पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
३८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
( १२ ) सू—ॐ ॥ वाक्यान्वयात् ॥ ॐ ॥ २० ॥
वा ‘अधिनिवेशुः’ तदाधारा वर्तन्ते । एवं व्यतिरेकं सहेतुकमुक्त्वाऽ
न्वयमाह-य इति । इत् एवमित्येव पुनरेवमुक्तप्रकारेण ‘तत्’ अक्षरं
‘विदुः’ जानन्ति ‘त इमे’ प्रकृता देवाः ‘समासते’ सम्यगासते सङ्क
ल्पमात्रसिद्धयथेष्टभोगाः सन्तः परमात्मानं प्रविशन्तीत्यर्थः । सूत्रे तु
शब्दोऽप्यर्थः । जगद्वाचित्वमिति समाकर्षादिति चानुवर्तते । शब्दा
नामिति शेषः । तथा च वैदिकशब्दानां न केवलं परमात्मवाचित्वं,
अपि तु जगद्वाचित्वमपि । न च तेन मुमुक्षोः प्रयोजनाभावः । यतः
समाकर्षेण वेदानां कर्मादिजगद्वाचित्वं तज्ज्ञानद्वाराऽन्यार्थं परमात्म
ज्ञानार्थं भवतीति जैमिनिराचार्यो मन्यते। न
This means: if it looks like वाक्यान्वया/समपेक्ष्य or वाक्यान्वयात्समपेक्ष्य?
Wait, let's inspect the slash closely:
It starts near the top line and slants down to the right: /?
No, it slants from top-right to bottom-left: \?
Wait, look at it:
Top is to the right, bottom is to the left: that's \ or /?
Wait, top is at roughly the x-height, going down-left, wait, no, top is at the left, going down-right?
Let's zoom in to 500%:
Looking at line 9:
"अतो वाक्यान्वय"
Then:
Is that an आ matra?
Yes, a vertical bar |.
Then next to it, there is an oblique stroke / sloping from bottom-left to top-right!
Wait, that oblique stroke is a virama attached to... wait, no, it's halfway up!
Wait, could it be त्?
In some fonts, त् is: horizontal tick from the stem to the left, then curving down.
Here, it's just a straight slash /.
Wait, could it simply be a slash /?
Yes, it really looks like a slash /!
Wait, but if it is a broken त्, or a slash, what is the safest transcription?
If we
३८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
स्यापि परमात्मना ॥ २० ॥
( १३ ) सू—ॐ ॥ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ ॐ ॥ २१ ॥
‘नान्यः पन्था अयनाय विद्यते’ ( तै. आ. ३-१३. )
इति प्रतिज्ञासिद्धेर्लिङ्गत्वेन कर्मादिकमुच्यते इत्या
‘अग्निमीळे’ ‘वायवायाहि’ इत्यादिवाक्यस्यापि परमात्मनाऽन्वयो
युज्यते, न केवलं पदाक्षरादेः । यदा तु तेषां अग्निवाय्वादिवाचित्वं
तदा पृथक्स्थितस्यैव वाक्यस्यापि परमात्मनाऽन्वयो युज्यत इति ।
अस्मिन् पक्षे अपृथक्पृथगिति भाष्ये पदच्छेदः । तत्त्वप्रदीपरित्या योज
नान्तरम्—एवमन्यस्यापि वाक्यत्वाङ्गीकारे यद्यपि पदानामेकैकशो
मान्वयः परमात्मना । तथाऽपि वाक्यस्यान्वयो युज्यते । पृथक्पृथ
क्स्थितस्यापि स्वं स्वमवान्तरार्थमुक्त्वा स्थितस्य परिपूर्णस्यापि अ
[अधि - ५. सू - २२.] दीपिकासहितम्. ३८३
श्मरथ्यः । यस्मादेवमनित्यफलमन्यत्तस्मान्नान्यः प
न्था इति ॥ २१ ॥
( १४ ) सू— ॐ ॥ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॥ ॐ ॥२२॥
उत्क्रमिष्यतां मुमुक्षोः कर्मादिना भाव्यं साधनसा
देवं 'अमृतां वाव सोमपा भवति यावदिन्द्रां यावन्मनुः' इत्याद्युक्त
प्रकारेण अन्यत्कर्माद्यनित्यफलं विनाशि दुःखसम्भिन्नफलं तस्मान्न
तन्मोक्षसाधनम, मोक्षस्य दुःखासम्भिन्ननित्यसुखरूपत्वात् । यत ए-
वमतोऽपरोक्षज्ञानान्नान्यः पन्थाः मोक्षायेति प्रतिज्ञासिद्धेर्लिङ्गत्वेन वे-
देन कर्मादिकमुच्यत इति एवंशब्दावृत्त्या योजना । न चानेन न प्रका-
रो दर्शित इति वाच्यम् । क्षुद्रफलार्थिनं प्रति तत्तत्फलाय तत्त-
त्कर्म विदधतोऽपि कर्मादिवाक्यस्य मुमुक्षुं प्रति कर्मणां क्षुद्रफलकत्वा-
त्तद्धानेनाक्षुद्रफलं ज्ञानमेवोपादेयमिति । वैराग्यजनकत्वेन प्रकारेण
परमात्मज्ञानार्थत्वमित्युक्तार्थ प्रकारस्य दर्शितत्वात् । अनेन—यस्मा-
देवं श्रुत्युक्तप्रकारेण अन्यत्कर्माद्येवमनित्यफलमिति सिद्धम्, तस्मान्न
तन्मोक्षसाधनम्, तस्य नित्यपुमर्थरूपत्वात् । यत एवमतो मोक्षस्य
ज्ञानान्नान्यः पन्था इत्येवं रूपेण कर्मादिवचनं मुमुक्षुं प्रति वैराग्यजन-
नद्वारा नान्यः पन्था इति प्रतिज्ञातार्थसिद्धेर्लिङ्गं हेतुरित्येवं प्रकारेण
वेदानां कर्मादिजगद्वाचित्वमित्याश्मरथ्याचार्यो मन्यते इति सूत्रार्थ
उक्तो भवति । 'नान्यः पन्थाः' (तै. आ. ३- १३ - १०) इति श्रुतिस्तु
जिज्ञासा नये व्याख्याता ॥
( १४ ) प्रकारान्तरेण कर्मादिवचनस्य भगवज्ज्ञानोपयोगं प्रदर्शय-
त्सूत्रमुपन्यस्य व्याचष्टे—उत्क्रमिष्यत इति ॥ कर्तरि षष्ठ्यन्तपदमनू-
द्य तस्य तत्त्वप्रदीपरीत्या एष्यदुत्क्रमणस्य तदिच्छादशायां अभावा-
त् लक्षणया संसारादुत्क्रमणेच्छोरित्यर्थ इत्यभिप्रायेण मुमुक्षोरित्या-
ह । ज्ञानाद्वन्धमोक्षमिच्छत इति तदर्थः । यद्वा—मुमुक्षोरिति विशे-
ष्यपदेनाध्याहृतेन संसारादुत्क्रमिष्यत इति विशेषणपदस्य तात्पर्या-
र्थमाह । सूत्रे कर्मादेरित्यध्याहाराभिप्रायेण भावादित्येतद्व्याचष्टे—
कर्मादिनेति । भाव्यमित्यनन्तरं यत इति शेषः । सौत्रैवंशब्दार्थमाह-
साधनसाधनत्वेनेति । मोक्षस्य साधनं ज्ञानं, तत्साधनत्वेनान्तःकरण-
शुद्धिद्वारा तदुत्पत्तौ उपयोगित्वेनेत्यर्थः । अस्य भाव्यमित्यनेन सम्ब-
न्धः । सूत्रे जगद्वाचित्वमित्यस्यानुषङ्गमभिप्रेत्याह—अत इति ॥ मुमु
३८४ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - ४.]
