्पत्त्या जननं व्यक्तिमर्दय-
ति गमयति प्रापयत्येवान्यान् न स्वयमन्यशक्त्या प्राप्नोतीति जनार्द-
नः । स्वजननमर्दयति अपगमयतीति वा । गीताभाष्ये तु न जायत इ-
ति जनः अर्दयति गमयति संसारमिति जनार्दन इति व्याख्यातं, तद-
पि प्रकृतानुकूलमेव । कौर्मे उक्तमिति शेषः । अस्याप्यवैशेष्यमित्यने-
नान्वयः । व्यक्तत्वाव्यक्तत्वरूपविशेषराहित्यमिति तदर्थः ॥
( १० ) उत्तरसूत्रमवतारयति—तर्हीति ॥ ब्रह्मणः सर्वथाऽव्यक्तत्वे
इत्यर्थः । किमिति । ‘यत्नेन’ श्रवणादिरूपेण भक्तिपूर्वकेण किं प्रयो-
जनं, न किमपीत्यर्थः । ‘इत्यतः’ इति शङ्कायां परिहारमाह सूत्रकृदि-
त्यर्थः । सूत्रे निराकृतेऽप्यशब्दत्वे तदव्यक्तमित्युक्त्या कस्य चित्तद्
विषयत्वाशङ्का स्यात्, तां वारयितुं प्रयुक्तः कर्मशब्दः कर्मकारकपरः।
[ अधि - १४. सू - २७. ] दीपिकासाहितम्. ७९१
विषयभूतं तस्मिंश्च श्रवणाद्यभ्यासात्प्रकाशश्च भ-
वति ।
( ११ ) 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या-
सितव्यः' (बृ. ४-४-५.) इति श्रुतेः ॥ २६ ॥
( १२ ) नित्याव्यक्तस्य कथं प्रकाश इत्यत उच्यते—
सू— ॐ ॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥ ॐ ॥ २७॥
उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति।
तदव्यक्तमित्यनुवर्तते । तस्य विपरिणाम इत्याशयेन विषयभूते ‘ त-
स्मिन् ’ अव्यक्ते ब्रह्मणीत्युक्तम् । न त्वन्यत्रेत्येवार्थः । तथा च तदे-
कविषयकश्रवणमननाद्यावर्तनादित्यर्थः । भक्तिपूर्वकादिति शेषः । प्र-
काश इत्यत्रापि तस्मिन्नित्यावर्तनीयम् । तथा च तस्मिन् ‘ प्रकाशः ’
तद्विषयकापरोक्ष्यमित्यर्थः । न केवलमप्रकाशः, किन्तु प्रकाशश्चेति
चार्थः । ‘तस्मिन्’ अव्यक्तेऽपीत्यप्यर्थो वा । यत इति शेषः । अनेन सू-
त्रे हिशब्दानुवृत्तिस्सूचिता । अस्यातो न श्रवणादिवैय्यर्थ्यमित्य-
ध्याहृतेनान्वयः । अनेन सूत्रे नञनुवृत्तिस्सूचिता ॥
( ११ ) श्रवणाद्यभ्यासेन अपरोक्षं भवतीत्येतत्कुतो ज्ञायत इत्यत
स्वशब्देन आह हीत्यनुवृत्तेन वा सूचितश्रुतेरेवेत्याह— आत्मेति ॥ ब्रह्म
णो निदिध्यासनकर्मत्वं च स्वप्रतिमाद्वारा तदुपासनं च भवति । प्र-
तिमोपासनमित्युक्तेः । व्याख्यातेयं श्रुतिर्जिज्ञासाधिकरणे ॥
( १२ ) उत्तरसूत्रमवतारयति— नित्येति ॥ ब्रह्मणः श्रवणाद्यभ्या-
सादपीति सम्बन्धः । कथमित्याक्षेपे । न कथमपीत्यर्थः । युक्तिविरोधा-
दिति भावः । उच्यत इति । इत्यस्मिन् चोद्ये परिहार उच्यत इत्यर्थः ।
तत्सूत्रं पठित्वा व्याचष्टे— अत इति । उभयत्रेति । अव्यक्तत्वे प्रत्यक्ष-
त्वे च प्रमाणसद्भावादित्यर्थः । तदन्यथाऽनुपपत्त्येति यावत् । अत इ-
त्यस्यार्थान्तरमाह— तस्य प्रसादादिति । तस्याधिकारिणस्तस्याव्य-
क्तस्यापि परब्रह्मणः प्रसादादेवेत्यर्थः । न साधनसामर्थ्येनेत्येवार्थः ।
‘ प्रकाशः ’ आपरोक्ष्यम् । इदं चानुवृत्तं पदं भवति । इति ज्ञायत इति
शेषः । चेत्यप्यनुषञ्जनीयम् । तस्य ‘ अनन्तेन ’ अपरिमितसामर्थ्येने-
त्यनेनान्वितस्यावधारणार्थत्वं, प्रकाशश्चेत्यनेनान्वितस्य पुरुष
७९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
( १३ ) 'तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्व
मायानिवृत्तिः' (श्वे. १-१०.) इति लिङ्गात् ।
( १४ ) युज्यते च तस्य अनन्तशक्तित्वात् ।
( १५ ) नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निजशक्तितः ।
तमृते परमात्मानं कः पश्येतामितं प्रभुम् ॥
( १३ ) न केवलमन्यथाऽनुपपत्त्या प्रसादाधीनप्रत्यक्षत्वं ब्रह्मणः,
किन्तु बलवच्छ्रुत्या चेत्याह सूत्रकृत्— तथा हीति । तद्व्याचष्टे— त
स्येति ॥ इतिलिङ्गादिति । इतिवाक्योक्ताद्बन्धनिवृत्तिरूपमोक्षस्य म
ध्यमप्रसादसाध्यत्वरूपात् दर्शनस्य प्रसादसाध्यत्वज्ञापकादित्यर्थः ।
इतिशब्द आद्यर्थे। तेन च 'दृष्ट्वैव तं मुच्यते' ( ) इति श्रुतिः
सूचिता। तथा च 'तस्याभिध्यानात' 'दृष्ट्वैव' इति वाक्यद्वयबलाद्दर्श
नान्मोक्षः, उपासनाजनितप्रसादाच्च दर्शनमिति पारम्पर्यं सिद्ध्यतीति
भावः। लिङ्गादित्युक्त्या सूत्रे यत इत्यध्याहार्यमित्युक्तं भवति । तथा
शब्दस्तूपमार्थो वा अर्थापत्तियुक्त्योः समुच्चयार्थो चेति हृदयम् । 'त
स्य' इति श्रुतिस्तदभिध्यानान्नये व्याख्याता ॥
( १४ ) नन्वव्यक्तस्वभावस्य ब्रह्मणः प्रसादेनापि न प्रत्यक्षता
युज्यते । न हि प्रसन्नोऽपि नरो वानरो भवितुमीष्ट इत्यत आह— यु
ज्यते चेति ॥ चशब्दोऽवधारणार्थः । उभयमिति विपरिणामेन सम्ब
ध्यते । तदिति च । तथा च तस्य विष्णोरव्यक्तत्वं प्रत्यक्षत्वं चेत्यु
क्तमुभयं युज्यते । तस्यैव युज्यते न त्वन्यस्येति वा । कुतः ? 'अन
न्तशक्तित्वात्' अपरिमिताघटितघटकसामर्थ्यादित्यर्थः । तस्यैवा
नन्तशक्तित्वादित्यनेन सूत्रे तेनेत्यनुक्त्वा अनन्तेनेत्यधिकोक्तेः प्रयो
जनं चोक्तं भवति । अत एव प्रमेयदीपे— ननु ज्ञानिभिर्भगवान् दृश्य
ते चिन्त्यते च । तत्कथमुच्यते 'अव्यक्तोऽयमचिन्त्योयम्' ( गीता.
