पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
( ६ )
विषयः पृष्ठसंख्या श्लोकसंख्या
तस्य राजत्वकालवर्णनम् ... २१२-२२ ... ३-३३
पृथ्वीराजमातुः पातिव्रत्याचरणेन भुवः
सुखित्वम् ... २२२ ... ३४-३५
कदम्बवासाख्यराजमन्त्रिणः कार्यपाटवम् २२३-२५ ... ३६-४४
पृथ्वीराजस्य विद्याभ्यासादिवर्णनम् ... २२५-३२ ... ४५-६४
तस्य यौवनाप्तिः राज्यकार्यभारग्रहणं च २३२-३३ ... ६५-६७
भुवनैकमल्लस्य पृथ्वीराजसमीपमागमनम् २३३ ... ६८
भुवनैकमल्लप्रशंसा ... २३३-३५ ... ६८-७४
मरुभूमिवर्णनम् ... २३५-३७ ... ७५-८२
पृथ्वीराजस्य कदम्बवासभुवनैकमल्लयोः
साहाय्येन राज्यशासनम् ... २३८-४० ... ८३-८६
दशमः सर्गः
पृथ्वीराजस्य यौवनाप्तिं श्रुत्वा राजकन्यानां
रागानुभवः ... ... २४१-४२ ... १-५
नानायुद्धवर्णनम् ... ... २४२ ... ६
गुडपुरनाम्नि दुर्गे नागार्जुनस्याधिरोहणवर्णनम् २४३ ... ७-८
पृथ्वीराजस्य युद्धाय निर्गमनम् ... २४३ ... ९
तस्य सैन्यवर्णनम् ... ... २४४-४६ ... १०-२६
तस्य गुडपुरावरोधनम् ... ... २४६-५० ... २७-३१
विग्रहराजपुत्रस्य क्वापि पलायनम् ... २५०-५१ ... ३२-३४
पृथ्वीराजकृतशत्रुवधः बहूनां शत्रूणां शत्रु-
राजमात्रा सहानयनम् ... २५१ ... ३५-३६
प्राप्तविजयस्य तस्याजयमेरुनगरे प्रवेशः ... २५१-५२ ... ३७-३८
गर्जनदेशाधिपगोरीवर्णनम् ... २५२-५३ ... ३९-४१
तस्य पृथ्वीराजसविधे दूतप्रेषणम् ... २५३ ... ४२
दूतवर्णनम् ... ... २५३-५५ ... ४३-४८
( १० )
विषयः पृष्ठसंख्या श्लोकसंख्या
गोरिभिर्दशधा धरणी विप्लुता ... २५५ ... ४६
पृथ्वीराजस्य भ्रूभङ्गेन नड्डूलदुर्गवासिभिर्धनु-
र्नामितम् ... ... २५६ ... ५०
पृथ्वीराजस्य भृकुटिप्रतापवर्णनम् ... २५६ ... ५१
एकादशः सर्गः
पृथ्वीराजस्य तेजोवर्णनम् ... २५८ ... १-२
मन्त्रिणः कदम्बवासस्य मन्त्रणा ... २५८ ... ३-५
प्रतीहारागमनम् ... ... २५६ ... ६
गुर्जरमण्डलाद्दूतागमप्रार्थना ... २५६ ... ७-८
गुर्जरकृतगोरिपराभववर्णनम् ... २५६-६० ... ६-१२
पृथिवीभटविज्ञप्तिः ... ... २६०-६२ ... १३-२३
दूतपरावर्त्तनोत्तरं पृथ्वीराजस्य चित्रमण्डप-
प्रवेशः ... ... २६२ ... २४
पृथ्वीराजस्य पूर्वजन्मकथा ... २६२-६० ... २५-१०४
तिलोत्तमाचित्रदर्शनेन पृथ्वीराजचेतसि
स्मरोदयः ... ... २६० ... १०५
द्वादशः सर्गः
तिलोत्तमाचित्रदर्शने पृथ्वीराजस्य रुचिवृद्धिः २६२ ... १-२
तस्य चेतसि कामाङ्कुरोत्पत्तिः कामवशी-
