सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

१२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ४ ) अनन्तो भगवान् ब्रह्मा आनन्देत्यादिभिः पदैः ।
प्रोच्यते विष्णुरेवैकः परेषामुपचारतः ।
इति ब्राह्मे ।
( ५ ) 'नामानि सर्वाणि यमाविशन्ति' ( भाल्लवेय ) इति
चोक्तम् ॥ २२ ॥
९. अधिकरणम् ॥
( १ ) सू-ॐ ॥ अत एव प्राणः ॥ ॐ ॥ २३ ॥
( २ ) तद्धै त्वं प्राणो अभवः महान् भोगः प्रजापतेः ।
( ४ ) नन्वनन्तत्वं 'अनन्ताकाशवत्पश्यन्' इत्याकाशस्यापि स्म-
र्यते, अतः सावकाशत्वात्कथं विष्णोरेव तल्लिङ्गमित्यतः स्मृतिमाह-
अनन्त इति ॥ आनन्देति लुप्तविभक्तिको निर्देशः । विष्णुरेवैको मुख्य-
तया प्रोच्यत इति सम्बन्धः । 'परेषां' विष्णोरन्येषां 'उपचारतः'
स्वस्वसमीपगतपरमात्मसम्बन्धादेव वाच्यतेति शेषः । इति ब्राह्म
इत्यस्य तस्यैव तल्लिङ्गमित्युक्तमिति पूर्वेणान्वयः । अनेनैवकारो लिङ्ग-
स्य निरवकाशत्वज्ञापक इति सूचितम् ॥
( ५ ) ननु श्रुत्या पूर्वपक्षिते कथं लिङ्गेन निर्णयः । लिङ्गस्य श्रुति-
तो दुर्बलत्वादित्यतः आकाशश्रुतिर्विष्णौ सावकाशेति श्रुत्या दर्शय-
ति—नामानीति ॥ 'चो' यतो 'नामानि सर्वाणि' इति वाक्येन वि-
ष्णोराकाशादिसर्वशब्दवाच्यत्वमुक्तम्, अतो लिङ्गेन श्रुतेर्बाधया नि-
र्णयो युक्त इति योजना ॥
॥ इत्याकाशाधिकरणम् ॥ ८ ॥
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धाध्यात्मिकाशेषशब्दोप-
लक्षकप्राणशब्दस्य ब्रह्मणि समन्वयः क्रियते । सर्वत्रादौ सूत्रं पाठ्यम् ।
पश्चात्सङ्गयादिकं वक्तव्यमिति सूचयितुमत्र सूत्रमादावेव पठति-
अत एवेति ॥
( २ ) विषयवाक्योदाहरणपूर्वकं पूर्वाधिकरणेन सङ्गतिं विषयसंश-
यौ च सूचयति-तदिति ॥ अत्र यत्तदोरावृत्तिः । भुज्यत इति भोगः आ-
नन्दः । तेन तद्वानुपलक्ष्यते, धर्मधर्मिणोरभेदविवक्षा वा । तथा च हे

[ अधि - ९. सू - २३. ] दीपिकासहितम्. १२७
भुजः करिष्यमाणः यद्देवान् प्राणयो नव ( तै.आ. ३-
१४. ) इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् ॥
( ३ ) स च प्राणः प्रसिद्धेर्वायुः इत्यापतति ।
( ४ ) न चैवम् । यतो विष्णुरेव प्राणः, अत एव ' श्रीश्च ते
विष्णो 'यत्' यस्मात् 'प्रजापतेः' हिरण्यगर्भस्य तदुपलक्षितानां सक
लजीवानां 'भुजः' भोगान् योग्यानन्दान् 'करिष्यमाणः' उपलक्षणमेत
त्-कुर्वाणोऽकार्षीच्च । 'तस्मात्त्वं' 'महान् भोगः' पूर्णानन्दवान्भव ।
स्वस्य महाभोगाभावे परस्मै तद्दानानुपपत्तेः । यस्माच्च पायुगुह्यैक्येन
नवेन्द्रियाभिमानिनो देवान् त्वं 'प्राणयः' अचेष्टयः । इदमप्युपलक्षणं-
चेष्टयसि चेष्टयिष्यसि च । तस्मात्त्वं प्राणः प्राणशब्दवाच्योऽभव इति
सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षे त्वेतत्सर्वं मुख्यप्राणे योज्यम् । इती
ति। 'इति' तैत्तिरीयशाखागतवाक्ये 'परमानन्दत्वं' पूर्णानन्दत्वमुक्तमि
त्यावर्तते । तथा च यदानन्दमयत्वं विष्णोरुक्तं तत्परमानन्दत्वपर्यवसि
तं 'तद्वै त्वम्' इति वाक्ये ' महाभोगशब्देन' ' महान् भोगः ' इति प
दद्वयात्मकवाक्येन च प्राणस्योक्तमिति योजना । अनेन प्राणाख्यो वि
षयः । तस्य विष्ण्वन्यत्वाक्षेपमुखेनानन्दमयत्वस्याप्यन्यनिष्ठत्वाक्षेपा
दानन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिः । सः वायुरुत विष्णुरिति
संशयश्च सूचितो भवति ॥
( ३ ) सयुक्तिकं पूर्वपक्षं दर्शयति— स चेति ॥ तच्छब्द आवर्तते ।
चशब्दोऽवधारणे । वायुरित्यनेन सम्बध्यते । आनन्दमयश्चेति समुच्च
ये वा । तथा च परमानन्दत्वं यस्य प्राणस्योक्तं सः 'प्राणः' तच्छब्द
वाच्यो मुख्यवायुरेवेति 'आपतति' प्राप्नोति । अतएवानन्दमयोऽपि
स एवेत्यापतति । कुतः? प्रसिद्धेः प्राणश्रुतेः तस्याश्च तस्मिन्वायौ प्र
सिद्धे रूढत्वात् । प्राणपदप्रवृत्तिनिमित्तस्य जीवनादिहेतुत्वस्य च श
रीरे सति मुख्ये जीवनादिकं सम्भवति नासतीत्यन्वयव्यतिरेकाभ्यां
स्वशरीरगतवायुविकारद्वारा मुख्यवायावेव प्रसिद्धेर्दर्शनादिति
योजना ॥
( ४ ) सिद्धान्तयति— न चेति ॥ एवं प्राणस्य वायुत्वं आनन्दमय
त्वं च न युक्तमित्यर्थः । कुतो नैवमित्याशङ्कायां तत्र हेतुतया सूत्रं
व्याचष्टे—यत इति । सूत्रार्थस्य हेतुत्वद्योतकोऽयं यतश्शब्दः । सूत्रेऽनु
वृत्तस्य तद्धितस्यार्थो विष्णुरेवेति । तथा च यतोऽयं प्राणो विष्णुरे

