पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 836, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १४. सू - २५. ] दीपिकासहितम्. ७८९
( ६ ) न,
सू—ॐ ॥ प्रकाशवच्चावैशेष्यम् ॥ ॐ ॥ २५ ॥
अग्न्यादिवत्स्थूलसूक्ष्मत्वविशेषाभावात् ।
( ७ ) 'नासौ सूक्ष्मों न स्थूलः पर एव स भवति । तस्मादा-
हुः परमः' इति माण्डव्यश्रुतेः ।
( ८ ) स्थूलसूक्ष्मविशेपोऽत्र न क्वचित्परमेश्वरे ।
( ६ ) एतच्चोद्यं प्रतिषेधति—नेति ॥ नित्येत्यादिनोक्तं नेत्यर्थः । अ-
नेन सौत्रचशब्दो न दृष्टान्तसमुच्चायकः, किन्तु शङ्काव्यावर्तक
इत्युक्तं भवति । तत्त्वप्रदीपे तु 'सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमे-
श्वरः' इति तुश्रुतेः प्रकृतिवच्च नास्य सूक्ष्मत्वं नैव चाग्न्यादिवदिति
चकारार्थ इति चकारस्यानुक्तदृष्टान्तसमुच्चायकत्वमुक्तम् । एतत्पक्षे
नेत्येतत् आगामिसूत्रेऽध्याहृतनञर्थकथनरूपमिति द्रष्टव्यम् । कुतो
नेति हेत्वाकांक्षायां सूत्रमुपन्यस्य व्याचष्टे—प्रकाशवच्चेति । अग्न्या-
दिवदित्यनेन गुणवाचकप्रकाशशब्दोऽग्न्यादिगुणिवाचकतया व्याख्या-
तः । आदिशब्देन जलपृथिव्योर्ग्रहणम् । त्वप्रत्ययः प्रत्येकं सम्बध्यते ।
विशेष्येनेन सूत्रे स्वार्थे ष्यञित्युक्तं भवति । विशेषो धर्मः । पञ्चमी-
निर्देशेन चो यत इत्यर्थेऽपीत्युक्तं भवति । ब्रह्मणिति शेषः ॥
( ७ ) ननु ब्रह्मणि स्थूलसूक्ष्मत्वयोरभावः कुतो ज्ञायते, येन व्य-
क्ताव्यक्तत्वयोरभावः स्यादित्यतः अत्रापि—आह हीत्यस्यानुवृत्तिम्
अभिप्रेत्य तदभिप्रेतां श्रुतिमुदाहरति—नासाविति ॥ 'असौ' भगवान्
केनचिद्रूपेण सूक्ष्मः केनचिच्च स्थूल इति न, किन्तु 'स पर एव' सर्व-
रूपेषु परमसूक्ष्म एव भवति न त्वनैवंभूतः । एवं असौ केनचित् रूपेण
स्थूलः केनचित्सूक्ष्म इति न, किन्तु सर्वत्र 'परः' परमस्थूल एवेत्य-
र्थः । अत एव नञ्द्वयप्रयोगः, 'महतो महीयान्' (कठ.२-२०.) इति
श्रुत्यविरोधश्च । स्थूलात् स्थूलतमत्वं हि तदर्थः ! न चैवं व्यक्तत्वाप-
त्तिः, तद्विरोधिपरमसूक्ष्मत्वेन तत्प्रतिबन्धात् । किञ्चातः ? यस्मात्सर्व-
त्र परमसूक्ष्मः स्थूलश्च तस्मादेनं विष्णुं परम इत्याहुर्ज्ञानिन इत्यर्थः ।
श्रुतेरित्यास्यावैशेष्यमित्यत्रान्वयः । सिद्धमिति शेषः ॥
( ८ ) नन्वनुत्पन्नस्य मूलरूपस्योत्पन्नानां चावताररूपाणां च क-
थं स्थूलसूक्ष्मत्वविशेषाभाव इत्यत आह—स्थूलेति ॥ व्यवस्थयेति शे-