२-२५.) इत्यवतार्य अत एवाव्यक्तादिरूप इति भाष्यं 'अत एव' अ
चिन्त्यशक्तित्वादेव, यथोक्तं— 'अतोऽनन्तेन' इतीति व्याख्यातम् ।
सौत्रातशब्दस्य व्याख्यानान्तरमिदमिति केचित् ॥
( १५ ) सूत्रार्थे स्मृतिं चाह— नित्येति ॥ अत्रेत्थं योजना--यद्य
पि भगवान्नित्यं नियमेन स्वतोऽव्यक्तस्तथाऽपि 'भक्तैरीक्ष्यते' तद्द
र्शनविषयो भवति । कथम् ? 'निजशक्तितः' स्वरूपसामर्थ्यादेव ।
तेन विना सर्वकार्ये प्रति कथं तस्य हेतुत्वं व्यभिचारादित्यत आह-
[ अधि - १५. सू - २८. ] दीपिकासहितम्. ७९३
इति नारायणाध्यात्मे ॥ २७ ॥
--
१५. अधिकरणम् ॥
( १ ) स्वरूपेणानन्दादिना कथमानन्दित्वादिरिति ।
( २ ) अत उच्यते—
सू—ॐ ॥ उभयव्यपदेशास्त्वहिकुण्डलवत् ॥ ॐ ॥ २८ ॥
तमिति । परमात्मानं विना तत्प्रसादं विनेति यावत् । तं परमात्मानं
कः पश्येन्न कोऽपीति । अव्यक्तस्वभावस्य कथं दर्शनकर्मता युक्ति
विरोधादित्यत उक्तम्— ‘अमितं’ अनन्तं ‘प्रभुं’ समर्थमिति च ।
नारायणाध्यात्म इत्यनन्तरं सूत्रोक्तमुक्तमिति शेषः ॥ १४ ॥
॥ इति अव्यक्तत्वाधिकरणम् ॥
::-
१५. अधिकरणम् ॥
( १ ) अत्र भगवतो गुणित्वं समर्थ्यते । सयुक्तिकं पूर्वपक्षयति
—स्वरूपेणेति ॥ हेतौ तृतीया । कथमित्याक्षेपे । ब्रह्मण इति शेषः ।
प्रथमादिपदेन ज्ञानादिकं गृह्यते । द्वितीयेन ज्ञानत्वादिकं भजनीयत्वं
च । युज्यते इत्याकृष्यते । तथा च ब्रह्मणः ‘कथं भजनीयत्वं युज्यते’
न युज्यते । कुतः ? यतस्तस्य ‘कथमानन्दित्वादियुज्यते’ न युज्यते ।
अगुणित्वादिति यावत् । कुतः ? ‘स्वरूपेण’ ब्रह्मस्वरूपत्वेनाङ्गीकृते
नानन्दादिना हेतुना, आनन्दादिगुणानां ब्रह्मस्वरूपत्वाङ्गीकारादिति
यावत् । तत्स्वरूपत्वे च तद्वत्त्वायोगादिति भाव इति योजना । स्वरू-
पेणानन्दादिना धर्मेण कथमानन्दित्वादियुज्यते इत्येकान्वयो वा । त-
थात्वे युक्तिविरोधादिति शेषः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ‘आनन्दं ब्रह्म-
णः’ इति तैत्तिरीयश्रुतेः ‘न बिभेति कदाचन’ इत्युत्तरेणान्वयः । ‘अथ’
इत्यन्या श्रुतिः । ‘एषः’ विष्णुरेव ‘परमः’ पूर्णः । इतिशब्द आद्यर्थे । तेन
‘आनन्दो ब्रह्म’ (तै. ३-६. ) इत्यादिः गृह्यते । इत्युभयव्यपदेशादि-
ति । इत्याद्यासु श्रुतिषूभयोः ब्रह्मतदानन्दयोः उभयोर्गुणित्वतत्स्वरूप-
त्वयोरुक्तत्वादित्यर्थः । यद्वा—ब्रह्मण इति शेषः । अत्राद्यवाक्यं ब्रह्म-
णो गुणित्वं वक्ति, द्वितीयं तत्स्वरूपत्वमिति विवेकः । ननु श्रौतमपि
गुणात्मकस्य ब्रह्मणो गुणित्वं कथं युज्यते अदर्शनादित्यत उक्तं—अ-
१००
७९४ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ]
' आनन्दं ब्रह्मणो विद्वान् ' (तै. २-४.) ' अथैष एव प-
रम आनन्दः ' (बृ. ६-३-३३.) इत्युभयव्यपदेशादहि
कुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च ।
( ३ ) तुशब्दात्केवलश्रुतिगम्यत्वं दर्शयति ॥ २८ ॥
( ३ ) सू—ॐ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ॐ ॥ २९ ॥
हिकुण्डलवदिति दृष्टान्तवाक्यमनूद्य व्याचष्टे–अहीति । नन्वहेः कुण्ड-
लित्वावस्थायाः कादाचित्कत्वेन खण्डितत्वाद्भेदाभेदयोः सत्त्वेन कु-
ण्डलित्वं कुण्डलत्वं चेत्युभयं युज्यते । ब्रह्मणस्तु आनन्दादिनाऽत्य-
न्ताभेदात्कथं गुणत्वं गुणित्वं च युज्यत इत्यतः अहिकुण्डलवदिति
सावधारणमित्याह—एवेति । विशेषादेवेत्यर्थः । तथा च ब्रह्मणस्तद्ध-
र्माणां च भेदप्रतिनिधिविशेषादङ्गीकाराद्यथोक्तं युज्यत इति भावः । यु-
ज्यत इत्यत्र स्वरूपेणानन्दादिनेत्याद्यनुवर्तते । अनेन सूत्रेऽध्याहार्यं प्र-
तिज्ञावाक्यं दर्शितम् । ननु नेश्वरो गुणवान्, गुणात्मकत्वात्, यथा
अश्वोऽनश्ववान् दण्डोऽदण्डवान् । आनन्दाद्या न ब्रह्मगुणाः तत्स्वरूप-