१२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे ' ( तै.आ.३-१३. )
इत्यादितल्लिङ्गादेव ॥
--:--
१०. अधिकरणम् ॥
( १ ) ' यो वेद निहितं गुहायाम् ' ( तै. उ. २-१० ) इत्यु
च अतो नैवमित्यन्वयः । कुतोऽयं प्राणो विष्णुरेवेत्यतः सौत्रं हेतुमनूद्य
व्याचष्टे—अत एवेति । इत्यादीति । इत्यादिनोक्तं यद्विष्णुलिङ्गं तस्मा
देवेत्यर्थः । कथं श्रुत्या पूर्वपक्षिते लिङ्गेन निर्णय इत्यतो लिङ्गस्य निर
वकाशत्वज्ञापनार्थमेवकारः । तथा च सावकाशश्रुतेर्निरवकाशलिङ्गेन
बाध इति भावः । हे विष्णो ' ते ' तव श्रीश्च लक्ष्मीश्चेति द्वे पत्न्यौ
स्तः । वक्षःस्थलाश्रिता श्रीः अङ्कस्थिता लक्ष्मीरिति सम्प्रदायविदः ।
तत्त्वप्रदीपे तु—अङ्कस्थिता श्रीः वक्षसि लक्ष्मभूता लक्ष्मीरित्युक्तम् ।
' अहोरात्रे ' तदभिमानिसूर्यचन्द्रौ ' पार्श्वे ' पार्श्वस्थितावित्यर्थः । दि
वारात्रमेते पार्श्वगते इति वा । यद्यपीदं ' अद्भ्यः ' इति पूर्वानुवाकग
तम् । ' तद्वै त्वं प्राणः ' इत्येतच्च ' भर्ता सन् भ्रियमाणः ' इत्युत्तरानु
वाकगतम् । तथा च नानयोर्लिङ्गलिङ्गिभावो युज्यते । तथाऽपि 'श्रीश्च
ते ' इति युष्मच्छब्देनोक्तस्य ' तद्वै त्वं प्राणः ' इत्यत्रापि युष्मच्छब्देन
प्रत्यभिज्ञानात्तदुपपत्तिः । निरवकाशत्वाद्विन्नानुवाकस्थस्यापि मुख
तो ग्रहणं युक्तम् । आदिशब्देन ' हरिं हरन्तमनुयन्ति देवाः । विश्व
स्येशानं वृषभं मतीनां ' (तै. आ. ३-१५. ) इति तत्त्वप्रदीपोदाहृतमनु
वाकान्तरस्थं गृह्यते । सर्वबुद्धिनियन्तारं जगत्पतिं सर्वसंहर्तारं हरिं
देवाः अनुगच्छन्तीत्यर्थः । चन्द्रिकायां तु—' भर्ता सन् ' इत्युत्तरानु
वाकगतं ' तमेवमृत्युममृतन्तमाहुस्तं भर्तारं तमुगोप्तारमाहुः' (तै.आ.
३ - १४. ) इत्यादिकमादिपदेन ग्राह्यमित्युक्तम् । यद्यपि तैत्तिरीयशा
खायां ' ह्रीश्च ते ' इति पाठः । तथाऽपि वाजसनेयशाखाभिप्रायेण एव
मुदाहृतमिति ध्येयम् । सूत्रार्थस्तु स्पष्टः ॥
॥ इति प्राणाधिकरणम् ॥ ९ ॥
-:-*-:-
१०. अधिकरणम् ॥
( १ ) अत्राधिकरणे तत्तत्सूत्रगताशेषशब्दोपलक्षकस्य लोकतोऽ

[ अधि - १०. सू - २३. ] दीपिकासहितम्. १२९
क्तम् । तच्च गुहानिहितम् । 'वि मे कर्णा पतयतो वि
चक्षुर्वी३दं ज्योतिर्हृदय आहितं यत् ।
वि मे मनश्चरति दूर आधीः किं स्विद्वक्ष्यामि किमु नू
मनिष्ये' (ऋ. ६-९-६.) इति ज्योतिरुक्तम् ।
न्यत्रप्रसिद्धस्य ज्योतिर्नाम्नो ब्रह्मणि समन्वयः क्रियते । पूर्वाधिकरण
तद्विषयसङ्गतौ विषयवाक्योदाहरणपूर्वकं विषयसंशयौ च दर्शय
ति—यो वेदेति ॥ ततः किमित्यत आह—तच्चेति । चोऽवधारणे । त
था च यत्पूर्वं मान्त्रवर्णिकपदोपात्तमन्त्रवर्णगतेन 'यो वेद' इति वा
क्येन गुहानिहितं वस्तूक्तं तदेवानन्दमयाद्याख्यमित्युक्तम् । तदेव 'वि
मे कर्णा' इति वाक्ये 'ज्योतिरुक्तं' ज्योतिश्शब्देनोक्तमित्यर्थः । अने
न वक्ष्यमाणपूर्वपक्षपर्यालोचनया ज्योतिषो विष्ण्वन्यत्वसाधनमुखेना
नन्दमयत्वस्यान्यनिष्ठत्वाक्षेपादानन्दमयाधिकरणेनास्याक्षेपिकी सङ्ग
तिः सूचिता भवति । ज्योतिर्विषयः किमग्निरुत विष्णुरिति सन्देहश्च
सूचितो भवति । 'वि मे' इति ऋङ्मन्त्रे वीत्युपसर्गाणां क्रियापदेना
न्वयः । तत्र धातोरेव विचरणाभिधायकत्वम् । उपसर्गास्तु द्योतकाः न
वाचकाः । अतएव सूत्रे 'चरणाभिधानात्' इत्येवोक्तम् । भाष्ये तु
'विचरणाभिधानात्' इति स्पष्टार्थमुक्तम् । अतएव तत्त्वप्रदीपे 'स्प
ष्टत्वाय विचरणाभिधानात् इत्युक्तम्' इत्युक्तम् । 'मे' इत्यस्मच्छ
ब्देन मन्त्रद्रष्टा ऋषिरुच्यते । 'दूर आधीः' इत्यस्य एकपदत्वेऽपि अ
वग्रहदर्शनेन द्विखण्डत्वाद्विभज्यान्वयः । आङ् ईषदभिव्याप्त्युभया
र्थकः । वर्तत इति शेषः । तथा च यतो मे कर्णौ ज्योतिषो विरुद्धं प
तयतः पततः । स्वार्थे णिच् । चक्षुश्च विरुद्धं पततीति विपरिणामेना
न्वयः । यथा कर्णादेर्ज्योतिर्विदूरत्वं एवं ज्योतिषोऽपि कर्णादिविदूर
त्वमित्याह—वीदमिति । कम्पोऽत्यन्तमित्यर्थे । तथा च यदिदं हृदये
'आहितं' आ समन्तात् स्थितं ज्योतिस्तदत्यन्तं कर्णादिविरुद्धं वर्त
ते । एवं मे मनः ज्योतिषो दूरे विचरति अतीव तद्दर्शनविरुद्धं वर्तते ।
मनश्चरणस्य तत्त्वनिष्ठाविरोधित्वं 'चञ्चलं हि मनः कृष्ण' इति गी
तायामुक्तम् । अतः कारणात् 'आधीः' ईषद्बुद्धिरहं व्याप्तबुद्धिरपी
ति वा 'किं स्वित्' किं नु वक्ष्यामि । किमु किं वा नु इदानीं 'मनि
ष्ये' चिन्तयामीति मन्त्रार्थः । तत्त्वप्रदीपे तु—आ समन्ताद्दूरस्थबुद्धि
१७