धनत्वेन अतस्तद्वक्तीत्यौडुलोमिर्मन्यते ॥ २२ ॥
(१५) सू—ॐ ॥ अवस्थितेरिति काशकृत्स्नः ॥ ॐ ॥ २३ ॥
सर्वे परमात्मन्यवस्थितमिति वक्तुं तद्वचनमिति का
शकृत्स्नः ।
(१६) कृष्णद्वैपायनमतादेकदेशमतः परे ।
क्षुणा ज्ञानसाधनत्वेन कर्मादेरप्यवश्यं सम्पाद्यत्वादित्यर्थः । तत्कर्मा
दिकं वक्ति वेदः परमात्मज्ञानार्थमिति वर्तते । अनेन सूत्रे अन्यार्थमि
त्यस्यानुवृत्तिः सूचिता । न च कर्मादेः फलश्रुतिविरोधः, तस्याः कर्म
णि रुचिजननार्थत्वात् । 'रोचनार्थं फलश्रुतिः' इत्यादेरिति भावः ।
अनेन—'उत्क्रमिष्यतो' मुमुक्षोः 'एवं' ज्ञानस्येव कर्मादेरप्यन्तःकर
णशुद्धिद्वारा मोक्षसाधनभगवज्ज्ञानसाधनत्वेन निमित्ते
[अधि - ५. सू - २३.] दीपिकासहितम्. ३८५
वदन्ति ते यथाप्रज्ञं न विरोधः कथंचन ॥
इति पाद्मे ॥ २३ ॥
—::—
( १ ) स्त्रीशब्दा अपि तस्मिन्नेवेत्याह—
व्यासमतमपेक्ष्येति । यद्वा—सप्तम्यर्थे पञ्चमी । तथा च व्यासाभिम-
तार्थैकदेशज्ञानिन इत्यर्थः । योजना तु—ये परेऽन्ये जैमिन्याद्याः य-
स्मात् 'यथाप्रज्ञं' यथामति कृष्णद्वैपायनमतैकदेशविद एव, न तद-
नभिमतार्थविदः । यन्मतानां भगवन्मतत्वमेवेति यावत् । तस्माद्व्यास-
शिष्या इति यान्वदन्ति, तेषां कथं च न परस्परं कृष्णद्वैपायनज्ञातार्थैर्वा
तात्पर्यांशे वा विरोधो नास्तीति । न चैतेषां भगवन्मतत्वे जैमिन्यादि-
ग्रहणवैय्यर्थ्यमिति वाच्यम् । शिष्यप्रसिद्धयर्थत्वात् । कथं चन न वि-
रोध इत्यनेन अनेकेषां एकाधिकारित्वं विरुद्धमिति शङ्का निरस्ता ।
'विज्ञातं तैर्जगद्धात्र तारतम्यं नृणां वदन्' इत्यनुव्याख्याने, नृणाम-
ल्पाधिकारिणामवस्थातारतम्यं वदन्निति सुधायां चोक्तरीत्या जैमिनि-
मतस्य वाक्यसमन्वयार्थत्वात् तन्मात्रयोग्यपदसमन्वयायोग्यमन्दा-
धिकारिविषयत्वम्, तत्राप्याश्मरथ्यमतस्य वैराग्यसम्पत्तिप्राक्कालीन-
स्वर्गार्थित्वावस्थाविशिष्टाधिकारिविषयत्वं, औडुलोमिमतस्य तु ज्ञा-
नसम्पत्तिप्राक्कालीनजिज्ञासुत्वावस्थाविशिष्टाधिकारिविषयत्वं, काश-
कृत्स्नमतस्य तु ज्ञानसम्पत्त्यवस्थाविशिष्टाधिकारिविषयत्वमिति मता-
नामनेकाधिकारिकत्वात् ॥ ५ ॥
इति समाकर्षाधिकरणम् ॥
--::*:-
६. अधिकरणम् ॥
( १ ) अत्राधिकरणे स्त्रीशब्दानां समन्वयः क्रियते । सिद्धान्तय-
त्सूत्रमवतारयति—स्त्रीशब्दा इति ॥ न प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यो ह-
रिः । कुतः? तत्र स्त्रीलिङ्गायोगादिति पूर्वपक्षं प्रतिक्षेप्तुं स्त्रीशब्दा अपि
तस्मिन् परमात्मन्येव वर्तन्त इति साधयति सूत्रकार इत्यर्थः । स्त्री-
शब्दा इति सामान्योक्त्या सौत्रप्रकृतिशब्दोऽन्यस्याप्युपलक्षक इति
सूचितम् । तत्तु समन्वयादिति सर्वशब्दानामित्यानुमानिकाधिकरण-
वाक्यमत्रापि सम्बध्यते । तथा च तत्तु समन्वयात् इत्यत्र समन्वेत-
व्यत्वेनोक्तानां सर्वशब्दानां मध्ये ये कामादितरेत्रेत्यत्रापरममुख्यवृत्त्या
४९
३८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
सू—ॐ ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ ॐ ॥ २४ ॥
(२) 'हन्तैतमेव पुरुषं सर्वाणि नामान्यभिवदन्ति यथा न
द्यस्स्यन्दमानाः समुद्रायणाः समुद्रमभिविशन्त्येवमे
वैतानि नामानि सर्वाणि पुरुषमभिविशन्ति' इति प्र
श्रीतत्वपरत्वमाश्रित्य तद्विषये भाष्योदाहृतवत्सश्रुतौ 'या प्राणेन सं
विशत्यदितिर्देवतामयी' (कठ.२-४-७.) इति काठके, अन्यत्र च श्रुताः
स्त्रीलिङ्गशब्दास्तेऽपि तस्मिन्नेव परममुख्यवृत्त्या वाचकत्या सन्तीति
योजना । न केवलमानन्दमयेन्द्रवरुणसूर्या यथाकाशप्राणादिपुल्लिङ्गश
ब्दाः नापि ब्रह्माक्षरज्योतिरादिनपुंसक शब्दा इत्यपिशब्दार्थः । अनेन
सङ्गतिविषयादिकं दर्शितम् । 'तस्मिन्नेव' न प्रकृत्यादावित्यवधारणा
न्वयेन न प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यो हरिः तत्र स्त्रीलिङ्गायोगात्,
किन्तु प्रकृत्यादय एवेति सयुक्तिकपूर्वपक्षोऽपि सूचितः । सर्वमिच्छा
धीनं यस्याः सा सर्वेच्छा । जडप्रकृतिव्यावर्तनायाविकृतिरिति श्रुत्य
क्षरार्थस्तु तृतीये कामाधिकरणटीकायामभिहितः । 'एषा ह्येव' (व
त्सश्रुतिः) इति श्रुतेः पाठान्तरम् । अतएव गीताभाष्ये 'एषा ह्येव प्रकृ
तिः' इति वाक्यमुदाहृतम् । 'या देवतामयी' देवतोत्तमा 'अदितिः'
तच्छब्दवाच्या भगवत्तनुः 'प्राणेन' मुख्यवायुना 'सं' सह 'विशति'
तिष्ठति 'एतद्वैतत्' यत्त्वया पृष्टमित्यर्थः । नचिकेतसं प्रति यमवा
क्यमेतत् ॥
(२) सूत्रे तदनुकूलप्रतिज्ञादृष्टान्तयोरभिधानादित्यभिप्रेतहेतोरप्रयो
जकत्वशङ्कावारणाय विपक्षे हेतूच्छित्तिरूपबाधकोपन्यासाय प्रवृत्तं प्र
तिज्ञेत्याद्यंशं क्रमनियमाभावसूचनाय प्रथमं व्याचष्टे-हन्तेति॥ हन्तेत्या
स्वादने । 'पुरुषं' पूर्णप्रवृत्तिनिमित्तकं 'इमं' प्रकृतमेव परमात्मानं
'सर्वाणि नामानि' सर्वशब्दाः 'अभि' परममुख्यतो वदन्तीति प्रति
ज्ञातार्थः । अत्र दृष्टान्तमाह—यथेति । 'स्यन्दमानाः' स्रवन्त्यः समु
द्रः अयनं यासां तास्तथोक्ताः 'समुद्रमभिविशन्ति' तदभिमुख्येन
गतास्तं प्रविशन्तीत्यर्थः । उक्तप्रकारं दाष्टान्तिकेऽप्यतिदिशति—एव
मेवेति । 'एतानि' प्रमितानि सर्वाणि नामानि 'एवं' नदीवत्स्यन्द
मानानि मध्ये स्थिरचरव्यवहारान् घटयन्त्यपि पुरुषैकायतनस्वप्रवृत्ति
निमित्तधर्माण्यन्ततस्तमेव 'पुरुषं' परमात्मानं 'अभि' सर्वतोऽभिमु
खतो विशन्ति वाचकत्येत्यर्थः । इतीति । एवंरूपयोः प्रतिज्ञादृष्टा
भिध्येति ॥ विशिष्यप्रमाणा-"
In L31: "व्ययुक्तिसमुच्चये चशब्दः । सूत्रस्याभिध्यायाः प्रकृतित्वोपदेशात्पर-"
मेश्वरत्वोपदेशाच्चेति वृत्तिमाश्रित्यैपदेशपदोक्तप्रमाणमाह—मायामि-
Wait, L32: "वृत्तिमाश्रित्यैपदेशपदोक्तप्रमाणमाह—" or "वृत्तिमाश्रित्योपदेशपदोक्तप्रमाणमाह—"?