त्वाद्व्रह्मवदिति युक्तिविरोधात् न गुणित्वं गुणत्वं च ब्रह्मणो युज्यत
इत्यतः प्रवृत्तं तुशब्दं व्याचष्टे–तुशब्दादिति ॥ केवलेति । प्रत्यक्षाद्यस-
हितेत्यर्थः । श्रुत्यैकसमधिगम्यत्वमिति यावत् । ब्रह्मस्वरूपानन्दादेरि-
ति शेषः । ' दर्शयति ' ज्ञापयति सूत्रकार इत्यर्थः । तथा च न तत्र यु-
क्तिविरोधः शङ्क्य इति भावः । तत्र अहेः कुण्डलित्वस्य सिद्धत्वात्
कुण्डलत्ववदित्येकस्यैव ग्रहणं कृतमिति ध्येयम् ॥
( ३ ) दृष्टान्तान्तरेणैतदेव साधयत्सूत्रमुपन्यस्य व्याचष्टे–प्रकाशेति॥
यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं चेत्यनेन भास्वररूपार्थप्रकाशश-
ब्दो भावप्रधानः, प्रकाशाश्रयशब्दोऽपि भावप्रधानः । स चावर्तनीयः ।
तत्पुरुषश्चायम्। तथा च प्रकाशाश्रयस्यादित्यमण्डलस्य प्रकाशत्ववत्
प्रकाशाश्रयत्ववत् प्रकाशित्वञ्चेति दृष्टान्तपदस्यार्थ उक्तो भवति ।
अत्र पूर्वदृष्टान्त इव न भेदाभेदौ, अखण्डितत्वात् । किन्तु भेदप्रतिनि-
धिविशेष एवेति ध्येयम् । एवमित्यत्र ब्रह्मण इत्याकृष्यते । तथा ब्रह्म-
णोऽपि विशेषबलाद्गुणगुणिभावो युज्यत इत्यर्थः । इतिशब्दोऽध्याहा-
र्यः । वाशब्दो व्यवस्थितविकल्पे । ' दृष्टान्तो ' वाच्य इति शेषः । उभ-
येत्युक्तानुमाने अहिकुण्डलवदिति वा प्रकाशाश्रयवदिति वा दृष्टान्त-
पदं प्रयोक्तव्यमिति सूत्रकृतो हृदयमिति भावः । नन्वत्र यावद्द्रव्यभावि
[ अधि - १५ - सू - ३०. ] दीपिकासहितम्. ७९५
यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च एवं वा दृष्टा-
न्तः। तेजोरूपत्वाद्ब्रह्मणः ॥ २९ ॥
(४) सू–ॐ ॥ पूर्ववद्वा ॥ ॐ ॥ ३० ॥
यथैक एव कालः पूर्व इति अवच्छेदको अवच्छेद्य
श्च भवति। अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः। स्थूलम-
तीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः।
(५) प्रकाशवत्कालवद्वा यथाऽङ्गे शयनादिकम्।
गुणाभिन्नानां तद्वतां घटादीनामपि दृष्टान्तयितुं शक्यत्वात्तान्विहाय
विशिष्यादित्यग्रहणे का विवक्षेत्यतः प्रवृत्तं तेजस्त्वादिति सूत्रखण्डं
व्याचष्टे—तेजोरूपत्वादिति। ब्रह्मणः आदित्यस्येत्युभाभ्यामस्य सम्ब-
न्धः। तेन सूत्रे उभयोरिति पदानुवृत्तिस्सूचिता। तथा च घटादीनां
मतेजोरूपत्वात् तान् परित्यज्य तेजोरूपत्वसाधर्म्यविवक्षयाऽऽदित्यदृ-
ष्टान्तोक्तिरिति भावः ॥
(४) दृष्टान्तान्तरेण ब्रह्मणो गुणगुणिरूपत्वं साधयत्सूत्रं पठित्वा
व्याचष्टे—पूर्ववद्वेति ॥ एक एवेति । अभिन्नोऽपीत्यर्थः । कालशब्दस्त-
दंशपरः। पूर्व इत्यनन्तरमपि कालशब्दो योज्यः । भवतीत्यनन्तरं ए-
वमित्यादि च। तथा च यथा पूर्वः काल इति प्रयोगे पूर्वेणाभिन्नोऽपि
कालः पूर्व इति ‘अवच्छेदको’ विशेषकः काल इति ‘अवच्छेद्यो’
विशेष्यश्च विशेषबलाद्भवत्येवमिति वा दृष्टान्तयोजना। ननु व्यर्थोक्ते-
रपर्यवसानात्किमर्थोऽयं दृष्टान्त इत्यत आह—अतीति । ‘अपेक्षया’
विवक्षया। ब्रह्मण इति शेषः। ‘एषः’ कालदृष्टान्तः । तर्ह्यलमनेन दृ-
ष्टान्तद्वयेन, किं भेदाभेदविषयेणाहिकुण्डलदृष्टान्तेनेत्यत आह—स्थू-
लेति। चोऽप्यर्थः। ‘प्रदर्शनार्थं’ एकस्मिन्नेव विशेषणविशेष्यभाव-
स्येति शेषः। अत एवास्य प्राथमिकत्वम् । उभयत्र सूत्रकृदभिहित-
मिति शेषः ॥
(५) सूत्रकृदुक्तार्थे स्मृतिं पठति—प्रकाशवदिति ॥ आदित्यम-
ण्डलप्रकाशवदित्यर्थः। ‘कालवत्’ साक्षिसिद्धपूर्वोत्तरादिकालावय-
ववदित्यर्थः। ‘अङ्गे’ शरीरे ‘शयनं’ अवस्थाविशेषः, न तु निद्रा म-
नोधर्मो वा। तथा च अङ्गे शयनमिति प्रयोगे अङ्गाभिन्नमपि शयनं
यथा अङ्गविशेषणकं भवति अङ्गं शयनविशेषणं भवतीत्यर्थः। आदि-
पदेनाङ्गं शेत इत्यङ्गस्य शयनक्रियाकर्तृभावो गृह्यते। अङ्गमङ्गमधिशे