१३० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २ ) तच्च ज्योतिरग्निसूक्तत्वात्प्रसिद्धेश्चाग्निरेवेति प्राप्तम् ।
( ३ ) अत आह—
सू—ॐ ॥ ज्योतिश्चरणाभिधानात् ॥ ॐ ॥ २४ ॥
विष्णुरेव ज्योतिः । कर्णादीनां विचरणाभिधानात् ।
( ४ ) स हि 'परो मात्रया तन्वा वृधान' (ऋ.७-९८-२.)
रहमित्येकान्वयेन व्याख्यातम् ॥
( २ ) अथ सयुक्तिकं पूर्वपक्षयति — तच्चेति ॥ चस्समुच्चये । त
दिति चावर्तते । अग्निशब्दो भूतदेवतापरः । द्वितीयचशब्दो भिन्नक्र
मः। तथा च तज्ज्योतिर्गुहानिहितं चाग्निरेव भवेदिति प्राप्तं, कुतः ? 'प्र
सिद्धेः ' ज्योतिःश्रुतेस्तस्याश्च तस्मिन्नग्नावेव प्रसिद्धेः रूढत्वात् । न
केवलं श्रुतेरेवेदं ज्योतिरग्निः, किन्तु तस्य ज्योतिषः ' अग्निसूक्तत्वा
त् ' अग्निप्रकरणगतत्वाच्चेति योजना । अतएव पूर्वपक्षोपसंहारटीका
यां श्रुतिप्रकरणयोर्बलवत्त्वादिति प्रसिद्धपदलक्षितायाः श्रुतेः प्रथममु
क्तिः । अत एव चन्द्रिकायां भाष्ये अग्निसूक्तस्थत्वाद्वेति चशब्दप्रयो
गादित्युक्तम् । तथाच श्रुतिप्रकरणाभ्यां गुहानिहितत्वलिङ्गमात्रस्य
बाधात् अग्निरैवेदं ज्योतिर्गुहानिहितं चेति भावः ॥
( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ यतः पूर्वपक्षः प्रा
प्तोऽतः उत्तरं सूत्रमाह भगवान्बादरायण इत्यर्थः । तदेव सूत्रं पठति-
ज्योतिरिति । सूत्रे तच्चित्यस्य अनुवृत्तिं विपरिणामं चाभिप्रेत्य प्रति
ज्ञांशं व्याचष्टे—विष्णुरेवेति । ' ज्योतिः ' तच्छब्दवाच्यो विष्णुरेव भ
वेदिति योजना । कुत इत्यतः प्राप्तं ' चरणाभिधानात्' इति हेत्वंशं च
रणशब्दस्य विचरणार्थत्वं कर्णादीनामित्यस्य अध्याहारं चाभिप्रेत्य
व्याचष्टे—कर्णादीनामिति । अत्र वाक्ये कर्णादीनामेतज्ज्योतिःप्रति
विरुद्धचरणोक्तेः कर्णादिविदूरत्वलिङ्गश्रवणादित्यर्थः । अत्र कर्णादि
विदूरत्वं नाम तैरियमिति परिच्छेदायो ग्यवैभवत्वं, न तु कर्णादिविदू
रत्वमात्रम् । तद्विषये तस्यासम्भवात् । अभिधानपर्यन्तधावनं हेत्व
सिद्धिपरिहारायेति द्रष्टव्यम् ॥
( ४ ) नन्वस्तु ज्योतिषः कर्णादिविदूरत्वोक्तिः, तावता तस्य वि
ष्णुत्वं कुत इत्यतः कर्णादिविदूरत्वस्य विष्ण्वेकलिङ्गत्वे श्रुतिमुदाहर
न् तत्प्रतिजानीते—स हीति ॥ एवेत्यनुषज्यते । आदिशब्देन ' न ते वि
ष्णो ' इत्यादिकं गृह्यते । तथा च ' हि ' यस्मात् ' सः ' विष्णुरेव ' प

[ अधि - ११. सू - २५. ] दीपिकासहितम्. १३१
इत्यादिना कर्णादिविदूरः ॥ १० ॥
———— ꕥ ————
११. अधिकरणम् ॥
( १ ) सू—ॐ ॥ छन्दोऽभिधानान्नेति चेन्न तथा चेतोर्पण
निगदात्तथा हि दर्शनम् ॥ ॐ ॥ २५ ॥
शे मात्रया ' इत्यादिवाक्येन कर्णादिविदूर इति प्रमितः तस्मान्नाप्रयो
जकता, न वा हेतुविशेषणासिद्धिरित्यध्याहारेण योजना । अनेन
' ज्योतिः ' तच्छब्दवाच्यं ब्रह्मैव । कुतः ? अत्र कर्णादीनामेतज्ज्योतिः
प्रति साकल्येन तद्विषयीकरणरूपविरुद्ध ' चरणाभिधानात् ' कर्णा
दिविदूरत्वलिङ्गश्रवणात् इत्यावृत्त्यध्याहाराभ्यां सूत्रार्थ उक्तो भव
ति । मापयति ज्ञापयति विषयानिति वा मीयन्ते विषया अनेनेति वा
मात्रा इन्द्रियगणः तया ततस्त्वं ' परो ' दूरोऽसीति हे विष्णो अन्यम
हिम्नः परमन्तं सीमानं ते महिमानं कोऽपि श्रोत्रादिना नापेति च प्र
कृतानुगुण्येन श्रुतिर्व्याख्येया । अत्र तत्त्वप्रदीपसन्न्यायरत्नावलीकार
योः ज्योतिरित्यादिचतुस्सूत्री एकमेवान्तर्भेदाधिकरणमित्यभिप्रेतम् ।
अग्निसूक्तच्छान्दोग्यगतविषयवाक्यभेदादनयोर्भेदः । टीकाकृतस्तु-
ज्योतिस्सूत्रमेकमधिकरणं ' छन्दः ' इत्यादित्रिसूत्री अधिकरणान्तर
मिति ज्ञातव्यम् ॥ १० ॥
॥ इति ज्योतिरधिकरणम् ॥
११. अधिकरणम् ॥
( १ ) अत्राधिकरणे अधिवेदगत गायत्र्याद्यशेषशब्दसमन्वयः क्रि
यते । सङ्गत्यादिजिज्ञासाजननाय सूत्रमेवादौ पठति—छन्द इति ॥
अत्र छन्दइत्यावर्तते । तच्च व्यस्तं समस्तं च । तथा च ' छन्दोभिधा
नात् ' ' गायत्री वा इदम् ' इति वाक्यस्थगायत्रीशब्देन चतुर्विंशत्यक्ष
रमन्त्रविशेषात्मकछन्दसः प्रतिपादनात्, तच्छब्दस्य तत्र रूढत्वात्,
गायत्रीशब्दवाच्यो न विष्णुः, किन्तु छन्द एव । यतो गायत्री न वि
ष्णुः, अपि तु छन्दः, अतो ज्योतिरपि न विष्णुः, किन्तु छन्दः । कु
तः? 'छन्दोभिधानात् ' छन्दसा गायत्र्या तदैक्याभिप्रायेण ज्योतिषो
ऽभिधानात् उपक्रमादिति चेत्—न, विष्णुरेव ज्योतिः। कुतः? ' निग

१३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २ ) 'अथ यदतः परो दिवो ज्योतिर्दीप्यते' (छा. ३-१३-७.)
दात्' गायत्रीपदेन विष्णोरेवाभिधानात् । गायत्र्यादिपदैर्विष्णोरेवा
भिधानं च न तदभेदविधानार्थः, किन्तु तथोपासनार्थमेवेत्याह—तथे
ति । 'तथा' गायत्र्यादिशब्दार्थगुणस्वरूपत्वेन 'चेतसो' मनसः
'अर्पणाय' ब्रह्मण्य आधानायोपासनार्थमेव विष्णोर्निगदादित्यर्थः । उपा
सनेत्यनुक्त्वा चेतोऽर्पणेत्युक्तिरुपासनास्वरूपकथनार्था । अनेन प्रसिद्ध
गायत्र्यादिपदेन विष्णोरभिधानं व्यर्थमिति शङ्का परिहृता । ननु भ
वेद्गायत्रीशब्दवाच्यत्वेन विष्णोर्ज्योतिश्शब्दवाच्यत्वसाधनम्, यदि
गायत्रीशब्दवाच्यत्वं विष्णोः प्रमितं स्यात् । तदेव कुत इत्यत आह—
तथा हीति । 'हि' य

