सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 177, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 177

१३० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २ ) तच्च ज्योतिरग्निसूक्तत्वात्प्रसिद्धेश्चाग्निरेवेति प्राप्तम् ।
( ३ ) अत आह—
सू—ॐ ॥ ज्योतिश्चरणाभिधानात् ॥ ॐ ॥ २४ ॥
विष्णुरेव ज्योतिः । कर्णादीनां विचरणाभिधानात् ।
( ४ ) स हि 'परो मात्रया तन्वा वृधान' (ऋ.७-९८-२.)
रहमित्येकान्वयेन व्याख्यातम् ॥
( २ ) अथ सयुक्तिकं पूर्वपक्षयति — तच्चेति ॥ चस्समुच्चये । त
दिति चावर्तते । अग्निशब्दो भूतदेवतापरः । द्वितीयचशब्दो भिन्नक्र
मः। तथा च तज्ज्योतिर्गुहानिहितं चाग्निरेव भवेदिति प्राप्तं, कुतः ? 'प्र
सिद्धेः ' ज्योतिःश्रुतेस्तस्याश्च तस्मिन्नग्नावेव प्रसिद्धेः रूढत्वात् । न
केवलं श्रुतेरेवेदं ज्योतिरग्निः, किन्तु तस्य ज्योतिषः ' अग्निसूक्तत्वा
त् ' अग्निप्रकरणगतत्वाच्चेति योजना । अतएव पूर्वपक्षोपसंहारटीका
यां श्रुतिप्रकरणयोर्बलवत्त्वादिति प्रसिद्धपदलक्षितायाः श्रुतेः प्रथममु
क्तिः । अत एव चन्द्रिकायां भाष्ये अग्निसूक्तस्थत्वाद्वेति चशब्दप्रयो
गादित्युक्तम् । तथाच श्रुतिप्रकरणाभ्यां गुहानिहितत्वलिङ्गमात्रस्य
बाधात् अग्निरैवेदं ज्योतिर्गुहानिहितं चेति भावः ॥
( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ यतः पूर्वपक्षः प्रा
प्तोऽतः उत्तरं सूत्रमाह भगवान्बादरायण इत्यर्थः । तदेव सूत्रं पठति-
ज्योतिरिति । सूत्रे तच्चित्यस्य अनुवृत्तिं विपरिणामं चाभिप्रेत्य प्रति
ज्ञांशं व्याचष्टे—विष्णुरेवेति । ' ज्योतिः ' तच्छब्दवाच्यो विष्णुरेव भ
वेदिति योजना । कुत इत्यतः प्राप्तं ' चरणाभिधानात्' इति हेत्वंशं च
रणशब्दस्य विचरणार्थत्वं कर्णादीनामित्यस्य अध्याहारं चाभिप्रेत्य
व्याचष्टे—कर्णादीनामिति । अत्र वाक्ये कर्णादीनामेतज्ज्योतिःप्रति
विरुद्धचरणोक्तेः कर्णादिविदूरत्वलिङ्गश्रवणादित्यर्थः । अत्र कर्णादि
विदूरत्वं नाम तैरियमिति परिच्छेदायो ग्यवैभवत्वं, न तु कर्णादिविदू
रत्वमात्रम् । तद्विषये तस्यासम्भवात् । अभिधानपर्यन्तधावनं हेत्व
सिद्धिपरिहारायेति द्रष्टव्यम् ॥
( ४ ) नन्वस्तु ज्योतिषः कर्णादिविदूरत्वोक्तिः, तावता तस्य वि
ष्णुत्वं कुत इत्यतः कर्णादिविदूरत्वस्य विष्ण्वेकलिङ्गत्वे श्रुतिमुदाहर
न् तत्प्रतिजानीते—स हीति ॥ एवेत्यनुषज्यते । आदिशब्देन ' न ते वि
ष्णो ' इत्यादिकं गृह्यते । तथा च ' हि ' यस्मात् ' सः ' विष्णुरेव ' प