भावश्च ... ... २६२-३०३ ... ३-३८
पृथ्बीभटस्य पुनर्विज्ञप्तिश्चिन्ताजलधेः समु-
द्धारश्च ... ... ३०३-५ ... ३६-४४
कामासक्तस्य पृथ्वीराजस्य चक्षुःश्रोत्रादिषु
कामविकारवर्णनम् ... ... ३०५ ... ४५-४७
चित्रगृहान्निर्गमनम् ... ... ३०६ ... ४८
( ११ )
विषयः पृष्ठसंख्या श्लोकसंख्या
पृथ्वीभटस्य स्वगृहगमनम् ... ३०६ ... ४६
पुरतः समानीतमपि वाजिनं प्रति पृथ्वीराज-
स्योपेक्षा ... ... ३०६ ... ५०
तस्य पदातेरेव गृहगमनम् ... ३०६-७ ... ५१
तस्य दक्षिणनेत्रस्फुरणम् ... ३०७ ... ५२
उत्तमशकुनपूर्वकं स्वहर्म्यप्रवेशः ... ३०७ ... ५३-५४
सलिलादपि निर्ययौ रसेत्यादिश्लोकश्रवणम् ३०८ ... ५५-५६
पद्मनाभस्याह्वानं श्लोकपाठकजिज्ञासा च ३०८-९ ... ५७-५९
कश्मीरादागतो जयानकोऽयमित्युत्तरम्... ३०९-११ ... ६०-६६
राज्ञस्तस्य दर्शनाय निर्गमः ... ३११ ... ६७
जयानकं प्रति प्रश्नः ... ... ३११ ... ६८
जयानकस्योत्तरम् ... ... ३११-१४ ... ६९-७८
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है; यह पृष्ठ पूर्णतः रिक्त (blank) है।
पृथ्वीराजविजयमहाकाव्यम्.
[ प्रथमः सर्गः ]
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- *¹
न्ता प्रतिबिम्बिता विश्वान्तरवर्तिनो भावा················स्मतादृग्यः
कैविप्रवर्हा··············(l. 1)नसं तस्य पर्युदासं सदृशमित्यर्थः कैला-
[स]स्यापि स्फटिकमयत्वेन वस्तुसंक्रान्तः एव········(l. 2)सं सुखदा-
यिनमाश्रित्य वसन्तमानन्देश्वरं प्रपद्येहं शरणकरोम्यहम् ॥ 1.
ऊनेन [नेत्र⁵त्रि](l. 3)तये[न] --
◡--[ताता]धिकतापराधम् ·
न ब्रह्मचर्येण न लब्धसाम्य-
स्सदाशिव ≍ - - ◡ - [कु]मारं: (?) ॥
पञ्चमुखस्सदाशिवस्तस्यं (l 4) प[ञ्चमुखस्य पञ्च] दर्शं नेत्रा[णि भ]व-
न्ति षण्मुखस्य तु द्वादश अत ईश्वरनेत्रे कुमार········(l 5)········
········खात्स········दासीत्षण्मुखस्यैकं¹¹ मुखमधि[कं] भवति तेन
[ताताधि(l. 6)कतापरा]धं संशोध्यन्निव कुमा[रः]············म······
······रा······[पा]यात् ॥ 2.
1 Two leaves, i.e., three pages, missing. 2 Is it यस्मिंस्तादृग्यत्कं° ?
3 Read तस्याप°.
4 Restore संक्रान्तविश्वान्तरवर्तिभावकविप्रवह्रान्तरपर्युदासम् ।
कैलासमाश्रित्य ◡--◡-मानन्देश्वरं देवमह प्रपद्ये ॥ (?)
5 Ms. ॱ. 6 Ms. का. Is it विशोध्य ? 7 Ms. वह्मां. 8 Ms. ⸬मारः
lc. on margin. 9 Comm. runs on after शिव ≍ in the text.
