सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 182, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 182

[ अधि - ११. सू - २५. ] दीपिकासहितम्. १३५
( ३ ) तथा हि दर्शनं ' गायति त्रायति च ' ( छा. ६-१२-
१०.) इत्यादि ।
( ४ ) सर्वच्छन्दोऽभिधो ह्येष सर्वदेवाभिधो ह्यसौ ।
सर्वलोकाभिधो ह्येष तेषां तदुपचारतः ॥
इति वामने ॥
द्वेरभिगायत्र्यादिशब्दार्थगुणस्वरूप इति । तत्र ' चेतोर्पणार्थं ' बुद्ध्य-
वतारणार्थं उपासनार्थमेव निगद्यते, न तद्भेदविधानार्थमित्यर्थः। इती-
त्यन्तेन तथाशब्दार्थ उक्तः । अनेनाप्रसिद्धगायत्र्यादिपदेन विष्णोर-
भिधानस्य वैयर्थ्यशङ्का परिहृता ॥
( ३ ) ननु भवेद्गायत्र्यादिशब्दवाच्यत्वेन विष्णोर्ज्योतिश्शब्दवा-
च्यतासाधनं यदीयं गायत्री विष्णुः स्यात्तदेव कुत इत्यतां गानत्राण-
कर्तृत्वलिङ्गादित्याशयेन तस्यासिद्धिपरिहाराय प्रवृत्तं तथाहीति सूत्र-
शेषं अनुकृत्य दर्शनपदोक्तां श्रुतिं दर्शयति—तथेति ॥ ' हि ' यस्मात्
'इत्यादि दर्शनं' श्रुतिरस्तीत्यन्वयः । यद्यपि 'गायति त्रायतेच'इति पा-
ठः छन्दोगानाम्, तथाऽपि शाखान्तरमेवेदमित्यदोषः। आदिपदेन 'या
वै सा गायत्री इयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठित-
मेतामेव नातिशीयते' (छा.३-१२-२.) इत्यादिकं गृह्यते। श्रुत्यर्थस्तु-
यतो गायत्रीवाच्यो भगवान् वेदान् 'गायति' मुखान्निस्सारयति प्रथ-
मो वक्तेति यावत् । यस्माच्च 'त्रायते' अखिलमिति शेषः । अतो गायत्री
शब्देनोच्यते । 'या' प्रसिद्धा गायत्री तन्नामा विष्णुः 'सा इयं वै' इयं
खलु । किमियं ? 'येयं पृथिवी' तन्नामा भगवान् । कथं पृथिवी विष्णु-
रित्यतः तल्लक्षणयोगादित्याह—अस्यां हीदमिति । ' अस्यां ' पृथिव्यां
'भूतं' प्राणिजातमाश्रितमिति । सुधायां तु पूर्वपक्षानुगुणतया गाय-
त्री 'गायति' अर्थं प्रतिपादयति, अध्येतॄन् 'त्रायते' पालयति पापा-
त् रक्षतीत्यर्थ उक्तः ॥
( ४ ) ननु गायत्र्यादिशब्दस्य अन्यत्र रूढत्वात्कथं लिङ्गमात्रेण
विष्णुत्वनिश्चय इत्यतो गायत्र्यादिश्रुतेः सावकाशत्वादिति भावेन
गायत्र्यग्निपृथिव्यादिशब्दाः न केवलं श्रुत्युक्तयोगेन विष्णौ सावका-
शाः, अपि तु पौराणिकरूढ्या गायत्र्याः भगवदधीनत्वाद्पीत्याशये-
न तत्र स्मृतिमाह—सर्वैति ॥ ' एषः ' विष्णुः ' सर्वच्छन्दोऽभिधः '
सर्वच्छन्दसां अभिधेयाभिधा यस्येति बहुव्रीहिः। छन्दोवाचकगाय-