Look at L32: "वृत्तिमाश्रित्योपदेशपदोक्तप्रमाणमाह—"
Yes, 'त्यो' (त + य + ओ-matra): "माश्रित्योपदेशपदोक्तप्रमाणमाह—मायामि-"
Everything is extremely clear and verified against the image.
Formatting:
Prefix each line with , , etc.
Maintain exact Devanagari Unicode.[ अधि - ६. सू - २५. ] दीपिकासहितम्. ३८७
तिज्ञादृष्टान्तानुपरोधात्प्रकृतिशब्दवाच्योऽपि स एव ॥२४॥
( ३ ) सू—ॐ ॥ अभिध्योपदेशाच्च ॥ ॐ ॥ २५ ॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । (श्वे.४-१०.)
[L
३८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
इति वचनात्तदभिध्यैव प्रकृतिशब्देनोच्यते ।
( ४ ) ‘ सोऽभिध्या स जूतिः स प्रज्ञा स आनन्दः’
इति श्रुतेरभिध्या च स्वरूपमेव ।
ति । वचनादित्युभयान्वयि । तथा च ‘महेश्वरम्’ इति श्रुतिवचना
त् ‘कथ्यते’ इति स्मृतिवचनाच्चेत्यर्थः । सूत्रे प्रकृतिश्चेत्यनुवृत्तिं अभि
ध्येति बुद्ध्या विवेकं चशब्दस्यावधारणार्थत्वं चाश्रित्य आहत्य लब्धां
प्रतिज्ञां दर्शयति—तदभिध्यैवेति । तस्येश्वरस्याभिध्यैव इच्छैव प्रकृ
तिपदेनोच्यते नान्यत् । एवं या प्रकृतिपदेनात्रोच्यते सा तदभिध्यैव
नान्येत्यर्थः । ‘प्रकृतिं’ प्रकृतिपदवाच्यम् । तुशब्दौ मायामयिनोरुद्दे
श्यत्वरूपविशेषद्योतकौ । तेन या प्रकृतिः सा माया मिथ्येति परव्याख्या
निरस्ता । ननु श्रुतौ मायाया एव प्रकृतिशब्दवाच्यत्वं ज्ञायते नेच्छा
या इत्यतो—महामायेति पूर्वार्धोदाहरणम् । चशब्दस्समुच्चये । उच्य
त इत्यनेनोपचारनिवृत्तिः । श्रुतिस्मृत्योरनुशासनरूपत्वात् । अत
एव तयोर्विद्यात्कथ्यते इतिचोक्तिः । हे अनन्त तव इच्छैव महामाये
त्यादिशब्दैरुच्यते इत्यर्थः । नियतिः प्रकृतिरित्यत्रापि इतिशब्दोऽन्वेत
व्यः । अत एवानैकवारोक्तिः ॥
( ४ ) ननु इच्छायाः प्रकृतिशब्दवाच्यत्वोक्तावपि कथं परमात्म
नस्तत्प्राप्तिरित्यत आह-स इति ॥ ‘सः’ परमात्मा ‘जूतिः’ प्रेरणा ‘सर्व
प्रेरकरूपत्वाज्जूरित्यभिधीयते’ इत्यैतरेयभाष्योक्तेः । चशब्दो हेत्व
र्थे । तुशब्दार्थो वा । तथा च इतिश्रुतेरभिध्या ब्रह्मस्वरूपमेव न भिन्ने
ति ज्ञायते । अतो नोक्तशङ्काऽवकाश इत्यध्याहारेण वाक्ययोजना । अ
भिध्या च स्वरूपमेवेत्यनेनाभिध्यायाः स्वरूपत्वोपदेशादित्यपि सूत्रवृ
त्तिर्दर्शिता । न च श्रुतौ ब्रह्मण एवाभिध्यादिरूपत्वमुच्यते, नाभिध्य
यास्तत्स्वरूपत्वमिति वाच्यम् । समानवित्तिवेद्यतया श्रुतौ व्यतिरेके
णान्वयेन वा तस्याप्युक्तप्रायत्वात् । अनेन—अभिध्यायाः प्रकृतित्वो
पदेशात्सा प्रकृतिस्तच्छब्दवाच्या । एवं तस्याः पारमेश्वरत्वोपदेशा
त्सा तस्यैव । एवं ब्रह्मणोऽभिध्यात्वोपदेशात्सिद्धादभिध्याया ब्रह्मत्वो
पदेशादभिध्या त्तु ब्रह्मैव । तथा च न केवलं पूर्वोक्तसामान्यहेतोः,
किन्तु प्रकृतिशब्दवाच्येच्छात्मकत्वोक्तेश्च प्रकृतिः ब्रह्मैवेति सूत्रार्थ उ
क्तो भवति ॥
[अधि - ६. सू - २६. ] दीपिकासहितम्. ३८९
( ५ ) ध्यायति ध्यानरूपोऽसौ सुखी सुखमतीव च ।
परमैश्वर्ययोगेन विरुद्धार्थतयेष्यते ॥
इति ब्रह्माण्डे ॥ २५ ॥
( ६ ) सू—ॐ ॥ साक्षाच्चोभयाम्नानात् ॥ ॐ ॥ २६ ॥
‘ एष ह्येष पुरुष एष प्रकृतिरेष आत्मैष ब्रह्मैष लोक
एष आलोको योऽसौ हरिरनादिरनन्तोऽन्तः प
( ५ ) ननु नेच्छा भगवत्स्वरूपं, मायिनमितीनिप्रत्ययेन तवेति ष
ष्ठ्या च भेदसाधक सम्बन्धोक्तेरित्यत आह-ध्यायतीति ॥ चः समुच्चये
ऽवधारणे च । अतीवेति निपातसमुदायः । तथा च ध्यानरूपोऽपि भग
वान् ध्यायतीति ध्यानकर्तृतयोच्यते । एवं ‘असौ’ हरिः ‘अतीव’
अत्यन्तं सुखरूप एव ‘स आनन्दः’ इति श्रुतौ सुखस्वरूपत्वेनोक्त
एव सुखीत्युच्यते श्रुतिस्मृतिष्वित्यर्थः । अनेन भेदाभेदः कदाचि
द्दुःखस्वरूपत्वं वा निरस्तम् । चशब्देन सोऽभिधीयेत मायारूपत्वेनो
क्तो मायिनमित्यादौ मायीत्युच्यते इति प्रकृतं समुच्चिनोति । न चैतद्
त्र विरुद्धं, ऐश्वर्ययोगादित्याह—परमेति । योगः उपायः । ‘विरुद्धार्थ
तया’ विरुद्धधर्मोपेततया एकस्मिन् ब्रह्मणि विरुद्धत्वेन प्रतीतसुख
त्वसुखित्वाद्यर्थप्रत्यायकशब्दवाच्यतयेति यावत् । ‘इष्यते’ प्रामाणि
कैरित्यर्थः । ब्रह्माण्डपुराणे इत्यस्य उक्तत्वान्न विरोध इत्यध्याहृतवा