७९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
ब्रह्मणश्चैव मुक्तानामानन्दो भिन्न एव तु ॥
इति नारायणाध्यात्मे ।
(६) आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत् ।
कालवद्वा यथा कालः स्वावच्छेदकतां व्रजेत् ॥ इति
पाद्मे ॥ ३० ॥
(७) सू- ॐ ॥ प्रतिषेधाच्च ॥ ॐ ॥ ३१ ॥
'एकमेवाद्वितीयम्' (छा. ६-२-१०) 'नेह नानाऽ
त इत्यङ्गस्य शयनक्रियाकर्मकर्तृभावो वा । अनेनाहिकुण्डलदृष्टान्तः
सङ्गृहीतः । कुण्डलस्याप्यवस्थाविशेषत्वात् । 'एव' एवम् । तुशब्दो
विशेषार्थः । चशब्दो भिन्नक्रमः । तथा च यद्यप्यभिन्न एवानन्दः, त
थाऽपि प्रकाशवत्कालवद्वा ब्रह्मणो मुक्तानां चेत्येवं तत्सम्बन्धित्वेनो
च्यते इत्येकोऽन्वयः । यथाऽङ्गे 'शयनादिकं' शयनक्रियानिरूपितविशे
षणत्वकर्तृत्वादिकं तद्भिन्नमपि तद्धर्मत्वेनोच्यते, तथा ब्रह्माभिन्नोऽ
प्यानन्दादिर्विशेषादेव तद्धर्मत्वेनोच्यते इत्यपरोऽन्वयो द्रष्टव्यः । न
त्वेकान्वयः । आद्ययोर्विशेषानिर्वाह्यत्वात् अन्त्यस्य भेदनिर्वाह्यत्वात् ।
अत एव प्रकाशवत् कालवदिति यथाऽङ्गे शयनादिकमिति विचि
त्रोक्तिः ॥
(६) सूत्रोक्तार्थे स्मृत्यन्तरं चाह--आनन्देन त्विति ॥ तुरव
धारणे । स्वाभिन्नेनैवेति सम्बध्यते । 'व्यवहारो' विशेषणविशेष्यभा
वेन व्यपदेशः । भवतीति शेषः । कालवदित्येतद्विवृणोति--यथेति ।
'स्वावच्छेदकतां' स्वविशेषणकत्वम् । स्वावच्छेद्यत्वस्याप्युपलक्षण
मेतत् । एवमानन्दादिरपीत्युपस्कृतवाक्येनास्यान्वयः । नारायणाध्या
त्मे ब्राह्मो इत्युभयत्रापि सूत्रोक्तमुक्तमिति शेषः । आद्यदृष्टान्तस्य वि
षमत्वाद्वितीयस्मृतावनुक्तिः ॥
(७) ननु किमनेन गुणगुणिनोरभेदमभ्युपेत्य ब्रह्मणो गुणित्वप्र
तिपादनेन । गुणगुणिनोर्भेद एव किं न स्यादित्याशङ्कां परिहरत्सूत्रं प
ठित्वा व्याचष्टे--प्रतिषेधाच्चेति ॥ इति वाक्येन ब्रह्मणस्तद्गुणानां च
भेदनिषेधादित्येवं भाष्यस्य सूत्रेणान्वयः । अनेन सौत्रश्चशब्दः शङ्का
व्यावर्तकः । तेन न ब्रह्मतद्गुणादेर्भेदः शंक्य इति प्रतिज्ञा सिद्धा । कु
तः ? तस्य भेदस्य प्रतिषेधादिति वा, उभयोर्गुणगुणिनोरुभयत्वस्य
भेदस्य प्रतिषिद्धत्वादिति वाऽध्याहारानुवृत्तिभ्यां सूत्रयोजना दर्शि
[ अधि - १६. सू - ३२. ] दीपिकासहितम्. ७९७
स्ति किञ्चन ' ( कठ. २-४-११.) इति भेदस्य ॥ ३१ ॥
— * ॐ * —
१६. अधिकरणम् ॥
( १ ) सू— ॐ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशे
भ्यः ॥ ॐ ॥ ३२ ॥
न चानन्दादित्वाल्लोकानन्दादिवत्, 'एष सेतुर्विधृ
ता भवति । 'एकमेव' इति छान्दोग्यश्रुतिः । तस्याः 'एकं' ज्ञानान
न्दादिगुणैरवयवैश्चाभिन्नं ब्रह्मैकमेव, न घटादिवद्वयवसहितैकत्वयु
क्तं स्वावयवैर्भिन्नाभिन्नं, 'अद्वितीयं' समाभ्यधिकशून्यमित्यर्थः । 'ने
ह' इति कठश्रुतिः । तस्याः 'इह' ब्रह्मणि 'किञ्चन' गुणगुण्यादिकं
'नाना' भिन्नं नास्तीत्यर्थः । तत्त्वप्रदीपे तु 'इह' परमेश्वररूपेषु अ
वयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थ इत्युक्तं । एतत्पक्षे नानाश
ब्दो नानात्वार्थकः । तथा च 'किंचन' किंरूपोऽपि हीनाधिकभावो
वा अन्योन्याभावो वा पृथक्त्वरूपो वा भेदो नास्तीत्यर्थः ॥ १५ ॥
॥ इति अहिकुण्डलाधिकरणम् ॥
*
१६. अधिकरणम् ॥
( १ ) अत्र भगवद्गुणानां लोकविलक्षणत्वं समर्थ्यते । सिद्धान्तय
त्सूत्रमुपन्यस्य व्याचष्टे—परमिति ॥ अत्रेत्थं योजना । ब्रह्मानन्दादिकं
'आनन्दादित्वात्' तच्छब्दवाच्यत्वाद्वहेतोः 'लोकानन्दादिवत्' लौ
किकजीवानन्दादिसदृशं न, किन्त्वतो लोकानन्दादेः 'अलौकिकत्वा
त्' तृतीयार्थे पञ्चमी । अलौकिकत्वेन प्रकारेण 'परं' विलक्षणं अलौ
