पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 842, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १५ - सू - ३०. ] दीपिकासहितम्. ७९५
यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च एवं वा दृष्टा-
न्तः। तेजोरूपत्वाद्ब्रह्मणः ॥ २९ ॥
(४) सू–ॐ ॥ पूर्ववद्वा ॥ ॐ ॥ ३० ॥
यथैक एव कालः पूर्व इति अवच्छेदको अवच्छेद्य
श्च भवति। अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः। स्थूलम-
तीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः।
(५) प्रकाशवत्कालवद्वा यथाऽङ्गे शयनादिकम्।
गुणाभिन्नानां तद्वतां घटादीनामपि दृष्टान्तयितुं शक्यत्वात्तान्विहाय
विशिष्यादित्यग्रहणे का विवक्षेत्यतः प्रवृत्तं तेजस्त्वादिति सूत्रखण्डं
व्याचष्टे—तेजोरूपत्वादिति। ब्रह्मणः आदित्यस्येत्युभाभ्यामस्य सम्ब-
न्धः। तेन सूत्रे उभयोरिति पदानुवृत्तिस्सूचिता। तथा च घटादीनां
मतेजोरूपत्वात् तान् परित्यज्य तेजोरूपत्वसाधर्म्यविवक्षयाऽऽदित्यदृ-
ष्टान्तोक्तिरिति भावः ॥
(४) दृष्टान्तान्तरेण ब्रह्मणो गुणगुणिरूपत्वं साधयत्सूत्रं पठित्वा
व्याचष्टे—पूर्ववद्वेति ॥ एक एवेति । अभिन्नोऽपीत्यर्थः । कालशब्दस्त-
दंशपरः। पूर्व इत्यनन्तरमपि कालशब्दो योज्यः । भवतीत्यनन्तरं ए-
वमित्यादि च। तथा च यथा पूर्वः काल इति प्रयोगे पूर्वेणाभिन्नोऽपि
कालः पूर्व इति ‘अवच्छेदको’ विशेषकः काल इति ‘अवच्छेद्यो’
विशेष्यश्च विशेषबलाद्भवत्येवमिति वा दृष्टान्तयोजना। ननु व्यर्थोक्ते-
रपर्यवसानात्किमर्थोऽयं दृष्टान्त इत्यत आह—अतीति । ‘अपेक्षया’
विवक्षया। ब्रह्मण इति शेषः। ‘एषः’ कालदृष्टान्तः । तर्ह्यलमनेन दृ-
ष्टान्तद्वयेन, किं भेदाभेदविषयेणाहिकुण्डलदृष्टान्तेनेत्यत आह—स्थू-
लेति। चोऽप्यर्थः। ‘प्रदर्शनार्थं’ एकस्मिन्नेव विशेषणविशेष्यभाव-
स्येति शेषः। अत एवास्य प्राथमिकत्वम् । उभयत्र सूत्रकृदभिहित-
मिति शेषः ॥
(५) सूत्रकृदुक्तार्थे स्मृतिं पठति—प्रकाशवदिति ॥ आदित्यम-
ण्डलप्रकाशवदित्यर्थः। ‘कालवत्’ साक्षिसिद्धपूर्वोत्तरादिकालावय-
ववदित्यर्थः। ‘अङ्गे’ शरीरे ‘शयनं’ अवस्थाविशेषः, न तु निद्रा म-
नोधर्मो वा। तथा च अङ्गे शयनमिति प्रयोगे अङ्गाभिन्नमपि शयनं
यथा अङ्गविशेषणकं भवति अङ्गं शयनविशेषणं भवतीत्यर्थः। आदि-
पदेनाङ्गं शेत इत्यङ्गस्य शयनक्रियाकर्तृभावो गृह्यते। अङ्गमङ्गमधिशे