क्येनान्वयः ॥
( ६ ) ननूक्तप्रमाणैः सामान्येनेच्छाद्वारा वा प्रकृतिशब्दवाच्यत्व
प्राप्तावपि न साक्षादीश्वरस्य तद्वाच्यत्वप्राप्तिरित्याशङ्कां विशेषप्रमा
णोक्त्या परिहरत्सूत्रमुपन्यस्य व्याचष्टे—साक्षादिति ॥ साधारण्येन
विना इच्छाद्वारमन्तरेण चेत्यर्थः । एवशब्देन सौत्रचशब्दोऽवधारणा
र्थतया व्याख्यातः । ‘प्रकृतिपुरुषत्वाम्नानात्’ स्त्रीपुल्लिङ्गशब्दवाच्य
त्वाभिधानात् । तस्येति विपरिणामेनान्वयः । अनेनोभयशब्दो व्याकृ
तः । यद्यपि प्रकृतित्वाम्नानादित्येव वाच्यम्, न तूभयेति । पुरुषत्वे
विवादाभावात् । तथाऽपि आद्यसूत्रे चशब्देन तस्य समुच्चितत्वादेव
मुक्तम् । आम्नानादित्यस्य प्रकृतिः स एवेति प्रधानसाध्येनान्वयः ।
‘एषः’ परमात्मा सततं रमणात् स्त्रीशब्दवाच्यः । यथोक्तं तत्त्वप्रदी
पे सततं रमणात् स्त्रीति । ‘एवमेव पुरुषः ’ आत्मा तच्छब्दवाच्यः ।
‘एष प्रकृतिः’ तच्छब्दवाच्यः । सूत्रे साक्षादित्युक्तासाधारण्यज्ञापना
३९० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
रमः पराद्विश्वरूपः' इति पैङ्गिश्रुतौ साक्षादेव प्रकृति
पुरुषत्वाम्नानात् ॥ २६ ॥
( ७ ) सू—ॐ ॥ आत्मकृतेः परिणामात् ॥ ॐ ॥ २७ ॥
यैव प्रकृतिरिति विशिष्योदाहरणम् । 'एष ब्रह्म' स्त्रीपुंदोषराहित्या
त्तदुपलक्षिताशेषनपुंसकशब्दवाच्यः । श्रुतावात्मा पुरुष इति स्त्रीप्रकृ
तिरिति शब्दद्वयोपादानमशेषस्त्रीपुल्लिङ्गशब्दसङ्ग्रहार्थः । हरेः विरुद्धा
नेकशब्दवाच्यत्वे निमित्तमाह—लोक इत्यादिना । 'लोकः' आधा
रः । प्रकृत्यादेरिति शेषः । 'आलोकः' प्रकाशरूपः । एष क इत्यपेक्षा
यां आह—योऽसौ हरिरिति । 'आदिः' कारणं जगज्जन्मादेरिति शे
षः । ख्यादौ विश्वस्मिन् रूपाण्यस्य ख्यादिविश्वस्य रूपमिव रूपम
स्येति वा विश्वरूपः । अनेन हरेस्तत्तच्छब्दवाच्यत्वे सामान्यतस्तत्तदा
धारत्वतत्तत्स्थितवत्तत्तत्प्रकाशकत्वतत्तत्कारणत्वतत्तदाकारत्वत्त
न्नियामकत्वादीनि निमित्तानि, रूपबाहुल्याच्च विरुद्धानेकशब्दवाच्य
त्वोपपत्तिरित्युक्तं भवति । तर्ह्याधारभूतवस्तूत्पत्तिनाशाभ्यां अस्याप्यु
त्पत्तिनाशौ स्यातामित्यत आह—अनादिरित्यादि । अनाद्यनन्तपदा
भ्यामुत्पत्तिनाशराहित्यमुच्यते । अत्र हेतुः—परात् । प्रकृत्यादेः परम्
इति । 'अन्तः' अन्तकः । यद्वा—प्रकृत्यादेरन्तस्स्थित इत्यर्थः । यद्वा-
स्त्रीपुरुषपदयोः प्रकृत्यात्मपदयोर्लोकालोकपदयोराद्यनादिपदयोरन
न्तान्तपदयोस्त्रीपुरुषजडचेतनज्ञानाज्ञानरूपत्वोत्पत्त्यनुत्पत्ति नाशा
नाशरूपविरुद्धार्थयोरपि हरिरेव वाच्यः । अत एव ब्रह्मेति श्रुत्यर्थः ।
सूत्रार्थस्तु—साक्षाच्चाद्यसूत्रोक्तं सामान्यरूपं द्वितीयसूत्रोक्तं प्रकृति
शब्दवाच्येच्छात्मकत्वरूपं वा द्वारमनपेक्ष्य साक्षादेवोभयस्य प्रकृत्या
दिस्त्रीशब्दवाच्यत्वस्य पुरुषादिपुल्लिङ्गवाच्यत्वस्य चाम्नानात् 'एषः'
इति श्रुतावुक्तत्वात्प्रकृतिश्च स एवेति नेश्वरस्य प्रकृत्यादिशब्दवाच्य
त्वाभावः शङ्क्य इति ॥
( ७ ) नन्वेवं स्त्रीशब्दवाच्यत्वोपलक्षकप्रकृतिशब्दवाच्यत्वस्य ह
रेः श्रुत्युक्तत्वेऽपि कथं तद्युज्यते, तत्र तस्य प्रवृत्तौ निमित्ताभावात् ।
न हि सङ्केतमात्रं सिद्धान्तिभिरभ्युपगत इत्याशङ्कां परिहरत्सूत्रं पठि
त्वा तत्फलितं तावदाह—आत्मेति ॥ प्रकर्षेण करोतीति प्रकृतिरिति
'योगात्' महायोगान्निरतिशयप्रवृत्तिनिमित्तवत्त्वाच्च प्रकृतिस्स विष्णु
[ अधि - ६. सू - २७. ] दीपिकासहितम्. ३९१
प्रकर्षेण करोतीति प्रकृतिरिति योगाच्च ।
(८) प्रकृतावनुप्रविश्य तां परिणाम्य तत्परिणामनियामक
तया तत्र स्थित्वा आत्मनो बहुधा करणात् ।
(९) 'अथ हैष आत्मा प्रकृतिमनुप्रविश्यात्मानं बहुधा च
कार तस्मात्प्रकृतिस्तस्मात्प्रकृतिरित्याचक्षते' इति
भाल्लवेयश्रुतिः ।
रित्यर्थः । न केवलं श्रुतावाम्नानाद्बहुलप्रयोगाख्यरूडिमात्रादिति चश
ब्दार्थः । यद्वा—योगस्यैव भावान्न विष्णोः प्रकृतिशब्दवाच्यत्वे निमि
त्ताभाव इत्यवधारणार्थश्चकारः । यद्यपि प्रकृष्टा कृतिर्यस्येत्येव विग्रहः
प्रदर्शनीयो न प्रकर्षेण करोतीति । तथात्वे प्रकर्तेति वा प्रकृदिति वा