किकमेवेत्येका प्रतिज्ञा । यद्वा—परब्रह्मानन्दादिकं 'अतो' लोकान
न्दादेः 'परं' विलक्षणमित्येव प्रतिज्ञासमर्पकम्, नालौकिकत्वादित्य
पि । न चेत्यादिकमपि अतः परमेवेति सावधारणप्रतिज्ञासूचितपूर्वप
क्षनिषेधकं, न प्रतिज्ञान्तर्गतं, अलौकिकत्वादित्येतच्च हेतुसमर्पकमि
त्यपरा । प्रथमपक्षे कुतोऽलौकिकत्वरूपवैलक्षण्यमित्यतः प्रवृत्तं सेतू
न्मानेति हेतुं व्याचष्टे—एष इति । यद्वा—द्वितीयपक्षे वैलक्षण्ये सा
ध्येऽतःशब्दोक्तस्यालौकिकत्वादिति हेतोः साधकतया प्रवृत्तं हेतुवाक्यं
व्याचष्टे—एष इति । सेतुपदं भावप्रधानमित्याशयेन इति सेतुत्वमि
त्युक्तम् । एवंविधमाधारत्वरूपं वैलक्षण्यमित्यर्थः । हिशब्दो यत इत्य
तिः' (छा.८-४-१.) 'य एष आनन्दः परस्य' 'एष
नित्यो महिमा ब्राह्मणस्य' (बृ.६-४-२३.) इति सेतुत्वं
ह्युच्यते । 'यतो वाचो निवर्तन्ते' (तै.२-४.) इत्यु
न्मानत्वं 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप
जीवन्ति' (बृ.६-३-३२.) इति सम्बन्धः ।
र्थे । 'उच्यते' व्यपदिश्यते । इत्युच्यत इति सर्वत्र सम्बध्यते । अ
स्यात् एभ्यो व्यपदेशेभ्योऽलौकिकत्वावगमादित्यन्वयः । अत्र प्रथम
पक्षे सेतुत्वादिधर्मवत्त्वरूपवैलक्षण्ये व्यपदेशः साक्षाद्धेतुः । द्वितीये
तु अवगमो हेतुः । व्यपदेशस्तु तत्साधक इति विवेकः । न च व्यपदे
शेभ्यः सेतुत्वादिकमेवावगम्यते नालौकिकत्वहेतुरिति वाच्यम् ।
अलौकिकत्वादित्यस्य टीकारीत्या लोकानन्दादावसम्भावितसेतुत्वा
द्विधर्मवत्त्वादित्यर्थाभ्युपगमात् । 'एषः' इति शाखान्तरवाक्ये विधृ
तिः सेतुः धारणसमर्थाश्रय इत्यर्थः । एष इति क इत्यत आह—य
इति । नन्वत्रानन्दस्य विष्णुसम्बन्धित्वं न प्रतीयते परशब्दस्यानेका
र्थत्वादित्यत उक्तं-एष इति । प्रकृतसार्वज्ञ्यपूर्णानन्दादिरित्यर्थः। तथा
च विष्णुपरब्राह्मणश्रुतिनित्यमहिमत्वलिङ्गबलाद्विष्णुसम्बन्धित्वं ज्ञाय
त इति भावः। 'यतः' इति श्रुतिरीक्षत्यधिकरणे व्याख्याता। उन्मानप
दमपि भावप्रधानं कृत्वा व्याचष्टे-उन्मानत्वमिति । उद्गतं मानं मर्यादा
यस्मादिति विग्रहः । पूर्णत्वमित्यर्थः । अत्र यद्यपि सर्वात्मना वेदाद्य
वाच्यत्वमानन्दस्य प्रतीयते, न विष्णोः, न चोद्गतमर्यादत्वम् । तथाऽपि
निमित्तेन नैमित्तिकोपलक्षणान्नासङ्गतिः । व्याख्यानान्तरं वा । स्वरू
पत्वाच्चानन्दस्य, ततो नासङ्गतिः । 'एतस्य' इति बृहदारण्यकवा
क्यम् । 'अन्यानि भूतानि' ब्रह्मादीनि मुक्तान्यपि 'एतस्य' विष्णोरे
वानन्दस्य 'मात्रां' प्रतिबिम्बांशमश्नन्तीत्यर्थः ।
प्रतिबिम्बरूपविप्लुड्कं तदानन्दस्य चाखिलाः ।
मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा ॥
इति बृहद्भाष्योक्तेः । इतीत्यनन्तरं वाक्यबोधित इति शेषः । 'सम्ब
न्धो' बिम्बप्रतिबिम्बभावः उपजीव्योपजीवकभावरूपः । अन्यज्ज्ञानमि
ति । 'जीवानां ज्ञानमन्यत्' नियामकादीशज्ञानान्नियम्यत्वेन विलक्ष
णमित्यर्थः । 'परस्य' विष्णोः । वैलक्षण्ये निमित्तमाह—नित्येति ।
परस्य ज्ञानं 'नित्यानन्दाव्ययं' नियमेनानन्दरूपमव्ययं च 'पूर्णं' अ
अन्यज्ज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च ।
नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते ॥ इति भेदः ।
अतोऽलौकिकत्वात्परमेव ब्रह्मानन्दादिकम् ॥ ३२ ॥
( २ ) सू—ॐ ॥ दर्शनात् ॥ ॐ ॥ ३३ ॥
परिमितं च ‘विधीयते’ तेन रूपेण व्यपदिश्यते शास्त्रेषु, जैवं तु न
तथेत्यर्थः । इतीति । इति श्रुतिवाक्य इत्यर्थः । ‘भेदः’ ईशज्ञानस्या-
धिक्यरूपं वैलक्षण्यम् । यद्यप्युदाहृतवाक्यैरानन्दमात्रस्यालौकिक-
त्वमवगम्यते, न सर्वगुणानाम् । तथा च ब्रह्मानन्दादिकमित्यादिपदा-
योगः । तथाऽपि सेत्वादिवाक्येष्वानन्दग्रहणात् वैलक्षण्यवाक्ये ज्ञान-