[ अधि - ११. सू - २५. ] दीपिकासहितम्. १३३
इत्युक्तस्य ज्योतिषो ' गायत्री वा इदग्ं सर्वम् '
( छा. ३-१२-१. ) इति गायत्र्या समारम्भः कृतः ॥
त्वापत्त्या ततएव अग्निसूक्तगतज्योतिषोऽपि तदन्यत्वमेव भवेत् । अ
तएवानन्दमयत्वमपि अन्यस्यैव भवेन्न विष्णोरिति पूर्वोक्ताक्षेपेण ए
तदधिकरणोत्थानात्पूर्वेणास्याक्षेपिकी सङ्गतिः । एवं गायत्री विषयः ।
किं छन्दोविशेषः उत विष्णुरिति सन्देहः । तथा गायत्री छन्दोविशे
ष एव भवेत्; तच्छब्दस्य तत्र रूढत्वादिति सयुक्तिकः पूर्वपक्षः ।
तथा तस्माज् ज्योतिरपि छन्द एवेति तस्यैव गुहानिहितत्वमानन्दम
यत्वं चेति पूर्वपक्षफलं च सूचितं भवति। अत्र पूर्वपक्षे गायत्र्यादिश
ब्दाः मन्त्रपराः, सर्वमपि वाक्यं तन्माहात्म्यपरतया योजनीयम् । सि
द्धान्ते तु ' अथ ' इत्यादेरयमर्थः—भगवन्माहात्म्यान्तरारम्भेऽथश
ब्दः । ' यत् ' श्वेतद्वीपानन्तासनवैकुण्ठगतं नारायणवासुदेववैकुण्ठा
ख्यं रूपत्रयं तत् ' अतः ' एतस्माद्विवक्षिताद्बुद्धिस्थात् ' दिवः परः '
परं तदपेक्षयोच्चस्थानस्थितमित्यर्थः । ' ज्योतिः ' तेजोमयं एवंभूतं त
त् ' विश्वतः पृष्ठेषु '
पृथिव्यां ब्रह्मणो मेरौ वैजयन्तेऽन्तरिक्षगम् ।
तृतीयं सत्यलोके च सदनं त्रिविधं मतम् ॥
इति वचनादन्तरिक्षगवैजयन्तमेरुसत्यलोकगतेभ्यो ब्रह्मसदनेभ्यः क्र
मेणोर्ध्वेषु ' सर्वतः पृष्ठेषु ' अन्तरिक्षपृथिवीस्वरात्मकलोकेभ्यः क्रमे
णोच्चेषु ' अनुत्तमेषु ' न विद्यते उत्तमो लोको येभ्यस्तेषु प्रत्यवरेष्वि
ति वा । ' उत्तमेषु ' स्वयमेवोत्तमेषु ' लोकेषु ' श्वेतद्वीपानन्तासनवै
कुण्ठेषु ' दीप्यते ' प्रकाशते ' तत् ' दीप्यमानं तेजः ' इदं वाव ' इदं
खलु । इदं च किम्? ' यदिदमस्मिन् पुरुषे ' हृदये ' अन्तर्ज्योतिः ' त
च्छब्दितं ब्रह्मास्ति तत्तेनैकीभूतमित्यर्थः । यो गायत्रीनामा गायत्रीसं
स्थः स्त्रीरूपो हयशीर्षाख्यो भगवान् तदिदं प्रथमं रूपमित्याशयेन तस्य
द्वितीयं रूपं वक्तुं गायत्र्यादिवाक्यं प्रवृत्तम् । ' यदिदं किञ्च भूतं '
पूर्णं मत्स्याद्यवताररूपं यच्च ' सर्वं ' सर्वान्तःस्थितं रूपं तत्सर्वं ' गाय
त्री ' गायत्रीनामा भगवान् एव । वै प्रसिद्धम् । तस्यैव तृतीयं रूपमा
ह—वागिति । गायत्रीनामा भगवान् ' वाग्वै ' वाङ्नामको विष्णुरेव ।
कुतोऽस्य विष्णुत्वमित्यतस्तल्लक्षणयोगादित्याह—वाग्वा इति । ' इदं

१३४ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - १. पा - १. ]
तस्मान्न विष्णुरिति चेत्-न, तथा चेतोर्पणार्थं हि नि
गद्यते । अग्निगायत्र्यादिशब्दार्थरूपोऽसाविति चेतोर्प
णार्थं हि निगद्यते ।
सर्वं भूत' प्राणिजातं 'वाग्वै' वाग्द्वात्मकभगवदधीनमेव । अतः सर्व
स्वामित्वाद्वाचो विष्णुत्वमिति । सिद्धान्तसूत्रांशमनुकरोति—नेति ।
निगद्यत इत्यत्रापि सम्बध्यते । तथा च ज्योतिःशब्दवाच्यो विष्णुर्नेति
न, किन्तु ज्योतिःशब्देन विष्णुरेव निगद्यत इत्यर्थः । कुत इत्यतो नि
गदादिति हेतुं योजयति—हि निगद्यत इति । गायत्रीशब्देनेति शेषः ।
तथा च 'हि' यस्माद्गायत्रीशब्देनापि विष्णुरेव 'निगद्यते' अभिधी
यते तस्मादित्यर्थः । विष्णोर्गायत्र्यादिशब्दैरभिधानं च न तदभेदवि
धानार्थं, किन्तु तथोपासनार्थमेवेत्याह—तथेति । चेतोर्पणेत्युक्तिप्रयो
जनं पूर्ववत् । भाष्यत्वज्ञापनाय तथेत्यादिस्वपदानि तथा शब्दार्थक
थनेन विवृणोति-अग्नीति । अत्र ज्योतिश्शब्दोपलक्षकाग्निपदं ज्यो
तिस्सूत्रस्य भिन्नाधिकरणत्वपक्षे अन्यत्र प्रसिद्धस्य गायत्रीपदस्य
विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वत्रोत्तरत्र चाग्न्यादिप
दस्य विष्णौ प्रयोगे प्रयोजनं सूचितमिति दर्शयितुम् । न च गाय
त्र्यादिपदाभ्यामेव गायत्रीपदसमन्वयफलस्य पूर्वत्रोत्तरत्र चोक्तसम
न्वयफलस्य च सूचनसम्भवादग्निपदं व्यर्थमिति वाच्यम् । फलीभूत
समन्वयविषयत्वेनास्यापि अवश्योपादेयत्वात् । समानप्रकरणस्थ
वागादिग्राहकत्वेन आदिशब्दस्याप्यावश्यकत्वात् । अवश्यपेक्षिता
भ्यामुभाभ्यामप्यानन्दमयाद्यधिकरणेषु उत्तरत्र चोक्तप्रयोजनस्यापि
सूचनसम्भवादुभयमप्यावश्यकम् । ज्योतिरित्यादिचतुःसूत्र्या एका
धिकरणत्वपक्षे तु साक्षात्समन्वेतव्यशब्दत्वेनैव शब्दद्वयोपादानं, न
तु फलत्वेनाग्निशब्दस्याधिकरणान्तरेऽप्येतन्न्यायसूचनं तु आदिशब्दे
नैव, न तूभाभ्याम् । भिन्नजातीयानेकशब्दग्रहणार्थं शब्दद्वयोत्तरादिप
दम् । अत एव तत्त्वप्रदीपे-आदिशब्दस्योभयत्रान्वयं प्रथमादिशब्दे
न तेजःशब्दानां द्वितीयेन छन्दश्शब्दानां च ग्रहणमभिप्रेत्य 'अग्न्या
दितेजःशब्दानां गायत्र्यादिच्छन्दश्शब्दानां च' इत्युक्तम् । केचित्तु-
भाष्यगतहिशब्दो ज्ञानार्थमथ ध्यानार्थमिति प्रमाणप्रसिद्धिव्योतकः, अ
धिकरणान्तरेऽप्यस्य न्यायस्यानुसन्धेयत्वज्ञापकश्चेत्याहुः । चेतोर्प
णार्थमिति सावधारणम् । तथा च 'असौ' भगवानग्निगायत्र्यादिश

