सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 845, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 845

तिः' (छा.८-४-१.) 'य एष आनन्दः परस्य' 'एष
नित्यो महिमा ब्राह्मणस्य' (बृ.६-४-२३.) इति सेतुत्वं
ह्युच्यते । 'यतो वाचो निवर्तन्ते' (तै.२-४.) इत्यु
न्मानत्वं 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप
जीवन्ति' (बृ.६-३-३२.) इति सम्बन्धः ।
र्थे । 'उच्यते' व्यपदिश्यते । इत्युच्यत इति सर्वत्र सम्बध्यते । अ
स्यात् एभ्यो व्यपदेशेभ्योऽलौकिकत्वावगमादित्यन्वयः । अत्र प्रथम
पक्षे सेतुत्वादिधर्मवत्त्वरूपवैलक्षण्ये व्यपदेशः साक्षाद्धेतुः । द्वितीये
तु अवगमो हेतुः । व्यपदेशस्तु तत्साधक इति विवेकः । न च व्यपदे
शेभ्यः सेतुत्वादिकमेवावगम्यते नालौकिकत्वहेतुरिति वाच्यम् ।
अलौकिकत्वादित्यस्य टीकारीत्या लोकानन्दादावसम्भावितसेतुत्वा
द्विधर्मवत्त्वादित्यर्थाभ्युपगमात् । 'एषः' इति शाखान्तरवाक्ये विधृ
तिः सेतुः धारणसमर्थाश्रय इत्यर्थः । एष इति क इत्यत आह—य
इति । नन्वत्रानन्दस्य विष्णुसम्बन्धित्वं न प्रतीयते परशब्दस्यानेका
र्थत्वादित्यत उक्तं-एष इति । प्रकृतसार्वज्ञ्यपूर्णानन्दादिरित्यर्थः। तथा
च विष्णुपरब्राह्मणश्रुतिनित्यमहिमत्वलिङ्गबलाद्विष्णुसम्बन्धित्वं ज्ञाय
त इति भावः। 'यतः' इति श्रुतिरीक्षत्यधिकरणे व्याख्याता। उन्मानप
दमपि भावप्रधानं कृत्वा व्याचष्टे-उन्मानत्वमिति । उद्गतं मानं मर्यादा
यस्मादिति विग्रहः । पूर्णत्वमित्यर्थः । अत्र यद्यपि सर्वात्मना वेदाद्य
वाच्यत्वमानन्दस्य प्रतीयते, न विष्णोः, न चोद्गतमर्यादत्वम् । तथाऽपि
निमित्तेन नैमित्तिकोपलक्षणान्नासङ्गतिः । व्याख्यानान्तरं वा । स्वरू
पत्वाच्चानन्दस्य, ततो नासङ्गतिः । 'एतस्य' इति बृहदारण्यकवा
क्यम् । 'अन्यानि भूतानि' ब्रह्मादीनि मुक्तान्यपि 'एतस्य' विष्णोरे
वानन्दस्य 'मात्रां' प्रतिबिम्बांशमश्नन्तीत्यर्थः ।
प्रतिबिम्बरूपविप्लुड्कं तदानन्दस्य चाखिलाः ।
मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा ॥
इति बृहद्भाष्योक्तेः । इतीत्यनन्तरं वाक्यबोधित इति शेषः । 'सम्ब
न्धो' बिम्बप्रतिबिम्बभावः उपजीव्योपजीवकभावरूपः । अन्यज्ज्ञानमि
ति । 'जीवानां ज्ञानमन्यत्' नियामकादीशज्ञानान्नियम्यत्वेन विलक्ष
णमित्यर्थः । 'परस्य' विष्णोः । वैलक्षण्ये निमित्तमाह—नित्येति ।
परस्य ज्ञानं 'नित्यानन्दाव्ययं' नियमेनानन्दरूपमव्ययं च 'पूर्णं' अ