ग्रहणात् तस्य चानन्दाभेदोक्तेः प्रयोजनान्तराभावात् विचित्रोक्तिब-
लात्पूर्वत्र ज्ञानादीनामुत्तरत्रानन्दादीनां चोपलक्षणया ग्रहणावगमान्न
दोषः । अथवा—न चेत्यनेन अतः परमित्यनेन ज्ञापितपूर्वपक्षं प्रतिषिद्ध्य
‘एषः’ इत्यादिना सौत्रहेतून्व्याख्याय अतः परमिति प्रतिज्ञा व्याख्याय-
ते । अत्रात इत्यनूदितपदस्य लौकिकत्वादिति पदच्छेदेन ‘अमृतत्वस्यै-
शानः’ ( तै.आ.३-१२. ) इतिवत् भावभवित्रोरभेदविवक्षया त्वप्रत्ययस्य
स्वार्थिकत्वेन वा लौकिकत्वादिति व्याख्यानम् । तथा च ‘अतो लौ-
किकत्वात्परं’ अलौकिकमित्यर्थः । लौकिकत्वात्परं तदतिक्रान्तमिति
यथाश्रुतमेव वा । अस्मिन् पक्षे न चेत्यपि न सिद्धान्तप्रतिज्ञान्तर्गतं,
किन्तु द्वितीयपक्ष इव पूर्वपक्षप्रतिषेधकम् । आद्यपक्षे तु तदपि प्रति-
ज्ञान्तर्गतम् । न चैवमस्य द्वितीयसाङ्कर्यम् । नञ्प्रश्लेषाप्रश्लेषाभ्यां
भेदात् । ब्रह्मानन्दादिकमित्यनेन अहिकुण्डलसूत्रे प्रकृतमीशानन्दा-
दिकमिह विशेष्यत्वेन संयोज्यमित्युक्तं भवति । शिष्टं सुगमम् । तत्त्व-
प्रदीपे तु परमित्यस्य उत्तममित्यर्थमुपेत्य ‘एष सेतुः’ इत्यादौ आधार-
त्वामितत्वोपजीव्यत्वनियामकत्वानां व्यपदेशात् ‘नित्यानन्द’ इत्या-
दाराधिक्येन वैलक्षण्यव्यपदेशाच्च सर्वस्मात्परं उत्तममेव ब्रह्मानन्दा-
दिकमिति सूत्रार्थोऽभिहितः । अस्मिन् पक्षे ‘अतो’ व्यपदेशेभ्यः से-
तुत्वाद्यलौकिकधर्मवत्स्वरूपालौकिकत्वावगमात्परमिति भाष्यार्थोऽवग-
न्तव्यः ॥
( २ ) हेत्वन्तरेणानन्दादेरलौकिकत्वं समर्थयत्सूत्रमुपन्यस्य व्या-
चष्टे—दर्शनादिति ॥ मनोवाग्गोचरत्वादित्यर्थः । अत एवोत्तरत्र ता-
दृक्श्रुत्युपन्यासः । अन्येति । ब्रह्मणोऽन्येषां जीवानामानन्दादीनामित्य-
८०० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
दर्शनादेव चाम्यानन्दादीनाम् ।
( ३ ) 'अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति
ब्रह्मणस्तस्माद्ब्रह्मेत्याचक्षते तस्माद्ब्रह्मेत्याचक्षते' इ
ति कौण्डिन्यश्रुतिः ॥ ३३ ॥
( ४ ) अप्रसिद्धस्य कथमानन्द इत्यादिव्यपदेश इत्यतो वक्ति—
र्थः । अस्य अतः परमिति साध्यवाक्येनान्वयः । एवशब्दो लिङ्गस्य निर-
वकाशत्वेन प्राबल्यसूचकः । चो भिन्नक्रमः । न केवलं सेतुत्वादि-
भ्यः, किन्तु दर्शनाच्च । ब्रह्मानन्दादीनां मनसा विषयीकरणात् वा-
चा व्यवहरणात् परानन्दादीनां चातथाभूतत्वाच्चेति समुच्चये । न चा-
न्यानन्दादीनां तत्तत्साक्षिवेद्यानां च कथं अन्यमनोजन्यप्रत्यक्षविषय-
त्वमिति वाच्यम् । तेषां परिमितत्वेन योगिमनोजन्यप्रत्यक्षविषयत्वस-
म्भवात् । सूत्रभाष्ययोः मनसा वाचेत्यध्याहारेण दर्शनपदस्य मनो-
वाग्वृत्तिसामान्यपरत्वाच्च ॥
( ३ ) ननु अन्यानन्दादीनां मनोवाग्गोचरत्वादस्तु लौकिकत्वे, ताव-
ता ब्रह्मानन्दादेः कथमलौकिकत्वसिद्धिः मानाभावादित्यतस्तत्प्रमाण-
त्वेन दर्शनपदोक्तां श्रुतिमाह—अदृष्टमिति ॥ परमादन्यैस्सर्वात्मनाऽ-
स्पृष्टत्वेन च मनसाऽदृष्टमित्यर्थः । 'अव्यवहार्यं' वाचा । तत्त्वप्रदीप-
रीत्याऽहेयोपादेयं वा । 'अव्यपदेश्यं' वाचा विविक्ततया निरूपयितु-
मशक्यम् । तत्त्वप्रदीपरीत्या वाचा अव्यवहार्यं वा । इति ब्रह्मण इति ।
ब्रह्मण आनन्दादिकमेवं ज्ञेयमित्यर्थः । तस्माददृष्टत्वादिनाऽलौकिकान-
न्दादिपूर्णत्वाद्ब्रह्मेत्याचक्षते ज्ञानिनः । तस्मात्तच्छब्दमुख्यवाच्यत्वाद्ब्र-
ह्मेति शब्देन परं ब्रह्म व्यवहरन्तीत्यर्थः । श्रुतिरिति । ब्रह्मानन्दादेरलौ-
किकत्वं वक्तीत्यर्थः ॥
( ४ ) नन्वेवमानन्दादेरलौकिकत्वात्कथं श्रुतिपुराणादिष्वानन्दादि-
पदप्रयोग इत्याशङ्क्य तत्परिहाराय सूत्रमवतार्य व्याचष्टे—अप्रसिद्ध-