[ अधि - ११. सू - २५. ] दीपिकासहितम्. १३५
( ३ ) तथा हि दर्शनं ' गायति त्रायति च ' ( छा. ६-१२-
१०.) इत्यादि ।
( ४ ) सर्वच्छन्दोऽभिधो ह्येष सर्वदेवाभिधो ह्यसौ ।
सर्वलोकाभिधो ह्येष तेषां तदुपचारतः ॥
इति वामने ॥
द्वेरभिगायत्र्यादिशब्दार्थगुणस्वरूप इति । तत्र ' चेतोर्पणार्थं ' बुद्ध्य-
वतारणार्थं उपासनार्थमेव निगद्यते, न तद्भेदविधानार्थमित्यर्थः। इती-
त्यन्तेन तथाशब्दार्थ उक्तः । अनेनाप्रसिद्धगायत्र्यादिपदेन विष्णोर-
भिधानस्य वैयर्थ्यशङ्का परिहृता ॥
( ३ ) ननु भवेद्गायत्र्यादिशब्दवाच्यत्वेन विष्णोर्ज्योतिश्शब्दवा-
च्यतासाधनं यदीयं गायत्री विष्णुः स्यात्तदेव कुत इत्यतां गानत्राण-
कर्तृत्वलिङ्गादित्याशयेन तस्यासिद्धिपरिहाराय प्रवृत्तं तथाहीति सूत्र-
शेषं अनुकृत्य दर्शनपदोक्तां श्रुतिं दर्शयति—तथेति ॥ ' हि ' यस्मात्
'इत्यादि दर्शनं' श्रुतिरस्तीत्यन्वयः । यद्यपि 'गायति त्रायतेच'इति पा-
ठः छन्दोगानाम्, तथाऽपि शाखान्तरमेवेदमित्यदोषः। आदिपदेन 'या
वै सा गायत्री इयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठित-
मेतामेव नातिशीयते' (छा.३-१२-२.) इत्यादिकं गृह्यते। श्रुत्यर्थस्तु-
यतो गायत्रीवाच्यो भगवान् वेदान् 'गायति' मुखान्निस्सारयति प्रथ-
मो वक्तेति यावत् । यस्माच्च 'त्रायते' अखिलमिति शेषः । अतो गायत्री
शब्देनोच्यते । 'या' प्रसिद्धा गायत्री तन्नामा विष्णुः 'सा इयं वै' इयं
खलु । किमियं ? 'येयं पृथिवी' तन्नामा भगवान् । कथं पृथिवी विष्णु-
रित्यतः तल्लक्षणयोगादित्याह—अस्यां हीदमिति । ' अस्यां ' पृथिव्यां
'भूतं' प्राणिजातमाश्रितमिति । सुधायां तु पूर्वपक्षानुगुणतया गाय-
त्री 'गायति' अर्थं प्रतिपादयति, अध्येतॄन् 'त्रायते' पालयति पापा-
त् रक्षतीत्यर्थ उक्तः ॥
( ४ ) ननु गायत्र्यादिशब्दस्य अन्यत्र रूढत्वात्कथं लिङ्गमात्रेण
विष्णुत्वनिश्चय इत्यतो गायत्र्यादिश्रुतेः सावकाशत्वादिति भावेन
गायत्र्यग्निपृथिव्यादिशब्दाः न केवलं श्रुत्युक्तयोगेन विष्णौ सावका-
शाः, अपि तु पौराणिकरूढ्या गायत्र्याः भगवदधीनत्वाद्पीत्याशये-
न तत्र स्मृतिमाह—सर्वैति ॥ ' एषः ' विष्णुः ' सर्वच्छन्दोऽभिधः '
सर्वच्छन्दसां अभिधेयाभिधा यस्येति बहुव्रीहिः। छन्दोवाचकगाय-

१३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ५ ) सू—ॐ ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ ॐ ॥ २६ ॥
त्र्यादिसर्वशब्दवाच्यः । 'एवमसौ' विष्णुः सर्वदेवतावाचकाग्न्या-
दिशब्दवाच्यः । तथा 'एषः' विष्णुः सर्वलोकवाचकपृथिव्यादिशब्द-
वाच्य इत्यर्थः । कुत इत्यतः छन्दादीनां भगवदधीनत्वादिति प्रत्ये-
कं हेतुत्रयसूचनाय हिशब्दत्रयं, वेदप्रसिद्धिज्ञापनाय वा । छन्दसां
लोकानां च प्रत्यक्षत्वात् देवानां च परोक्षत्वादेषोऽसाविति विचित्रो-
क्तिः । कथं तर्ह्यन्यत्र व्यवहार इत्यत आह—तेषामिति । छन्दोदेव-
लोकानामित्यर्थः । 'तत्' तच्छब्दबोध्यत्वं 'उपचारतो' विष्णुसमी-
पे चरणात्तदधीनत्वादमुख्यत एवेत्यर्थः । वामन इत्यस्य 'हि' यतो
वामने इति 'दर्शनं' प्रतिपादनम

[ अधि - ११. सू - २६. ] दीपिकासहितम्. १३७
( ६ ) 'तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' (छा.
३ - १२ - ६.) इति ।
( ७ ) सुवर्णं कोशं रजसा परीवृतम् । देवानां वसुधानीं
क्तम्' (छां. ३-१२-५.) इति 'तदेतत्' भगवतश्चतुष्पादत्वं 'ऋचा'
ऋङ्‌मन्त्रेण 'अभि' निश्शङ्कं स्पष्टं 'अनु' आनुकूल्येनोक्तमित्यर्थः ॥
( ६ ) किमुक्तमित्यतस्तन्मन्त्रं पठति—तावानिति ॥ यद्यपि ऋचि
'एतावान्' इति 'विश्वा' इति च पाठः । तथाऽपि शाखान्तरपाठोऽयमि-
त्यदोषः । 'अस्य' पुरुषस्य 'पुरुष एवेदं सर्वम्' (तै. आ. ३-१२.) इत्युक्ता
यस्सर्वेशानत्वादिरूपः तावान्महिमोक्तः, न केवलमेतावान्, किन्तु,
पुरुषः 'ततः' पूर्वोक्तादपि महिम्नो 'ज्यायान्' अधिकमाहात्म्योपेत
इत्यर्थः । ज्यायस्त्वमेव दर्शयति—पादोऽस्येत्यादिना । 'सर्वा भूतानि'
सर्वं विश्वं 'अस्य' विष्णोरेकः 'पादः' पादवत्पादो भिन्नांशः । यद्य-
पि तत्त्वप्रदीपे—विश्वभूतविधिर्भाति । तथापि टीकायां-सर्वाणि भू-
तान्यस्यैकः पाद इति पादविधानदर्शनात्, चन्द्रिकायां-'पश्वेकत्व-
वत् विधेयगतत्वात्पादैकत्वं विवक्षितम्' इत्युक्तत्वाच्च, तत्त्वप्रदीपो-
प्येवमेव व्याख्येयः । अस्य 'अमृतं' नाशरहितं अतएव स्वरूपभूतं
'त्रिपात्' त्रयाणां पादानां अंशानां समुदायो नारायणवासुदेववैकु-
ण्ठसंज्ञं त्रिषु रूढ्या द्योतमानत्वाच्च द्युशब्दवाच्येषु श्वेतद्वीपानन्तास-
नवैकुण्ठेषु तिष्ठतीति ऋचोक्तमित्यर्थः । यद्यपि भूतशब्दो 'भिन्नपाद-
स्सर्वजीवाः' इति छान्दोग्यभाष्ये जीवपरतया व्याख्यातः । तथाऽपि
'सुवर्णम्' इति श्रुत्यनुसारेण अत्र विश्वार्थतया व्याख्यातव्यः ॥
( ७ ) ननु गायत्र्यामिव विष्णावपि भूतादिपादत्वोक्तिरनुपप-
न्ना । तस्य भूतभिन्नत्वादित्यत आह—सुवर्णमित्यादि ॥ 'सुवर्णम्'
इत्यारभ्य 'भिन्नं च' इत्यन्तमेकवाक्यतयाऽर्थक्रमेण व्याख्येयम् । य-
ज्ञदत्तस्य, देवदत्तः, इत्युच्यते, विश्वमिति च शेषः । पाद इति चाव-
र्तते । चशब्द एवार्थे हेतौ च । एकदेशपरिमितमिति हेतुगर्भमावर्तनी-
यम् । तथा च 'चो' यतः श्रुतिस्थेन पाद् इति शब्देन न भूतानामित्य-
मृतपादत्रयवत्स्वरूपांशत्वमुच्यते । येनानुपपत्तिः स्यात् । किन्तु, य-
ज्ञदत्तस्य चतुर्भागबलो देवदत्त इतिवद्भिन्नमेव विश्वम् । यतः 'परि-
१८