10 Ms. °दर्शं. 11 Ms. °स्यैवं. 12 Ms. °धसु°.
- *¹
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
२ पृथ्वीराजविजयमहाकाव्यम् .
अचुम्बितार्थप्रति(1.7)[भान]भानु-
र्वल्मीकजन्मा कवितावता[रः] .
[स पातु वो यः] प्रबबन्ध पूर्व-
मनन्तरं दाशरथिर्ज(1.8)जृम्भे ॥
अचुम्बि[तानामनुच्छि]ष्टानामनुल्लिखितानामर्थानामभिधेयानां व-
स्तूनां च प्रतिभान(1.9) प्रकाशने वाल्मीकिर्युष्माञ्चेत् . तमेवोल्लेखं प्रकाश-
यितुं वाल्मीकिं……………³ष्टे . यो(1.10) रामोत्पत्तेः पूर्वमेव रामचरित्रं
प्रबद्धवान् पश्चाद्रामोस्फुरत् ॥ ३.
[षड्दर्श]नर्तु⁴स्त्रिदिवं पु(1.11)राण-
द्वीपोदधिं वेदममुद्रमेघम् •
नभस्तलं व्याकरणग्रहाणां
काव्यं व्यध— — प— —⁵(1.12)वोव्यात् ॥
दर्शनान्येव षट्संख्यत्वादृतवस्ते[षां] त्रिदिवं स्वर्गे [विरू]द्धानामपि
तेषामेकत्र निवा(1.13)सात् पुराणान्येवाष्टादशसंख्य[त्वाद्वीपास्तेषा]मुद-
धिम् तेषां तत्र वर्तित्वात् व्याकरणा(1.14)न्येव नवसंख्यत्वादग्रहास्सूर्याद-
यस्तेषामाकाशं तदेकमु…………त्त्वान् वेदा एव समुद्राश्च(1.15)[सु]स्सं-
ख्याताः⁷ तेषां मेघं वर्धकं यो महाभारताख्यं काव्यमकरोत्स व्यासो वो
रक्षेत् ॥ ४.
असत्य— (1.16) ५.
[Lines 17 to end of page missing * ]
∙∙∙रयन् अन्तर्भावितण्यर्थोत्र करोतिः⁸ वेदवत्सत्यं रामायणं चकारेत्यर्थः
त्रिसंख्यत्वाच्च त्रय्य(1.1)नुकरणम् . अतोस्माद्धेतोर्द्वितीयो मुनीन्द्रो व्यासः
1 Ms. °सुष्टिं. 2 Ms. वल्मी°. 3 Is it विशिनष्टि ? 4 Ms. °नंतुत्रि°.
5 Is it व्यधाद्व्यासमुनिः स ? 6 Ms. °यं lc. under l. 15. 7 Ms. °ताते°.
8 Ms. °तिवे°.
प्रथमः सर्गः . ३
पुराणानां समसंख्यैरष्टादशभिः पर्वभिः स्वकाव्यं (l.2) पुराणाजातन्वची-
करत् . पुराणवत्सत्यं महाभारतमित्यर्थः . पर्वभिरिति ह्क्रोरन्यतरस्यां(l.3)-
मिति तृतीया ॥ 6.
सत्काव्यसंहारविधौ खलानां
दीप्तानि वह्नेरपि मानसानि .
भासस्य (l.4)काव्यं खलु विष्णुधर्मा-
न्त्सोप्याननात्पारतवन्मुमोच ॥
सतां काव्यं तद्विषये संहारविधौ दाहे⁴ दोषारोपणेग्नेरपि(l.5)सकाशा-
द्दुर्जनानां चित्तानि दीप्तान्यजडानि भवन्ति . अत्र साधनमाह सोग्निरपि भा-
समुनेः काव्यं वि(l 6)ष्णुधर्मान्मुखान्मुखात्त्यक्तवान् नादहदित्यर्थः. पारतवदित्युपर्मा
अग्निहिं वस्त्वन्तरवत्पार(l.7)तं दग्धुमशक्तो मुखान्मुञ्चति . भासव्यासयोः
काव्यविषये स्पर्धां कुर्वतोस्सर्वोत्कर्षवर्तित्वेन प(l 8)रीक्षकान्तराभावात् परी-
क्षार्थमग्निमध्ये तयोर्द्वयोः काव्यद्वयं क्षिप्तम् तयोर्मध्याद्विर्विष्णुधर्मा(l.9)-
न्नादहदिति प्रसिद्धिः . खलैस्तु प्राप्तं सत्काव्यं दह्यते इत्यग्नेस्सकाशात्खलानां
दाहकत्व(l.10)मित्यर्थः ॥ 7.
