सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 438, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 438

[ अधि - ६. सू - २७. ] दीपिकासहितम्. ३९१
प्रकर्षेण करोतीति प्रकृतिरिति योगाच्च ।
(८) प्रकृतावनुप्रविश्य तां परिणाम्य तत्परिणामनियामक
तया तत्र स्थित्वा आत्मनो बहुधा करणात् ।
(९) 'अथ हैष आत्मा प्रकृतिमनुप्रविश्यात्मानं बहुधा च
कार तस्मात्प्रकृतिस्तस्मात्प्रकृतिरित्याचक्षते' इति
भाल्लवेयश्रुतिः ।
रित्यर्थः । न केवलं श्रुतावाम्नानाद्बहुलप्रयोगाख्यरूडिमात्रादिति चश
ब्दार्थः । यद्वा—योगस्यैव भावान्न विष्णोः प्रकृतिशब्दवाच्यत्वे निमि
त्ताभाव इत्यवधारणार्थश्चकारः । यद्यपि प्रकृष्टा कृतिर्यस्येत्येव विग्रहः
प्रदर्शनीयो न प्रकर्षेण करोतीति । तथात्वे प्रकर्तेति वा प्रकृदिति वा
प्रकारुरिति वा वृत्तिस्स्यात् । तथा करणविषय एव प्रकृष्टत्वान्वयः
स्यात्, न तु कृतौ । अत एव टीकायां प्रकृष्टा कृतिः यस्येत्येव विग्रहः
प्रदर्शितः । तथाऽपि तस्यैव फलितोक्तिरित्यदोषः । अत्र प्रकर्षेण क
रोतीति विग्रहे प्रकृतिरिति वृत्तिवाक्यं प्रदर्शितम्, न तूद्देश्यार्पकं त
त, तस्य प्रकृतिश्चेत्यनेनैव प्राप्तेः ॥
(८) एवं फलितार्थमभिधाय कथं प्रकृष्टेश्वरस्य कृतिरित्यतः सू
त्रं व्याचष्टे—प्रकृताविति ॥ अनेन परिणामकत्वोपयुक्तं तत्पूर्वभावि
व्यापारमाह । अनुप्रविश्येति । 'अनु' अनुकूलतया 'तां' प्रकृतिं परिणा
म्येति । अनेन सूत्रे परिणामादिति ल्यब्लोपनिमित्ता पञ्चमी । परिणा
म्याऽप्रकृतेरित्यन्वयः। ल्यपा च परिणामस्यात्मककरणात्पूर्वभावित्वोच्य
ते इत्युक्तं भवति । तथाचेत्थं योजना—प्रकृतेस्स्वतः परिणामासाम
र्थ्यात्तत्परिणामानुकूलतया प्रकृतौ प्रविश्य तां 'परिणाम्य' स्वय
मविकार एव तस्यां महदादिरूपेण विकारं विधाय अथ तत्परिणाम
कत्वेन प्रकृतिपरिणाममहदादिप्रेरकत्वेन 'तत्र' तत्परिणामेषु महदा
दिषु 'स्थित्वा' स्थित्यर्थमिति यावत् । 'आत्मनः' स्वस्य रूपेण 'ब
हुधाकरणात्' व्यक्तीकरणात् भवतीश्वरकृतिः प्रकृष्टा । अतः प्रकर्षे
ण करोतीति योगाच्च प्रकृतिर्विष्णुरिति । अनेन प्रधानस्य स्वस्य च
बहुधाकरणमेव प्रकृष्टकरणमिति प्रकृतिशब्दनिमित्तं प्रदर्शितं भवति ॥
(९) अनाश्वासपरिहाराय स्वोक्तसूत्रार्थे श्रुतिस्मृती चाह—अ
थेति ॥ प्रमेयान्तरारम्भार्थोऽथशब्दः । हिशब्दः प्रमाणप्रसिद्धौ । तथा
चैष परमात्मा यस्मात्प्रकृतेः स्वतःपरिणामासामर्थ्यात्परिणामानुकू