ीरानभो"?
Wait, "समीरण"? Air = समीरण!
Look at the letters:
स (sa) - म (ma) - ी (ī) - र (ra) - णा (ṇā) - न् (n) - भो (bho)?
WAIT!
Look at:
त (ta) - look at the letter before: क्षि (kṣi).
Is it "र-जो-गु-णो-प-ल-क्षि-त-"?
Wait, what is before समीरण?
अप् (water), तेजस् (fire)!
Could it be "अब्-तेजः-समीर"?
Wait, look at the glyphs:
Letter 1 after क्षि:
त (ta)
Letter 2:
ा (aa)? Wait, is it ा, or is it a vertical line of something else?
Wait, look at:
"अब्" - does it have अब्?
Look at:
त (ta) with what?
Wait! Could it be:
"तावच्छरीरानभो"?
No, why शरीर? The text says:
"विराजं ब्रह्मणः शरीरं" in the very next line (L18)!
Wait! In L16-17:
"'रजसा परीवृतं ' रजोगुणोपलक्षिता..."
Wait, what does "रजसा परीवृतम्" mean in the Upanishad?
Mantra: "सुवर्णं कोशं रजसा

[ अधि - १०. सू - २६. ] दीपिकासहितम्. १३९
(८) स हि पुरुषसूक्ताभिधेयः । ‘यज्ञेन यज्ञमयजन्त’
(तै. आ. ३-१२.) इति यज्ञशब्दात् । ‘यज्ञो विष्णु
र्देवता’ ( श्रुत्यन्तरम्.) इति हि श्रुतिः।
(९) तस्मिन् काले महाराज राम एवाभिधीयते ।
(८) स्यादेतदेवं यदि ‘तावान्’ इत्यस्यामृचि विष्णुरभिधीय
त इत्यत्र प्रमाणं स्यात्, तदेव नास्ति, अतो लिङ्गमन्यनिष्ठं भविष्यती
त्यतः सौत्रचशब्देन भूतादिपादत्वस्य विष्णुलिङ्गत्वे साध्ये पुरुषसू
क्तोक्तत्वादिति यदनुमानं सूचितं तस्याप्रयोजकत्वमाशङ्क्य परिहर
ति—स हीति ॥ ‘हि’ यस्मात् ‘सः’ विष्णुरेव ‘पुरुषसूक्ताभिधेयः’ त
त्प्रतिपाद्यः तस्मात्स एव पुरुषसूक्तोक्तभूतादिपादोऽपीति योजना। अ
न्यथा भूतादिपादत्वस्य विष्णुधर्मत्वाभावे पुरुषसूक्तप्रतिपाद्यत्वं न
स्यादिति भावः। यद्वा—गायत्र्या विष्णुत्वे साध्ये सूत्रे भिन्नक्रमेणा
न्वितचशब्दसूचितयुक्त्यन्तरमाह-स हीति। अस्य तस्माद्गायत्री वि
ष्णुरेवेति प्रधानप्रतिज्ञावाक्येनान्वयः। चतुष्पदेत्युक्तगायत्रीचतुष्पा
दत्वस्य पुरुषसूक्तमन्त्रेणोपपादनात् तत्प्रतिपाद्यत्वे तदुपपाद्यगाय
त्रीशब्दार्थताऽपि तस्यैव प्राप्नोतीति भावः। पुरुषसूक्तोक्तस्य विष्णु
त्वं कुत इत्यत आह—यज्ञेनेति । देवाः ‘यज्ञेन’ ज्ञानकर्मात्मकेन रुद्रा
ख्यपशुना वा ‘यज्ञं’ विष्णुं ‘अयजन्त’ अपूजयन्निति श्रुत्यर्थः । इति
यज्ञशब्दादिति । इति वाक्ये यज्ञशब्दश्रवणादित्यर्थः । यज्ञशब्दः कथं
विष्णुत्वनिश्चायक इत्यतो शिष्टरूढ्येत्याह—यज्ञ इति । ‘हि’ यतः य
ज्ञ इति पदेन विष्ण्वाख्या देवतोच्यत इत्यर्थः । यद्यपि ‘यज्ञो वै वि
ष्णुः’ इत्यध्वर्यूणां श्रुतिः । तथाऽपि श्रुत्यन्तरमिदमित्यदोषः ॥
(९) ननु पुरुषसूक्तं न विष्णुप्रकरणं, किन्त्वन्यप्रकरणमेव । न
च यज्ञश्रुतिविरोधः। पशुरूपान्यप्रकरणे तदन्यविष्णुश्रुतेः अयोगादि
तिवाच्यम् । तस्याः प्रासङ्गिकत्वसम्भवात् । न च तत एव भूतादिपाद
त्वस्य विष्णुलिङ्गत्वनिश्चयः । तथाऽप्यसिद्धिः । ‘पादोऽस्य विश्वा भू
तानि’ इति श्रुतेर्भूतादिपादे यज्ञश्रुतेरभावादित्यतः पुरुषसूक्तोक्तस्य
विष्णुत्वे स्मृतिञ्चाह—तस्मिन्निति ॥ महाराजेति कस्यचित्सम्बो
धनं रामविशेषणं वा । तथात्वे दीर्घस्स्यात् । तथा च हे महाराज ‘त
स्मिन्’ त्रेतायुगे सर्वैः पुरुषनामभी राम एवाभिधीयते इत्यर्थः । अतए
वांशाधिकरणे—