मध्येबुधं ये कवयो भवन्ति
बुधाः कवीनामपि सन्निधाने .
सर्वज्ञता मूर्ख(l.11)सभा[सु तेषां]
[ल]भ्येतँ [वि]द्वत्कविगालिदानैः ॥
पण्डितमध्ये ये कविभावमेवँ नाटयन्ति तथा क(l.12)विसन्निधौ प-
ण्डितत्वं चाभिनयन्ति तेषां मूर्खसभासु सर्वज्ञता कवित्वं विद्वत्वं च लभ्येत.
अत्र हेतुः विद्वां(l.13)सश्च ते कवयश्च तेषां गालिदानैराक्रोशकथनैः विद्व-
1 Pāṇini, 1. 4. 53. 2 Ms. स्वकां॰. 3 Ms. ॰र्मांत्सो॰. 4 Ms. सं to ॰ह lc.
on margin. 5 Ms. ॰न्यजडां lc. under l 5. 6 Ms. ॰प lc. under l. 7.
7 Ms. ॰ध्यादृ lc. on margin. 8 Ms. मूर्जं. 9 Ms. ल्भ्ये॰. 10 Ms. ॰मेव
lc. under l. 11. 11 Ms. कवि to च lc. under l. 12.
४ पृथ्वीराजविजयमहाकाव्यम्. ·
'स्कविविषया गालीर्दत्वां ते स्वात्मानं(l.14) नियतगुणं प्रकाशयन्ति . मूर्ख-
सभास्विति विद्वत्सभासु गालिदानं विनैव तेषां नियतगु(l.15)णत्वप्रकाशं-
नार्थम्. विद्वत्वं कवित्वं चैकत्र न सर्म········अथवा विदुषो क···
···(l.16)···तां······················तैस्तेषां पण्डितर्त्वाभावः प्रकटो
भवति ॥ 8 -
निधानकुम्भानिव भू (l.17) ⏑ – – –
[खलोय]मुत्साद्य कवीन्विधाता .
राज्ञां विना पुण्यबलं करोति
तिरोहितान्मत्सरिकृष्णसर्पैः ॥ (l.18)
भूमौ राज्ञा········विना पुण्यरहितानां राज्ञामयं खलः कवींस्तिरो-
हितान्करोति च्छादयति (l.19) किं कृत्वा मत्सरेण एव कृष्णसर्पैस्तैरुत्साद्य
मत्सरेणोद्धत्येत्यर्थः . यथा विधाता निधी(l.20)न्कृष्णसर्पैरूत्साद्य ति-
रोधत्ते [विना] पुण्यबलम् . अयमिति प्रत्यक्षनिर्देशः खलस्य कवितिरस्कारे
(l.21) स्वात्मप्रच्छादनाभावार्थः ॥ 9.
विद्वान्कवेर्यो विहितानुकारः
⏑ – – [गो]पयितुं यतेत . (l.22)
वैरायमाणैस्स वराङ्गनाभ्य-
स्सरूयं न किं वर्षवरैः करोति ॥
कवि·················[प](l 23 ** 1¹⁰)ण्डितत्वं गोपयति स
वराङ्गनाभ्यो वैरं संघर्षं कुर्वद्भिर्वर्षवरैश्शण्डैस्सरूयं तन्मध्ये प्रवेशं किं न
1 Ms. °लीन्दृत्वा. 2 Ms. सूर्जं.
3 Ms. मूर्ख° to °र्थम् ringed with a line. 4 Is it समवतिष्ठते ?
5 Is it कवीनां ? 6 Is it गालिदानतरते° ? 7 Ms. कवि° lc. under पण्डित°. Is it
पण्डितत्वकवित्वभावः ? 8 Ms. °ताम°. 9 Ms. °शयिं°. Is it निजं गुणं गोप° ?