प्रकारुरिति वा वृत्तिस्स्यात् । तथा करणविषय एव प्रकृष्टत्वान्वयः
स्यात्, न तु कृतौ । अत एव टीकायां प्रकृष्टा कृतिः यस्येत्येव विग्रहः
प्रदर्शितः । तथाऽपि तस्यैव फलितोक्तिरित्यदोषः । अत्र प्रकर्षेण क
रोतीति विग्रहे प्रकृतिरिति वृत्तिवाक्यं प्रदर्शितम्, न तूद्देश्यार्पकं त
त, तस्य प्रकृतिश्चेत्यनेनैव प्राप्तेः ॥
(८) एवं फलितार्थमभिधाय कथं प्रकृष्टेश्वरस्य कृतिरित्यतः सू
त्रं व्याचष्टे—प्रकृताविति ॥ अनेन परिणामकत्वोपयुक्तं तत्पूर्वभावि
व्यापारमाह । अनुप्रविश्येति । 'अनु' अनुकूलतया 'तां' प्रकृतिं परिणा
म्येति । अनेन सूत्रे परिणामादिति ल्यब्लोपनिमित्ता पञ्चमी । परिणा
म्याऽप्रकृतेरित्यन्वयः। ल्यपा च परिणामस्यात्मककरणात्पूर्वभावित्वोच्य
ते इत्युक्तं भवति । तथाचेत्थं योजना—प्रकृतेस्स्वतः परिणामासाम
र्थ्यात्तत्परिणामानुकूलतया प्रकृतौ प्रविश्य तां 'परिणाम्य' स्वय
मविकार एव तस्यां महदादिरूपेण विकारं विधाय अथ तत्परिणाम
कत्वेन प्रकृतिपरिणाममहदादिप्रेरकत्वेन 'तत्र' तत्परिणामेषु महदा
दिषु 'स्थित्वा' स्थित्यर्थमिति यावत् । 'आत्मनः' स्वस्य रूपेण 'ब
हुधाकरणात्' व्यक्तीकरणात् भवतीश्वरकृतिः प्रकृष्टा । अतः प्रकर्षे
ण करोतीति योगाच्च प्रकृतिर्विष्णुरिति । अनेन प्रधानस्य स्वस्य च
बहुधाकरणमेव प्रकृष्टकरणमिति प्रकृतिशब्दनिमित्तं प्रदर्शितं भवति ॥
(९) अनाश्वासपरिहाराय स्वोक्तसूत्रार्थे श्रुतिस्मृती चाह—अ
थेति ॥ प्रमेयान्तरारम्भार्थोऽथशब्दः । हिशब्दः प्रमाणप्रसिद्धौ । तथा
चैष परमात्मा यस्मात्प्रकृतेः स्वतःपरिणामासामर्थ्यात्परिणामानुकू
३९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
(१०) अविकारोऽपि परमः प्रकृतिं तु विकारिणीम् ।
अनुप्रविश्य गोविन्दः प्रकृतिश्चाभिधीयते ॥
इति नारदीये ।
(११) न चान्यत्कल्प्यम्, अप्रामाणिकत्वात् ॥ २७ ॥
(१२) सू-ॐ ॥ योनिश्च हिं गीयते ॥ ॐ ॥ २८ ॥
लतया प्रकृतिं प्रविश्य तां परिणाम्य तत्परिणामप्रेरकत्वेन तत्र स्थि-
त्यर्थमात्मानं रूपेण बहुधा चकार । तस्माद्बहुधाकरणात् ‘प्रकृतिः’ त-
च्छब्दवाच्यः । ‘तस्मात्’ प्रकृतिवाच्यत्वादेनं प्रकृतिरित्याचक्षते ज्ञा-
निनः इति श्रुत्यर्थः । श्रुतिरित्त्यनन्तरमुक्तार्थे प्रमाणमिति शेषः ॥
(१०) स्मृतौ यद्यपितथापीत्यर्थेऽपिः । तुशब्दो विशेषार्थः । ‘अ-
नु’ अनुकूलतया आत्मानं बहुधा चकारंति शेषः । तथा च यद्यपि
गोविन्दः ‘परमोऽविकारः’ अत्यन्तं निर्विकारो, मायायाः प्रकृतेः पर इ-
ति वा । तथाऽपि ‘चां’ यतः विकारानुकूलतयोपचयाख्यविकारयुक्तां
‘प्रकृतिं’ प्रधानं प्रविश्य तां परिणाम्य तत्परिणाममहदादिप्रेरकत्वेन
तत्र स्थित्यर्थमात्मानमपि बहुधा चकार । अतः प्रकृतिस्तच्छब्दवा-
च्यः । यत एवमतोऽयं कविभिः प्रकृतिरित्त्यभिधीयते इति स्मृत्यर्थः ।
न केवलं पुरुष इति वा चशब्दार्थः । गोविन्द इत्यनेनाविकारत्वे ‘नि-
र्विकारोऽक्षरश्शुद्धः’ ( ) इति वेदप्रतिपाद्यत्वाख्यहेतुरुच्यते ।
नारदीय इत्यनन्तरं उक्तमिति शेषः । स्पष्टस्सूत्रार्थः ॥
(११) अपव्याख्यां दूषयति-न चेति ॥ चस्त्वर्थः । ‘अन्यत्’
ब्रह्मणो जगदुपादानत्वं न कल्प्यम्, प्रकृतिश्चेत्यादिसूत्रार्थतयेति शे-
षः । कुत इत्यत आह-अप्रामाणिकत्वादिति । तस्येति शेषः । नञ्
स्तद्विरुद्धतदभावाथैत्वं, प्रमाणेन सिद्धं तद्विरुद्धं च प्रामाणिकम्,
तद्भिन्नमप्रामाणिकं, तस्य भावस्तत्त्वं तस्मात् । तथा च तस्य ब्रह्म-
णो जगदुपादानत्वस्य प्रमाणशून्यत्वात्, ‘अविकारः’ इत्यादिप्रमाण-
विरुद्धत्वात् समन्वयप्रतिपादकप्रमाणाध्यायासङ्गतत्वाच्चेत्यर्थः ॥
(१२) ननु तथाऽपि न प्रकृतिशब्दवाच्यत्वं परमात्मनो युज्यते, त-
च्छब्दस्य स्त्रीलिङ्गत्वात्परमात्मनश्च पुंस्त्वेन तत्र स्त्रीलिङ्गाभावात् । न
केवलं लिङ्गानुपपत्तिमात्रम्, किन्तु श्रौतप्रकृतिशब्दोपलक्षितस्त्रीशब्द-
मात्रे प्रकृत्यर्थानुपपत्तिरपि, तच्छब्दप्रवृत्तौ निमित्ताभावादिति शङ्कां
परिहरत्सूत्रमुपन्यस्य व्याचष्टे-योनिश्चेति ॥ ‘अव्यवधानेन’ ह्यथा
अव्यवधानेनोत्पत्तिद्वारत्वं च प्रकृतित्वम् । तथास्यै
व हि गीयते ‘यद्भूतयोनिं परिपश्यन्ति धीराः' (मु.