१४० ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - १.]
यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते ।
इति च स्कान्दे ॥
(१०) सू—ॐ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यवि-
रोधात् ॥ ॐ ॥ २७ ॥
'त्रिपादस्यामृतं दिवि' (छां.३-१२-६.) इति पूर्वोपदे-
शः। 'परो दिवः' (छां.३-१३-७.) इति पञ्चम्यन्तः पश्चिमः।
नक्षत्रमानगणितं त्रयोदशसहस्रकम् ।
ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम् ॥
रामोराम इति ह्याख्या सर्वेषामभवत्तदा ।
सर्वो राममयो लोको यदा रामस्त्वपालयत् ॥
इति स्कान्दे इत्युक्तं तत्त्वप्रदीपे । अत्र दृष्टान्तमाह—यथेति । यथा
कृत्स्ने पौरुषे सूक्ते विष्णुरेव न त्वन्यः । पशुः नरः प्रासङ्गिकतयाऽ
भिधीयते इत्यर्थः । अनेन सिद्धस्यैव दृष्टान्तत्वात्पुरुषसूक्तस्य विष्णु
परत्वं सिद्धमिति भावः । स्कान्द इत्यनन्तरं एतदुक्तमिति शेषः । अ
स्य स हीति पूर्ववाक्येनान्वयः ॥
(१०) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—उपदेशेति ॥ 'उ
पदेशयोः' सप्तमीपञ्चमीयुतवाक्ययोः 'उपदेशेन' गायत्रीज्योतिषोः
द्युस्थत्वदिवःपरत्वरूपविरुद्धधर्मोक्त्या 'भेदात्' विरोधात् न द्वयो
र्विष्ण्वाख्यं एकं वस्तु प्रतिपाद्यं, किन्तु भिन्नमेवेति चेत्—न, किन्तु
'उभयस्मिन्' उभयत्राप्युपदेशे एकमेव प्रतिपाद्यं, कथं ? अविरोधा
त् । त्रिसप्तलोकापेक्षया सप्तमीपञ्चम्योः एकार्थत्वेन विरोधाभावा
दिति सूत्रयोजनामभिप्रयन्नाक्षेपांशं तावद्व्याचष्टे—त्रिपादिति । 'पू
र्वोपदेशः' पूर्वोक्तिः । 'पश्चिमः' पश्चात्तनः उत्तर उपदेशस्तद्भिन्नोऽ
स्तीति शेषः । विरोधस्फोरणाय पञ्चम्यन्त इत्याद्युक्तिः । उपक्रमग
तस्य प्राबल्योपपादनाय पूर्व इत्युक्तिः । ततः किमित्यत आह—तस्मा
दिति । यस्मादेवं भिन्नोपदेशद्वयमस्ति तस्मादत्रोपदेशद्वये गायत्री
ज्योतिश्शब्दाभ्यां नैकं वस्तु विष्ण्वाख्यमुच्यते । कुतः ? यतोऽत्र 'नैकं'
अनेकं वस्तु द्युस्थत्वदिवःपरत्वरूपं धर्मद्वयमुच्यते । किन्त्वत्र 'नै
कं' अनेकं वस्तुद्वयमुच्यते इति योजना । सिद्धान्तयत्सूत्रांशं व्याच
ष्टे—नेति । नात्र वस्तुद्वयमुच्यते इत्यर्थः । किं त्वितिशेषः, एकं वस्तु
च्यते इति अनुषज्यते । उभयस्मिन्निति साध्यान्तर्गतम् । अपिशब्दो

[ अधि - ११. सू - २७. ] दीपिकासहितम्. १४१
तस्मान्नैकं वस्त्वत्रोच्यते इति चेत्-न, त्रिसप्तलो
न केवलमेकत्र, किन्तुभयत्रापीति समुच्चये। तथाच किन्तुभयस्मिन्
अप्युपदेशे एकमेव विष्ण्वाख्यं वस्तुच्यते इति योजना। विरोधात्क
थमेतद्युज्यते इत्यत आह—त्रिसप्तलोकापेक्षयेति। त्रिलोकविवक्षया
सप्तलोकविवक्षया च 'अविरोधात्' उभयत्राप्येकवस्त्वभिधाने वि
रोधाभावादित्यर्थः। अयं भावः—यदा भूर्भुवस्स्वरिति लोकत्रयविव
क्षा, तदा लक्षयोजनोच्छ्रितान्तरिक्षाख्यभुव उपरितनस्य सर्वस्यापि
द्युत्वात् श्वेतद्वीपानन्तासनवैकुण्ठानां चान्तरिक्षादुपरितनत्वात्तत्रत्यं
नारायणवासुदेववैकुण्ठाख्यं त्रिपाच्छब्दोक्तं रूपत्रयं दिवि तिष्ठतीत्यु
च्यते इति न सप्तम्यन्तोपदेशविरोधः। न

१४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
कापेक्षया उभयस्मिन्नप्यविरोधात् ॥
१२. अधिकरणम् ॥
( १ ) प्राणो विष्णुरित्युक्तम् । तत्र ' ता वा एताः शीर्षन्
छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः' (ऐ. आ.
२-१-४. ) इत्यत्र प्राणस्य विष्णुत्वं न युज्यते । इन्द्रि
यैस्सहभिधानादिति । अत आह—
इति प्रमाणविरोधापातात् । छान्दोग्यभाष्ये तु—
अनन्तशयनं चैव तथाऽनन्तासनं हरेः ।
बहुलक्षोच्छ्रिते नित्ये विमाने संस्थितं यतः ॥
चित्रप्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ ।
इति प्रमाणबलेन चित्रप्रकृत्यात्मकानन्तासनश्वेतद्वीपवैकुण्ठाख्यस्थान
त्रये सप्तम्यन्तो द्युशब्दो द्योतमानत्वनिमित्तेन यौगिकः, स्वर्गादौ तु
रूढ इति उपदेशयोरविरोध इति प्रकारान्तरेण विरोधपरिहारः
कृतः ॥ ११ ॥
॥ इति छन्दोभिधानाधिकरणम् ॥
१२. अधिकरणम् ॥
( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धप्राणनाम्नो विष्णौ समन्व
यः प्रतिपाद्यते । श्रुत्यादिसङ्गतिविषयवाक्यविषयसंशयसयुक्तिकपूर्व
पक्षान् दर्शयति-प्राण इति। आद्यप्राणाधिकरणे 'तद्वै त्वम्' (तै.आ.३-
१४.) इति वाक्योक्तप्राणो विष्णुरित्युक्तमित्यर्थः । ततः किमित्यत आह-
तत्रेति । उक्तमित्यनुषज्यते । तस्यावृत्तिविपरिणामौ । एवं तत्रेत्यप्याव
र्तनीयम् । तथा च 'तत्र' तद्वै त्वमिति वाक्ये उक्तस्य प्राणस्य विष्णुत्वं
न विद्यते न युज्यते । कुतः ? यतस्तत्र 'तद्वै त्वम्' इति वाक्योक्तप्राण
विषये 'उक्ते' श्रुते 'ता वा एताः' इत्यैतरेयवाक्ये उक्तस्य श्रुतस्य प्रा
णस्य विष्णुत्वं न विद्यत इति योजना । कुतो न विद्यते इत्यत आह-
इन्द्रियैस्सहभिधानादिति । इन्द्रियैस्सह पठितत्वात् इन्द्रियगणे ग
णितत्वात् इत्यर्थः । अनेनैतरेयप्राणस्य विष्ण्वन्यत्वाक्षेपमुखेन प्राची
नतैत्तिरीयोक्तप्राणस्याप्यन्यत्वाक्षेपात्तेनास्याक्षेपिकी सङ्गतिरुक्ता भ
वति । ऐतरेयप्राणाख्यो विषयः । प्राणोऽन्य उत विष्णुरिति संशयश्च