स्येति ॥ ब्रह्मानन्दादेरिति विपरिणामेनान्वेति । हेतुगर्भमिदम् । कथ-
मित्याक्षेपे । आनन्दशब्दात्परं इतिशब्दो योज्यः । आदिशब्देन ज्ञानमि-
त्यादिव्यवहारो गृह्यते । तथा च 'अप्रसिद्धस्य' ब्रह्मानन्दादेः 'आन-
न्दादिव्यपदेशः' ब्रह्मानन्दादिकर्मकानन्दादिशब्दव्यवहारः 'कथं'
केनोपायेन युज्यते । एवं 'कथं' किमर्थं युज्यते न युज्यते, तस्याप्र-
सिद्धत्वेन तच्छब्दानां तत्र शक्तिग्रहायोगान् तत्र तत्प्रयोगे प्रयोजना-
[ अधि - १६. सू - ३४. ] दीपिकासहितम्. ८०१
सू—ॐ ॥ बुद्ध्यर्थः पादवत् ॥ ॐ ॥ ३४ ॥
जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोऽपि पादो यथा
पादशब्देन व्यपदिश्यते ‘पादोऽस्य विश्वा भूतानि’
(ऋ. १०-९०-३.) इति तथा।
(५) अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते।
भावाच्चेत्याक्षेपाभिप्रायः । आनन्दादिव्यपदेश इत्येतत् बुद्ध्यर्थ इत्यने
नापि सम्बध्यते । बुद्ध्यर्थ इत्यस्य बुद्धयर्थमिति व्यत्ययेन दृष्टान्तभागे
ऽप्यन्वयमभिप्रेत्य पादवदित्यंशं विवृणोति—जीवेति । सम्बन्धः अंशां
शिभावः। तथा च यथा पुरुषपादस्य तदंशत्वं तथा भूतानामिति जी
वेश्वरयोरंशांशित्वसम्बन्धज्ञापनार्थमित्यर्थः। न चैवं जीवेश्वरयोरभे
दप्रत्ययापत्तिः। भेदश्रुतिपर्यालोचनया ज्ञातांशांशिभावस्यापि पुंसो भि
न्नांशत्वस्यैव प्रतीतेः। अप्रसिद्ध इति। पुरुषदेहावयवप्रसिद्धचरणवि
लक्षणः ‘त्रिपादस्यामृतं दिवि’ (ऋ.१०-९०-३.) इत्युक्तश्वेतद्वीपानन्ता
सनवैकुण्ठगतनारायणवासुदेववैकुण्ठाख्यमूर्तित्रयविलक्षणश्चेत्यर्थः ।
यद्यपि तथाऽपीत्यर्थे, न केवलं प्रसिद्धः, किन्तु अप्रसिद्धोऽपीति समुच्चये
वा अपिशब्दः। पाद इति। विश्वाख्योंश इत्यर्थः। इति श्रुतिगतेन पाद
शब्देनेत्यन्वयः। ‘व्यपदिश्यते’ व्यवह्रियते। पादवदित्यनेन लब्धं दार्ष्टा
न्तिकभागं दर्शयति—तथेति । ‘तथा व्यपदिश्यते’ तद्वदेव व्युत्पा
द्यत इत्यर्थः । एवं ‘तथा’ लौकिकविलक्षणत्वेन अप्रसिद्धस्याप्यान
न्दादेर्व्यपदेशो ‘बुद्ध्यर्थः’ आनन्दादेरनुकूलवेदनीयत्वादिशापनार्थ इ
त्यर्थः । प्रकारान्तरेण तत्प्रत्यायनोपायाभावादिति भावः। न चैवमप्य
लौकिकत्वविशिष्टानन्दप्रत्ययोपायाभाव इति वाच्यम् । अनुकूलवेद
नीयत्वादिज्ञानमात्रवतः पुरुषस्य ‘अदृष्टमव्यवहार्यम्’ (कौपिण्ड्य.)
‘अलौकिकास्तस्य शब्दाः तथाऽर्थाः’ ( ) ‘अलौकिको ह्ये
ष विष्णुः परत्वात्’ ( ) इत्यादिश्रुत्यन्तरबलेनालौकिकत्व
ज्ञानसम्भवात् । सूत्रभाष्ययोर्यत इति शेषः। अस्यातो नानन्दादिव्य
पदेशायोगो न वा प्रयोजनाभाव इत्यवतारिकालब्धसाध्येनान्वयः ॥
(५) अत्रार्थेऽनुभवसिद्धदृष्टान्तप्रतिपादिकां स्मृतिं चाह—अलौ
किकोऽपीति ॥ यद्यपि तथाऽपीत्यर्थेऽपिशब्दः । आदिपदादानन्दादिग्र
हः। ‘तच्छब्दैः’ ज्ञानमित्यादिरूपैर्लौकिकैश्शब्दैः ‘लोकस्य’ जनस्य
ज्ञापनार्थायेवेति सम्बन्धः। बोधकत्वसर्वव्यवहारहेतुत्वानुकूलवेदनी
१०१
८०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
ज्ञापनार्थाय लोकस्य यथा राजेव देवराट् ॥ इति पाद्मे॥३४॥
——
१७. अधिकरणम् ॥
( १ ) परानन्दमात्रात्वे कथं ब्रह्माद्यानन्दादीनां विशेष इति ।
यत्त्वादिज्ञापनप्रयोजनायेत्यर्थः । यथैव 'देवराट्' देवेन्द्रः प्रसिद्धराज
विलक्षणोऽपि राजेवास्ते इति यथा राजेतिशब्देन 'भण्यते' व्यवह्रिय
ते तथेत्यर्थः । यद्वा—यथा राजा तथेन्द्र इति वाक्येनेवेत्यर्थः । 'भण्य
ते' निर्दिश्यते । अत्र ईश्वरानन्दादिरूपाणामर्थानामलौकिकत्वं नाम
अप्राकृतत्वं शब्दानामलौकिकत्वं नाम वैदिकत्वमिति भावबोधकाराः।
तन्न, लौकिका अपि शब्दाः अमुष्मिन् प्रवर्तमानाः अधिकार्थान् लोक
विलक्षणानन्दादीन्वदन्तीति वाक्यशेषानुपपत्तेः । संस्कृतत्वरूपवैदि