१-१-६.) इति ।
(१३) व्यवधानेन सूतिस्तु पुंस्त्वं विद्वद्भिरुच्यते ।
सूतिरव्यवधानेन प्रकृतित्वमिति स्थितिः ॥
दिव्यवधानमन्तरेणापत्योत्पत्तिद्वारत्वं तद्वत्त्वम् । स्वदेहादेवापत्योत्पा
दकत्वमिति यावत् । यद्यपि 'योनिर्भार्या तथा स्थानं योनिः कारण
मेव च' इति गीतातत्पर्यनिर्णयोदाहृताभिधानाद्योनिशब्दो गुह्यस्था
नेऽव्यवधानेन अपत्योत्पादनद्वारे रूढः । यथा 'योनेश्शरीरम्' इत्य
त्र तद्वत्यां भार्यायां निरूढलाक्षणिकः । यथा 'मम योनिर्महद्ब्रह्म' इ
त्यत्र । तथा च नैवं निर्वक्तुं शक्यम् । तथाऽप्युदाहृतस्थलेऽप्युक्तनि
रुक्तिसम्भवात्, प्रकृतानुगुण्याय श्रुतिसूत्रप्रयोगानुसारण च महा
योगविद्वद्रूढिभ्यां ब्रह्मणि प्रवृत्तिं दर्शयितुमेवं निरुक्तम् । मार्गप्रतीहा
रपर्यायद्वारशब्दप्रयोगे विष्णोरपत्यनिर्गमनावधित्वरूपापादनत्वमेव
न तूपादानत्वमिति सूचितम् । प्रकृतित्वं प्रकृत्यादिस्त्रीशब्दप्रवृत्तिनि
मित्तम् । न केवलमात्मकृतेरित्यत्रोक्तं प्रकृष्टकरणमेव प्रकृतिशब्दप्रवृ
त्तिनिमित्तम्, किन्तु निरुक्तयोनित्वमपीति समुच्चये चशब्दः । ततः
किमित्यत आह—तच्चेति । चस्त्वर्थः । यद्वा—चशब्दः प्रमाणान्तरो
क्तस्त्रीरूपत्वाख्यनिमित्तसमुच्चायकः । 'तस्य' परमात्मन इत्यनुवृत्त
तच्छब्दार्थोक्तिः । न त्वन्यस्येत्येवार्थः । 'हि' यतः 'गीयते' प्रतिपा
द्यते मुख्यतः अतः प्रकृतिश्च स एवेत्यन्वयः । 'भूतयोनिं' प्रलये स्वो
दरे निवेशितस्य ब्रह्मादिप्राणिजातस्य 'योनिं' स्वदेहादेवोत्पादकं
सूक्ष्मदेहकर्तारं यं 'धीराः' ज्ञानिनः परिपश्यन्ति, तददृश्यत्वादिगुण
कमिति मुण्डकश्रुत्यर्थः। भूतानामाकाशादीनां ब्रह्मादीनां वा केषां चि
त् स्त्रीव्यवधानेन विनोत्पादनाद्भूतयोनिरित्यर्थ इति प्राञ्चः ॥
(१३) अव्यवधानेनोत्पत्तिद्वारत्वं प्रकृत्यादिस्त्रीलिङ्गशब्दप्रयोगे नि
मित्तमिति कुतः ? कुतश्च तन्निमित्तं स्त्रीलिङ्गशब्दवाच्यत्वं विष्णोर्ज्ञाय
त इत्याशङ्कां परिहर्तुं सूत्रार्थे स्मृतिं चाह—व्यवधानेनेति ॥ 'सूतिः'
सूतिकर्तृत्वम् । तुशब्दः प्रकृतित्वं त्वित्यन्वेति । तथा च ऋचादिव्य
वधानेन अपत्योत्पादकत्वं 'पुंस्त्वं' पुल्लिङ्गशब्दप्रवृत्तिनिमित्तं 'प्रकृ
५०
३९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
उभयात्मकसूतित्वाद्वासुदेवः परः पुमान् ।
प्रकृतिः पुरुषश्चेति शब्दैरेकोऽभिधीयते ॥
तित्वं' तच्छब्दोपलक्षिताशेषस्त्रीलिङ्गशब्दप्रवृत्तिनिमित्तं तु अव्य-
वधानेन सूतिकर्तृत्वमिति प्रवृत्तिनिमित्तस्थितिर्विद्वद्भिरुच्यत इत्यर्थः ।
‘स्त्रीत्वमाहुर्मनीषिणः’ इति पाठे वाक्यभेदेनान्वयः । उभयत्रेतिश-
ब्दाध्याहारश्च कर्तव्यः । ततः किं प्रकृत इत्यत आह—उभयेति । उ-
भयविधप्रसूतिकर्तृत्वादित्यर्थः । शब्दसमुच्चये चः इति चावर्तते । त-
त्रैक आद्यर्थे । ननु सूतिकर्तृत्वमेवासिद्धम् । सुतरामुभयात्मकसूति-
त्वमित्यतो—वासुदेव इत्याह । अनेन—
वानात्सूतेर्देवनाद्वासुदेवः
वासात् द्युतेः छादनात् क्रीडया च ।
बलात्सुत्वाद्धातृतो वर्तनाच्च
तं वासुदेवं प्रवदन्ति वेदाः ॥
इति निरुक्तिसूचनात्सूतिकर्तृत्वसिद्धिः । ननु कथमेक एव हरिः प्रकृ-
तिः पुरुष इत्यादिभिरनेकैर्विरुद्धशब्दैरभिधीयते, लोके क्वाप्यदर्शना-
दित्यत आह—पर इति । ‘परो’ लोकविलक्षणः पुमान् यत इति । य-
द्वा—एक एवाभिधीयते इत्युक्ते हरेर्मुख्यतः सर्वशब्दवाच्यत्वे परः
पुमानिति हेतुरुच्यते, यतः पूर्णपुरुषः। इति ब्रह्माण्ड इत्यस्य तत्रत्यस्या-
नुषङ्गेणोक्तमित्यध्याहृतेनान्वयः। न च भगवतः स्त्रीरूपत्वादपि तच्छ-
ब्दवाच्यत्वमित्युक्तम्, ‘नैनं वाचा स्त्रियं ब्रुवन्’ ( ) इति
निषेधविरोधादिति वाच्यम् । तस्य केवलस्य लौकिकस्य वा स्त्रीत्व-
स्य ज्ञेयतानिषेधपरत्वात् । अन्यथा ‘नैनमस्त्रीपुमान्’ इत्युत्तरवाक्यवि-
रोधात् । अनेन—‘हि’ यतो ‘यद्भूतयोनिम्’ (मुं. १-१-६.) इति श्रुतौ
स्मृतौ च स विष्णुर्योनिः स्वदेहादेवोत्पादको गीयते । योनिशब्दस्या-
व्यवधानेनोत्पत्तिस्थानार्थत्वायोनित्वस्यैव स्त्रीशब्दप्रवृत्तिनिमित्तत्वा-
त् । यतश्च प्रमाणान्तरे स्त्रीरूपश्च ‘गीयते’ प्रतिपाद्यतेऽतः। न केवलं
प्रकृष्टकरणनिमित्तात्प्रकृतिप्रातिपदिकवाच्य एव सः, किन्तु अव्यव-
धानेनोत्पत्तिद्वारत्वरूपयोनित्वनिमित्तात् स्त्रीरूपत्वाच्च स्त्रीलिङ्गशब्दा-
भिधेयोऽपीति न तस्मिन् स्त्रीलिङ्गप्रयोगायोगः। न वा प्रकृतिशब्दो-
पलक्षितत्रयादिशब्दान्तरे प्रकृत्यर्थानुपपत्तिरिति सूत्रार्थ उक्तो
[ अधि - ७. सू - २९. ] दीपिकासहितम्. ३९५
इति ब्रह्माण्डे ॥ २८ ॥
—:*:—
७. अधिकरणम् ॥
( १ ) सू—ॐ ॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ ॐ ॥ २९ ॥
एतेन सर्वे शून्यादिशब्दा अपि व्याख्याताः । 'एष ह्येव
शून्य एषह्येव तुच्छ एष ह्येवाभाव एष ह्येवाव्यक्तोऽदृ
श्योऽचिन्त्यो निर्गुणश्च' इति महोपनिषदि ।
भवति ॥ ६ ॥
इति प्रकृत्यधिकरणम् ॥
—※—
७. अधिकरणम् ॥
( १ ) अत्राधिकरणे निषेधनिषेधार्थाः शब्दाः समन्वीयन्ते । यद्य