[ अधि - १२. सू - २८. ] दीपिकासहितम्. १४३
( २ ) सू—ॐ ॥ प्राणस्तथाऽनुगमात् ॥ ॐ ॥ २८ ॥
‘तं देवाः प्राणयन्त’ (ऐ. आ. २-१-५.) ‘स एषोऽ
सुः स एष प्राणः’ (ऐ. आ. २-१-८.) ‘प्राण ऋच
इत्येव विद्यात्’ (ऐ. आ. २-२-२.) ‘तदयं प्राणोऽ
धितिष्ठति’ (ऐ. आ. २-३-८.) इत्याद्यनुगमात् ।
( ३ ) अत्रापि प्राणो विष्णुरेव ।
सूचितः । तथा वाय्वादिरन्य एवेति पूर्वपक्षः । इन्द्रियगणे गणितत्वा
ख्यतत्साधकलिङ्गं च सूचितम् । ‘ता वा एताः’ इत्येतच्च चतुर्मुख
शिरसि शिरश्शब्दप्रवृत्तिनिमित्तकथनाय प्रवृत्तम् । वैशब्दः प्रसिद्धौ ।
तथा च यतः ‘ता एताः’ चक्षुः श्रोत्रं मनोवाक्प्राण इत्येतच्छब्दवाच्या
स्तदभिमानिन्यो देवताः । ‘शीर्षन्’ शीर्षणि शिरःसंज्ञकमूर्ध्नि श्रि
ताः । अत एव श्रयणाच्छ्रिय इति सिद्धान्ते श्रुत्यर्थः । अनेन चक्षुरा
दिभिः श्रितत्वं शिरःपदप्रवृत्तिनिमित्तमित्युक्तं भवति । पूर्वपक्षी तु प्रा
णशब्दमन्यमात्रपरं मन्यते । सिद्धान्तयत्सूत्रमवतारयति-अत इति ।
यतः पूर्वपक्षः प्राप्तः अत उत्तरं सूत्रमाह भगवान् बादरायण इत्यर्थः॥
( २ ) सूत्रं पठित्वा तत्रानुगमादिति हेत्वंशं श्रत्युदाहरणेन व्या
चष्टे—प्राण इति ॥ इत्यादीति । एवमादिवाक्योक्तानां देवतोपदेश्य
त्वादिलिङ्गानामत्रास्मिन् प्रकरणे बहुषु स्थलेषु ‘अनुगमात्’ अनुवृत्ते
रभ्यासादित्यर्थः । आदिपदेन ‘प्राणो ह्येवैष य एष तपति’ इति सूर्य
मण्डलस्थत्वप्रतिपादकवाक्यं गृह्यते । तथा ‘सर्वाणि भूतान्यापिपी
लिकाभ्यः प्राणेन बृहत्या विष्टब्धानि’ इत्यादि वाक्यं च गृह्यते ॥
( ३ ) सौत्रं तथाशब्दं व्याचष्टे—अत्रापीति ॥ श्रुत इति शेषः ।
न केवलं ‘तद्वै त्वम्’ इत्यत्र, किन्त्वैतरेयेऽपीति समुच्चयेऽपिशब्दः ।
सूत्रे अनुवृत्तस्य तत्त्वित्यस्यार्थमाह—विष्णुरेवेति । अनेन यथा ‘तद्वै
त्वम्’ इति श्रुत्युक्तप्राणो विष्णुः तथैतरेयोक्तोऽपि विष्णुरेव, न त्व
न्यः । कुतः? विष्णुलिङ्गानां देवतोपदेश्यत्वादीनामस्मिन् प्रकरणे ‘अ
नुगमात्’ अनुवृत्तेरभ्यासादिति सूत्रार्थ उक्तो भवति ॥
ऐतरेये ‘तं देवाः प्राणयन्त’ इति एकखण्डस्थवाक्यम् । ‘तं’
नारायणं वायुं च देवाः ‘प्राणयन्त’ प्रकर्षेण शिष्यप्रशिष्यादिषु नी
तवन्तः उपदिदिशुरित्यर्थः । अनेन विष्णोः सर्वदेवोपास्यत्वमुक्तं
भवति ॥

१४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
'स एषोऽसुः स एष प्राणः स एष भूतिः' इत्याद्यन्यखण्डगतं
वाक्यम् । अनेन भूतित्वादिना देवाद्युपास्यत्वमुच्यते । 'स एषः' भ-
गवान् दुष्टनिरसनादसुः प्रकृष्टानन्दरूपत्वात्प्राणः देवानां भूतिशब्दित-
ज्ञानाद्यैश्वर्यप्रदत्वादसुराणां अज्ञानाद्यनैश्वर्यहेतुत्वाच्च भूत्यभूतिशब्द-
वाच्य इत्यर्थः ॥
तत्रैव 'ता वा एताः सर्वा ऋचः सर्वे देवाः सर्वे घोषा एकैव व्याहृ-
तिः । प्राण एव प्राण ऋच इत्येव विद्यात्' इति अन्यद्वाक्यम् । अत्र
प्राणस्य सर्ववेदोक्तत्वमुच्यते । यास्ता एताः सर्वा ऋचस्तासां 'ए-
कैव व्याहृतिः' एकमेव व्याहर्तव्यं प्रतिपाद्यम् । तच्च किं ? प्राणो वि-
ष्णुरेव । किञ्च ये सर्वे वेदाः तेषामपि प्राण एव प्रतिपाद्यः । अपि च
[L

[ अधि - १२. सू - २८. ] दीपिकासहितम्. १४५
( ४ ) विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते ।
स एव सर्ववेदोक्तस्तद्रथो देह उच्यते ॥
इति स्कान्दे ।
( ५ ) ब्रह्मशब्दानुगमाच्च ॥
( ४ ) ननु बाहुल्येन बलवतः सैद्धान्तिकलिङ्गादपि पूर्ववाद्युक्त
लिङ्गमेव बलवत् । निरवकाशत्वेन स्वभावतो बलवत्त्वात् । न चावि-
शेषेणानिर्णयः, बाहुल्येन बलवतोऽपि स्वभावबलिनः प्राबल्यात् ।
यदाहुः—
द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोस्स्वभावो बलवान् उपजीव्यादिकश्च सः ॥
इति । अतः कथं तैर्विष्णुत्वनिश्चय इत्यतो देवतोपदेश्यत्वादिलिङ्ग-
नां निरवकाशत्वमपि स्मृत्या साधयति—विष्णुमिति ॥ देवाः विष्णु-
मेव प्राधान्येन शिष्यादिषु ज्ञानसम्प्रदायप्रवर्तनेन 'आनयन्' उपादि-
शन् । भूतिमुद्दिश्य विष्णुमेवोपासते । भूतिमिति विधेयविशेषणं वा ।
तथा च विष्णुं भूतिं भूतिर्ज्ञानाद्यैश्वर्यरूप इत्युपासते इत्यर्थः । ' सः '
विष्णुर्मुख्यवाच्यतयेति शेषः, तेनैवकारोपपत्तिः । ' तद्रथो ' विष्णोरे-
व रथः । अत्रैवकारस्य द्विर्ग्रहणात्सर्वत्रानुषङ्गः सूचितः । तेन सर्व-
लिङ्गानामपि निरवकाशत्वमुक्तं भवति । स्कान्दे इत्यनन्तरं लिङ्गाना-
मनन्यथासिद्धत्वमुक्तमिति वाक्यशेषः । तथाचैकप्रकारेण प्रबलात्पू-
र्वपक्षिलिङ्गात्प्रकारद्वयेनापि प्रबलस्य सैद्धान्तिकलिङ्गस्याधिक्येन
निर्णयोपपत्तिरिति भावः । अभ्युपेत्य चेदमुदितम् । वस्तुतस्तु पूर्वपक्षि-
लिङ्गस्य न निरवकाशत्वेनापि प्राबल्यमस्ति, प्राणैः सहगणितत्वस्या-
न्तर्यामिनिष्टतासम्भवात् ॥
( ५ ) यदा बहुत्वनिरवकाशत्वाख्यप्रकारद्वयेनापि दुर्बललिङ्गस्यो-
भयथाप्रबललिङ्गतो बाधसम्भवेन तेनैव प्राणस्य विष्णुत्वसिद्धिः, त-
दा किमु वाच्यं निरवकाशब्रह्मशब्दाभ्यासादिति भावेनानुगमपदं प्र-
कारान्तरेण व्याचष्टे-ब्रह्मेति ॥ अस्मिन् प्रकरणे ' एतद्ब्रह्म ' (ऐ.आ.२-
१-१०) 'ब्रह्मणो लोकः' (ऐ.आ.२-१-३.) 'ब्रह्मेमं पुरुषम्' (ऐ.आ.२-१-४.)
'उदरं ब्रह्मेत्याचक्षते' (ऐ.आ.२-१-४.) 'अ इति ब्रह्म' (ऐ.आ.२-३-८.) इ-
त्यादिनिरवकाशब्रह्मशब्दाभ्यासाच्चेत्यर्थः । एतद्विष्णुस्वरूपं ब्रह्म गुण-
पूर्णम् । अयं जीवो ब्रह्मणः परस्याश्रयः । इमं पुरुषं चतुर्मुखं परब्रह्म
१९