पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 536, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. - सू - ११. ] दीपिकासहितम्. ४८९
वदन्ति तद्विरुद्धं यो वदेत्तस्मान्न चाधमः ॥ इति
[ पाद्मे ॥ १० ॥
—::—
६. अधिकरणम् ॥
( १ ) परमाण्वारम्भवादमपाकरोति ।
( २ ) सू—ॐ ॥ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ॐ ॥ ११ ॥
इति । चशब्दौ मिथः समुच्चयार्थौ । ईश्वरमेव परं स्वतन्त्रं वदन्तीत्य
न्वयः । युक्तिषु वदन्तीत्यस्य साधयन्तीत्यर्थः—श्रुतयः–‘द्यावाभूमी
जनयन्’ (श्वे. ३ - ३.) ‘यतो वा’ (तै. ३ - १.) ‘यस्सर्वज्ञः’
(मुं.१-१-९.) इत्याद्याः । स्मृतयः—‘उत्पत्ति स्थितिसंहाराः’ ‘स्र
ष्टा पाता तथैवात्ता’ इत्याद्याः ।—युक्तयः—‘विमतं सकर्तृकं कार्यत्वात्’
‘चित्कैक्ये केनचिन्नीयते अस्वन्त्रत्वात्’ इत्याद्याः । ‘तद्विरुद्धं’ श्रुतिस्मृ
तियुक्तिविरुद्धं प्रकृतिस्वातन्त्र्यादिरूपमर्थमिति शेषः । यः पुरुषः त
स्मादन्यः‘अधमः’अयोग्येषु अधरो नास्तीत्यर्थः।नैतावता सेश्वर साङ्ख्ये
न सन्तोष्टव्यम् । यतः श्रुतयः स्मृतयश्चेति स्मृतिरीश्वरं परं वदती
त्यनेन तमपि निराह । इति पाद्म इत्यनन्तरं वचनादिति शेषः । अस्य
श्रुत्यादिविरुद्धत्वाद्विरुद्धतावगमादिति पूर्वेणान्वयः ॥ ५ ॥
इति अन्यथाऽनुमित्यधिकरणम् ॥
—::—
६. अधिकरणम् ॥
( १ ) अत्राधिकरणप्रतिपाद्यमाह–परमाण्विति ॥ परमाणुभ्यो जगदा
रम्भः जगदुत्पत्तिरिति वादिनां वैशेषिकादीनां ‘वादं’मतं ‘अपाकरोति’
निराकरोत्यस्मिन्नधिकरणे सूत्रकृदित्यर्थः । आरम्भकेतिपाठे परमाण
वः जगदारम्भकाः तत्कारणानीति वादमित्यर्थः ॥
( २ ) सूत्रे दृष्टान्तोक्त्या लब्धपरपक्षप्रतिक्षेपकानुमाने साध्यसम
र्पकेण ह्रस्वपरिमण्डलाभ्यामित्यंशेनैव परम*विरोधादीश्वरस्यानन्त
गुणत्वमयुक्तमिति पूर्वपक्षस्य सूचनात्तद्विवरणेनैव पूर्वपक्षः प्रदर्शि
तो भवतीत्याशयेन तमनुपन्यस्य सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याच
ष्टे–महदिति ॥ अत्र महत्त्वाहित्याद्युक्त्या सूत्रे महदित्यादिनिर्देशो
भावप्रधानः । ‘कारणबाहुल्यात्कारणमहत्त्वात् प्रचयविशेषाच्च मह
त् ’ इति काणादसूत्रानुसारेण तथा निर्देशः । तत्र तस्येत्यस्य प्राथि ]
६२