पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 539, कुल 1267 में से
संदर्भ में पढ़ें४९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
द्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ॥ १२ ॥
पक्ष इति शेषः । तेन विशेषार्थकतुशब्दस्यान्वयः । तेनेदं समाधानं
परपक्षेऽपीति ज्ञापितम्। यद्वा—वैदिकश्वासावीश्वरश्चेति कर्मधारयः ।
अस्य च सर्वशक्तित्वोक्तेरित्यनेनान्वयः । तुशब्दः शङ्कापरिहारद्योत
कः । तेन नायमस्मत्पक्षे दोष इति सूच्यते । अत्राद्यार्थो यस्य वेदग
म्य ईश्वरस्तत्पक्षे इति तत्त्वप्रदीपे, तेनानुमानमात्रेणेश्वरमभ्युपगच्छते
ति टीकायां चोक्तः । द्वितीयस्तु—ईश्वराचिन्त्यशक्तीति टीकोक्त्या
तस्य वेदेनैव सर्वशक्तित्वोक्तेरिति तत्त्वप्रदीपोक्त्या च ज्ञापितः । त
था चेत्थं योजना—वैदिकेश्वरस्य पक्षे तु नायं दोषः । कुतः ? यतः
सत्यामपीश्वरेच्छायां सर्वं कार्यानुत्पादादिकं ईश्वराचिन्त्यशक्तित ए
वोपपद्यते। साऽपि तस्य कुतः? 'परास्य'इत्यादि वेदेनैवेश्वरस्य सर्वविष
यकशक्तिमत्त्वोक्तेरिति न तत्र मानान्तरं मार्गणीयमित्येवकारार्थः । न
च परपक्षे सममेतत् । तस्यानुमानमात्रगम्येश्वरत्वेन वैदिकगम्येश्वर
त्वाभावादिति तुशब्दाभिप्रायः । इतश्च नायं दोषोऽस्मत्पक्ष इत्याह—
स्वत इति । नास्मत्पक्षे प्रलये व्यभिचारदोषः । तदानीमीश्वरेच्छा
रूपनिमित्तसत्त्वेऽपि कालाख्यनिमित्तान्तरस्याभावेन कार्याभावस्यान्य
थोपपत्तेः । न च प्रलये सोऽप्यस्तीति वाच्यम् । तदा सृष्टिकालाख्य
कालविशेषस्याभावात्तस्यैव सृष्टिकारणत्वात् । न चैतत्परमतेऽपि स
ममिति वाच्यम् । अस्माभिः कालं स्वत एव सृष्ट्याद्युपाधिमन्तरेणैव
विशेषाणां स्वाभाविकसृष्टिकालत्वादिधर्माणामङ्गीकृतत्वात् । परे
ण तु सृष्ट्यवच्छिन्नः कालः सृष्टिकाल इति सृष्ट्याद्युपाधित एव काले
विशेषाभ्युपगमनानौपाधिकविशेषानभ्युपगमादित्यपस्कारेण वाक्य
योजना । ननु सत्यामपीश्वरेच्छायां सृष्टिकालाभावेन कार्याभावाभ्यु
पगमे सा मोघा स्यादित्यतोऽप्याह—स्वत एवेति । एवकारो भिन्नक्र
मः । इच्छायाः इति शेषः । तथा च नैष दोषोऽस्माभिर्नित्याया अपी
श्वरेच्छायाः 'काले एव' सृष्टिकाले एव 'स्वतः' अनौपाधिकानां सृ
ष्टिविषयत्वादिविशेषाणामाविर्भावाभ्युपगमान्नैवं परेण वक्तुं शक्यम्,
तेन इच्छायामनौपाधिकविशेषानभ्युपगमादित्यर्थः। यद्वा-उभयथाऽपि
न कर्मेत्यस्य कालस्य नित्यत्वेऽनित्यत्वे चोकरीत्या न कर्मेति प्रकारे
णापि व्याख्यानसम्भवात् कालस्य निमित्तकारणत्वमीश्वरेच्छानिमित्त
कारणत्वनिरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं स्वपक्षे परिहर