कत्वस्य लौकिकेष्वपि सत्त्वात् प्राकृतानां चेह प्रसक्त्यभावात् । त
स्माच्छब्दतदुपजीवीतरप्रमाणगम्यत्वं लौकिकत्वमर्थस्य तदगम्यत्व
मलौकिकत्वम् । एवंविधार्थके एव शब्दस्य लौकिकत्वालौकिकत्वे इ
ति द्रष्टव्यम् । केचित्तु—शब्दस्यालौकिकत्वं लोकाप्राप्तभगवत्स्वरूप
भूतानन्तवर्णपदादिरूपत्वमित्याहुः । तन्मूलं चिन्त्यम् । पाद्मे चायमर्थ
उक्त इत्यन्वयः ॥ १६ ॥
॥ इति परमताधिकरणम् ॥
—::—
१७. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्माद्यानन्दादीनां भगवदानन्दादिप्रतिबिम्ब
त्वं पूर्वनयोक्तं समर्थ्यते । पूर्वपक्षयति—परेति ॥ आनन्दशब्दात्परं
आदिशब्दो योज्यः । मात्रात्वं प्रतिबिम्बत्वम् । कथमित्याक्षेपे । ब्रह्मा
चतुर्मुखः । मुक्तब्रह्मादिपरोऽयं शब्दः । उक्तं हि तत्त्वप्रदीपे—सृतिगा
नां सृष्ट्यादिना वैषम्यकालुष्यादेर्वैचित्र्यमुपपद्यते, न मुक्तब्रह्माद्यान
न्दादीनां विशुद्धरूपाणां तदुपपत्तिरिति । मिथ इति शेषः । 'विशे
षो' शुद्धचैतन्यरूपेण वैचित्र्यं स्यात् । यत इति शेषः । तथा च य
तो ब्रह्माद्यानन्दादीनां परमात्मानन्दादिमात्रात्वे अभ्युपगते तेषां 'मि
थः' अन्योन्यं 'विशेषः' वैचित्र्यं कथं स्यात् न स्यात्, अन्यथा बि
म्बभूतभगवदानन्दादावपि विशेषः स्यात्, तथा च भगवद्रूपेषु वि
शेषः गुणतारतम्यम् । एवं चेत् कथं तत्र भक्तिः कर्तव्या स्यात्, न क
[ अधि - १७. सू - ३५. ] दीपिकासहितम्. ८०३
(२) अत उच्यते—
सू—ॐ ॥ स्थानविशेषात्प्रकाशादिवत् ॥ ॐ ॥ ३५ ॥
यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बे
विशेषः एवमानन्दादेरपि ।
(३) ब्रह्मादिगुणवैशेष्यादानन्दादिः परस्य च ।
प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः ॥
इति वाराहे ॥ ३५ ॥
र्तव्यैव स्यात्, अतः कथं ब्रह्माद्यानन्दादीनां परानन्दादिमात्रत्वं
तत्प्रतिबिम्बत्वं स्यात्, नास्त्येवेति योजना ॥
(२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ यथेति । द-
र्पणादीत्यादिपदेन जलसूर्यकान्तादेर्ग्रहणम् । प्रसिद्धत्वाद्दर्पणग्रहणं,
न प्रकृतोपयुक्तत्वात् । अपिर्यद्यपितथापीत्यर्थे । दृष्टान्तदार्ष्टान्तिकस-
मुच्चये चः । आदित्यशब्दात्परमादिशब्दो योज्यः । तथा च यथाऽऽदि-
त्यादेः प्रतिबिम्बे सूर्यकान्ताद्युपाधिकृते सूर्यकान्तादिस्थानविशेषात्
स्थानगुणात् विशेषः अग्निजनकत्वादिवैचित्र्यं, एवं परमात्मानन्दादेः
प्रतिबिम्बे जीवानन्दादौ ब्रह्मादिस्थानगतभक्त्यादिगुणविशेषाद्विशे-
षो वैचित्र्यं युज्यत इति योजना । अस्यातो न प्रतिबिम्बे वैचित्र्यानु-
पपत्तिरित्यध्याहृतसाध्येनान्वयः । अनेन सूत्रे षष्ठ्यन्तात्सप्तम्यन्ताच्च
वतिः, आवर्तनीयश्चायं, प्रतिबिम्बोपलक्षकश्च विशेषशब्दोऽप्यावर्तनीय
इति सूचितम् ॥
(३) अत्र स्मृतिं चाह—ब्रह्मादीति ॥ परमस्य आनन्दादिः ‘म-
ध्योच्चादिविभेदतो’ मध्यमोत्तमाधमभेदेन ‘ब्रह्मादिगुणवैशेष्यात्’
ब्रह्मादिगतभक्तिज्ञानादिगुणवैचित्र्यात् ‘प्रतिबिम्बत्वमायाति’ प्रति-
फलितो भवति । ब्रह्मादिस्वरूपोपाधौ मध्योच्चादिभेदतः प्रतिबिम्बक-
रो भवतीत्यर्थः । उक्तं हि तत्त्वप्रदीपे—एवं परमात्मानन्दादेरपि ब्रह्मा-
दिस्थानगतगुणविशेषात् प्रतिबिम्बभूतानन्दादिविशेष इत्युक्त्वा प्र-
तिबिम्बत्वमायातीत्यर्थ इति । भावबोधे तु--ब्रह्मादीनामिति पदम-
ध्याहृत्य ब्रह्मादीनामानन्दादिः परस्यानन्दादेर्ब्रह्मादिगुणवैशेष्यात् म-
ध्योच्चादिविभेदतः ‘प्रतिबिम्बत्वमायाति’ प्रतिफलितो भवति तदधीन-
त्वे सति तत्सदृशो भवतीति व्याख्यातम् । तत्पक्षे तत्त्वप्रदीपविरोधः
तावत् स्फुटः, प्रतिबिम्बो भवतीत्यनुक्त्वा प्रतिफलितो भवतीत्युक्ताव