पि भाष्ये विषयवाक्यं नोदाहृतम् । तथाऽपि असदादिशब्दघटितवा
क्यान्तरमुदाहर्तव्यमिति चन्द्रिकोक्तेः, टीकारीत्या 'असदेव' इत्या
दिवाक्यं विषयः । अस्य सिद्धान्ते सर्वथाऽन्यपरत्वाभावेऽपि शङ्कावि
षयत्वमात्रेणोदाहरणं युक्तम् । अत्रापि तत्तु समन्वयादिति सर्वशब्दा
नां परमात्मनि समन्वय उक्तः । तन्न युज्यते । कुतः? यतस्तदसदादि
शब्दवाच्यत्वं न युज्यते इत्यत आह, इत्याद्याधिकरणवाक्यसंयोजनेन
सङ्गतिविषयपूर्वपक्षान् शिष्याः ज्ञास्यन्तीत्यभिप्रेत्य सिद्धान्तयत्सूत्र
मुपन्यस्य व्याचष्टे—एतेनेति ॥ सर्वसमन्वयस्यात्र अकरणात्सर्वपदं
सङ्कुद्वृत्तितया व्याख्याति—सर्व इति । पूर्वस्मादत्र चोऽनुवर्तनीय इ
त्याशयेनापीति प्रयुक्तवान् । न केवलं पूर्वसमन्विताः, किन्त्ववशिष्टाः
शून्यादिशब्दा अपीत्यर्थः । नन्वसदादिशब्दानां निषेधमुखवेद्यवस्तु
वाचित्वात्कथं परमात्मनस्तद्वाच्यत्वमित्यत आह—एष ह्येवेति । अत्र
'एष ह्येवासन्' इत्यप्याद्यावुपस्कार्यम् । अदृश्य इति च इत्यस्यार्थः ।
तुदित्यपि ग्राह्यम् । 'अचिन्त्यः' अभाव्यो 'निर्गुणः' उपादानशून्यो
ऽप्राकृतो विनाशशून्यश्चेत्यभावशब्दार्थकथनम् । हिशब्दः प्रसिद्धौ ।
चस्त्वर्थो यत इत्यर्थे । तथा च 'हि' यतः 'एषः' भगवान् दुर्जनैर
व्यक्तोऽदृश्यश्च तुच्चाचिन्त्यश्च निर्गुणोऽतः स एव मुख्यतोऽसन् तु
च्छोऽभावश्चेत्युच्यत इत्यर्थः । यद्वा—शून्यशब्दस्य शून्यादीत्यादिप
दोपात्तानां च शब्दानां इह हरौ रूढिप्रदर्शनपरेयं समग्रा श्रुतिः । म
३९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
( २ ) शमूनं कुरुते विष्णुरदृश्यस्सन् परस्स्वयम् ।
तस्माच्छून्य इति प्रोक्तस्तोदना तुच्छ उच्यते ॥
नैष भावयितुं योग्यः केन चित्पुरुषोत्तमः ।
अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥
( ३ ) सर्वस्य तदधीनत्वात्तत्तच्छन्दाभिधेयता ।
होपनिषदीत्यस्यासदादिशब्दाः दुर्जनाव्यक्तत्वादिना निमित्तेन रू-
ढ्या वा ब्रह्मवाचितया व्याख्याता इत्यन्वयः ॥
( २ ) ‘एष ह्येव’ (महोपनिषत्) इत्यनेनैव शून्यादिशब्दानां रूढेर्दर्शित-
त्वादिदानीं योगवृत्तिमपि स्मृत्या दर्शयति-शमूनमिति ॥ यस्माद्विष्णुः
‘परः सन्नेव’ सर्वोत्तमत्वेन पूर्णसुखत्वेन च सन्नेव ‘शं’ अन्यसुखं
स्वयं ‘ऊनं’ स्वसुखादल्पं करोति, तस्माच्छून्य इति प्रोक्त इत्यर्थः ।
सन्नेवेत्यनेन असत्त्वाच्छून्यशब्दार्थ इत्याशङ्का परिहृता । सन्नेवादृश्य
इत्यस्योत्तरत्रान्वयः । तुच्छ इत्यावर्तते । तत्रैकं द्विखण्डम् । अन्यदख-
ण्डम् । तथा च यतस्तोदनाद्दुःखकर्तृत्वात् तुत्,छः छन्नः सन्नेव दुर्जनैरदृ-
श्यो न त्वसत्त्वादतस्तुच्छ उच्यते इत्यर्थः । सत्तर्कदीपावल्यां तु-लो-
केऽभीष्टं वस्तु नष्टमदृश्यं वा तद्वतः शमूनं कुरुते, तुदते च तं शमनुभव-
न्तम् । न च तद्भावयितुं योग्यं सुखाय नापि तेनोपभोग्यम् । विष्णुस्तु
न नष्टः, किन्तु स्वयं परः सन्नेव सर्वदा सर्वत्र सर्वोत्तमत्वेन सन्नेव
दुर्जनादृश्य एव तच्छमूनं करोति, तुदते च तम् । भावयितुमयोग्य-
स्तेनानुपभोग्यश्च । यथा रमाजशङ्करादिभिरित्युक्तम् । अस्मिन् पक्षे
यतः छः नित्यमदृश्य एव तुत् दुःखयति अन्यान् दुर्जनान्, अतोऽदृश्य-
त्वे सति तोदनात् तुच्छ उच्यते इति । छशब्दादर्थस्यादृश्यत्वस्य
विशेषणतया पूर्वमन्वयः । पक्षद्वयेऽप्येकानेकपद्त्वं समानम् । ऐकप-
द्ये तुच्छासौ छश्चेति विग्रहः । यतः ‘एषः’ विष्णुः कारणतयाऽऽनन्त्येन
च पुरुषोत्तमः, अतो न केन चित् ‘भावयितुं’ उत्पादयितुं साकल्ये-
न चिन्तयितुं वा न योग्यः । यत एवं अत एनमभावं वदन्ति कवय इ-
त्यर्थः । अशभोजन इत्यतः अश्यमिति रूपं, तस्य भाव अश्यत्वं, तस्य
नञा सम्बन्धे नाश्यत्वादित्यस्याभक्ष्यत्वादित्यर्थः । सत्तर्कदीपावली-
रीत्या तु-नाकमिति वन्नाशं परमसुखं यापयतीति नाश इत्यर्थः ।
उच्यते इत्यनुषज्यते । न केवलमभाव इत्यादिरूपेणेत्यपेरर्थः ॥
( ३ ) निषेधमुखवेद्यवस्तुवाचिशब्दानां निषेध्यनिषेधवाचित्वेन
[ अधि - ७. सू - २९. ] दीपिका सहितम्. ३९७
अन्येषां व्यवहारार्थमिष्यते व्यवहर्तृभिः ॥
इति महाकौर्मे ॥
(४) एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन ।
द्विरूपत्वात् तत्र स्मृतौ निषेध्यासद्वाचिशून्यादिशब्दानामेव योगवृत्ति-
कथनात्, तदन्येष्वव्यक्तादिषु निषेधरूपाभाववाचिनिर्गुणादिशब्देषु
च तदकथनाच्च तेषां हरौ वृत्तिः स्यादित्याशङ्क्योभयसाधारणं निमि-
त्तमाह — सर्वस्येति ॥ एतच्चासद्वाचिशब्देष्वभाववाचिशब्देषु च स-
म्बध्यते । अत एव टीकायामुभयत्रेत्युक्तिः । सुधायां च 'निषेधनं नि-
षेधोऽभावः । निषिध्यत इति निषेधोऽसन् तदुभयार्थाः शब्दा इत्युक्त-
म् । तथा च 'सर्वस्य' असच्छून्यादिशब्दप्रवृत्तिनिमित्तस्य स्वगत-
स्य परगतस्य वा 'तदधीनत्वात्' भगवत्स्वामिकत्वात्तत्तच्छब्दवा-
च्यता तस्यैव हरेः सर्वशब्दाभिधेयता। अतएव असच्छून्यतुच्छाभाव-
नाशादिशब्दपरममुख्यार्थता भगवतः । अन्येषां तु तदधीनेनैव तत्त-
त्प्रवृत्तिनिमित्तेन हानादिव्यवहारार्थं 'व्यवहर्तृभिः' तत्तच्छब्दप्रयो-
