पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 445, कुल 1267 में से
संदर्भ में पढ़ें३९८ ब्रह्मसूत्रभाष्यम् [ अध्या - १. पा - ४. ]
(५) अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः ।
द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये ॥
इति वाराहसंहितायाम् ॥ २९ ॥
—::—
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र-
भाष्ये प्रथमाध्यायस्य चतुर्थः पादः.
॥ प्रथमाध्यायस्समाप्तः ॥
—::—
॥ ॐ ॥
(५) ननु सूत्रैऽल्पाक्षरत्वविरोधिनी द्विरुक्तिः किमर्थेत्यत आह
—अवधारणार्थमिति ॥ 'अध्यायमूलतः' अध्यायादिमारभ्यान्तपर्य-
न्तमुक्तस्य सर्वस्यार्थस्यावधारणार्थमेवेति निर्णयायान्ते द्विरुक्तिं कु-
र्वते ज्ञानिन इत्यर्थः । भारतादिषु द्विरुक्तेरकरणादाह-विनिर्णय इति ।
विशिष्टो निर्णयो यस्मात्तस्मिन् विनिर्णायकग्रन्थ इत्यर्थः । तथा च ते-
षाम् निर्णतव्यत्वेन निर्णायकत्वाभावान्नोक्तनियमभङ्ग इति भावः । सं-
हितायां इत्यस्योक्तत्वादित्येऽध्याहारेण न द्विरुक्तिवैयर्थ्यम्, न चान्य-
रीत्या अध्यायसमाप्तिद्योतनार्थ इत्युपस्कृतसाध्येनान्वयः । अनेन—‘ए-
तेन’ पूर्वोक्ततदधीनत्वादिहेतुनैव ‘सर्वे’ शून्यादिशब्दाः ‘तत्तु’ त-
स्मिन् ब्रह्मण्येव तद्विषया एवेति ‘व्याख्याताः’ प्रतिपादिता इति सू-
त्रार्थ उक्तो भवति ॥ ७ ॥ ॐ ॥
॥ इति एतेनसर्वेव्याख्याताधिकरणम् ॥
—:*:—
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना-
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि-
कायां प्रथमाध्यायस्य चतुर्थः पादः.
॥ प्रथमाध्यायस्समाप्तः ॥
—
॥ ॐ ॥