क्तृभिस्तन्मुख्यवाच्याभिज्ञैस्तत्तच्छब्दार्थता 'इष्यते' अभ्युपगम्यत
इत्यर्थः । यद्वा—सर्वस्येत्येतत् 'शमूनं कुरुते' इत्याद्युक्तहेतूपपादक-
त्वेन पूर्वत्र तत्तच्छब्दाभिधेयतेत्युक्तसाध्यसाधकत्वेनोत्तरत्र च सम्ब-
ध्यते । अत एव सत्तर्कदीपावल्यां स्वगतस्य परगतस्य वा शब्दप्रवृ-
त्तिनिमित्तस्य भगवदधीनत्वादित्युक्तम् । द्रष्टुर्भावयितुर्धर्मकस्य चे-
श्वराधीनत्वेन स्वगतानामदृश्यत्वाभावत्वनाशत्वादीनां तदधीनत्वं
सिद्धम् । परगतनिषेध्यत्वशून्यत्वाभावत्वादीनां त्वीशायतत्त्वं सुप्रसि-
द्धमेवेत्याशयः । महाकौर्मे इत्यस्य श्रूयमाणा इत्यध्याहारेण महोपनिष-
दि अन्यत्र च श्रूयमाणाः शून्यादिशब्दाः 'शमूनं कुरुते' इत्यादि योगेन
स्वातन्त्र्यनिमित्तेन च विष्णुपरतया महाकौर्मे व्याख्याता इत्यन्वयः ॥
(४) सूत्रेऽवयवप्रयोगानियमाभिप्रायेण प्रथमं प्रयुक्तस्य हेतुप-
दस्थानुवादमात्रस्याप्रकृतत्वादेकवचनार्थस्याविवक्षितत्वाच्चैतेनेत्यनू-
दितपदपरामृष्टमेव हेतुं दर्शयति—एतेनेति ॥ तस्मिन्नधीनं तदधीनं
तत्स्वामिकं, यद्वा—तस्याधीनं तदधीनं तस्य भावस्तदधीनत्वं तद्-
धीनत्वादिरूपा या युक्तयस्तत्समुदायेनेत्यर्थः । आदिपदेन महद्वच्च ।
चमसवदविशेषात् । ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके । प्रतिज्ञा-
दृष्टान्तानुपरोधात्' इत्यादिकं गृह्यते ॥
३९८ ब्रह्मसूत्रभाष्यम् [ अध्या - १. पा - ४. ]
(५) अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः ।
द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये ॥
इति वाराहसंहितायाम् ॥ २९ ॥
—::—
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र-
भाष्ये प्रथमाध्यायस्य चतुर्थः पादः.
॥ प्रथमाध्यायस्समाप्तः ॥
—::—
॥ ॐ ॥
(५) ननु सूत्रैऽल्पाक्षरत्वविरोधिनी द्विरुक्तिः किमर्थेत्यत आह
—अवधारणार्थमिति ॥ 'अध्यायमूलतः' अध्यायादिमारभ्यान्तपर्य-
न्तमुक्तस्य सर्वस्यार्थस्यावधारणार्थमेवेति निर्णयायान्ते द्विरुक्तिं कु-
र्वते ज्ञानिन इत्यर्थः । भारतादिषु द्विरुक्तेरकरणादाह-विनिर्णय इति ।
विशिष्टो निर्णयो यस्मात्तस्मिन् विनिर्णायकग्रन्थ इत्यर्थः । तथा च ते-
षाम् निर्णतव्यत्वेन निर्णायकत्वाभावान्नोक्तनियमभङ्ग इति भावः । सं-
हितायां इत्यस्योक्तत्वादित्येऽध्याहारेण न द्विरुक्तिवैयर्थ्यम्, न चान्य-
रीत्या अध्यायसमाप्तिद्योतनार्थ इत्युपस्कृतसाध्येनान्वयः । अनेन—‘ए-
तेन’ पूर्वोक्ततदधीनत्वादिहेतुनैव ‘सर्वे’ शून्यादिशब्दाः ‘तत्तु’ त-
स्मिन् ब्रह्मण्येव तद्विषया एवेति ‘व्याख्याताः’ प्रतिपादिता इति सू-
त्रार्थ उक्तो भवति ॥ ७ ॥ ॐ ॥
॥ इति एतेनसर्वेव्याख्याताधिकरणम् ॥
—:*:—
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना-
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि-
कायां प्रथमाध्यायस्य चतुर्थः पादः.
॥ प्रथमाध्यायस्समाप्तः ॥
—
॥ ॐ ॥
॥ श्रीः ॥
::-
॥ ॐ तत्सद्ब्रह्मणे नमः ॥
::-
॥ अथ द्वितीयाध्यायः ॥
१०. अधिकरणम् ॥
( १ ) उक्तेऽर्थेऽविरोधं दर्शयत्यनेनाध्यायेन प्रथमपादे युक्त्य-
विरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति—
( २ ) सू—ॐ ॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृ-
त्यनवकाशदोषप्रसङ्गात् ॥ ॐ ॥ १ ॥
॥ अथ द्वितीयाध्यायः ॥
१०. अधिकरणम् ॥
( १ ) पूर्वाध्यायसङ्गतत्वेनैतदध्यायर्थं दर्शयति—उक्त इति ॥ ना-
रायणे निखिलवेदसमन्वयेन यो जगत्कारणत्वरूपार्थो गताध्याये नि-
रूपितस्तस्मिन्नित्यर्थः । 'अविरोधं' न विरोधोऽविरोधस्तं युक्त्यादि-
विरोधाभावं 'दर्शयति' प्रतिपादयति 'अनेन' द्वितीयाध्यायेन सूत्र-
कार इत्यर्थः । अनेन पूर्वाध्यायस्यास्य च हेतुहेतुमद्भावलक्षणा सङ्ग-
तिरुक्ता भवति । पूर्वस्याशेषशब्दसमन्वयमुखेन जगत्कर्तृत्वरूपधर्मि-
ज्ञापकत्वेनास्य च विरोधनिररासेनोक्तजगत्कर्तृत्वस्थैर्यसाधकत्वेन हे-
तुत्वसम्भवात् । एतत्पादप्रतिपाद्यं दर्शयति-प्रथमेति । उक्तेऽर्थे दर्शय-
तीत्यनुवर्तते। अस्येति विपरिणामेनास्ति । युक्तिरनुमानम्। सङ्गतिप्रद-
र्शनायैतत्पादीयाद्याधिकरणप्रतिपाद्यं दर्शयति-प्रथमत इति । प्रथमा-
धिकरण इत्यर्थः । अनुवृत्त्यादि पूर्ववत् । स्मृतिरलौकिकार्थविषयाप्त-
वाक्यरूपा पाशुपतादिलक्षणा । स्मृतीत्यनेन पाशुपतादिस्मृतीनां यु-
क्तिग्रथनात्मकत्वेन तद्विरोधाभावप्रतिपादकस्यास्य अधिकरणस्य
युक्त्यविरोधप्रतिपादकत्वादत्र पादे निवेशः सङ्गत इति सूचितम् ।
स्मृतीनां समन्वयादिरूपत्वेऽपि न प्रथमातिक्रमो युक्तः, कारणाभावा-
त् । अनेनास्याधिकरणस्य शास्त्रादिसङ्गतिरुक्ता भवति ॥
( २ ) पूर्वपक्षादिप्रदर्शनाय सूत्रमुपन्यस्यति—स्मृतीति ॥ अत्र पू-
र्वपक्षांशं व्याख्यास्यन् विशेषणस्य परनिपातेनाभिप्रेतेनानवकाशशास्त्रे-
तीत्यन्वये सति तत्रानवकाशपदेन लब्धान् हेतून् दर्शयति—सर्वज्ञा
हीति । हि हेतौ प्रसिद्धौ च । सार्वज्ञ्यं जगद्धितोपदेष्टृत्वस्याप्युपलक्ष-
कम् । आदिशब्देन कपिलकमलासनादयो गृह्यन्ते । अनेनाप्तमूलत्व-