10 Ms. has पृ. वि. ३, vertically written on margin. 11 Ms. °श्शदै°.
प्रथमः सर्गः , ५
करो(1.1)ति यथा स्वं शब्दं छादयितुमङ्गनारूपमभिनयञ्शण्ढोङ्गनात्वं न
लभते तथा विद्वान्पाण्डित्यं छादय(1.2)न्नपि कवित्वं न लभते इति तात्पर्यम् .
वैरायमाणैरिति शब्दवैरैत्यायिः . शण्ढो वर्षवरस्तुल्यावि(1 3)ति कोशः॥ 10.
कवित्वपाण्डित्यतटद्वयेन
सरस्वती सिन्धुरिव प्रवृत्त्या .
एकत्र पेयूषमयो रसोय(1 4)-
मन्यत्र मात्सर्यविषात्मकोस्याः ॥
नदीव सरस्वती कवित्वपाण्डित्यरूपेण तटद्वयेन प्रवह(1 5)ति अस्या-
स्तसरस्वत्या एकत्र भागे कवित्वेमृतरसो भवति अन्यत्र भागे मत्सरविषरूपः .
पंडिता (1.6) मत्सरग्रस्ता इत्यर्थः . सरस्वती नदी च तटद्वयेन वहति ॥ 11.
गुणैस्समृद्धोप्युपवेशनीय(1.7)-
स्
१. सर्ग १-४: सूर्यवंश-चाहमान उत्पत्ति, वासुदेव चौहान, अजयराज द्वारा अजयमेरु (अजमेर) स्थापना
६ पृथ्वीराजविजयमहाकाव्यम्.
तमद्वितीयैव कवेर्विवेक्तुं (l. 13)
दृष्टिर्भवत्यत्यधिकाधिकारा ॥
वाचामीशस्य महापण्डितस्य शिष्यो विबुधाधिराजः पण्डिताग्र(l. 14)-
णीर्दृशां विचाराणां सहस्रेण सहस्रशो विचार्यैत्यर्थः यन्नालोचयति तद्वि-
वेक्तुमं(l. 15)[द्विती][यैका]प्रतिमल्ला चं कवेर्दृष्टिर्विचारे [अधिका]धिकारा
योग्या भवति. सहस्रशः कृतविचार[: पण्डि]तो य(l. 16)न्न जाना[ति]
॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ कृद्विवेकं (?) न जानातीत्यर्थः . अथ च बृ[हस्पति]शिष्यो
देवः . [इन्द्रो] यन्नेत्र[सहस्रे]ण न(l. 17)॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰वं शुक्रस्य
दृष्टिः पश्यति ॥ १३.
विशोधने सत्कविभारतीनां
शुद्धोपि पाण्डित्य(l. 18)गु[णों न] योग्य॑ः .
[न क्षि]प्यते भस्म विशुद्धिकामै-
रपां हि पातव्यतयोद्धृतानाम् ॥
सत्कविवाचो शोध(l. 19)ने उपस्कारे [शुद्धो]पि पाण्डित्यगुणो न
योग्य॑ः . अत्र दृष्टान्तमाह पेयत्वेनोद्धृतानां ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰(l. 20)ला ॰ ॰ ॰ ॰ ॰ ॰
शो ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ र्दन क्षिप्यते . पातव्यं जलं भस्मना क्षिप्तेन यथा त्याज्यतामेव
प्राप्नोति तथा . स(l. 21)रसमपि काव्यं [प]ण्डितो[प]न्यस्तेनोपस्करे[ण]
॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॥ १४.
परीक्षकाणां (l. 22) रुचिमाकलय्य
प्रकाशनीयः कविना प्रकर्षः .
असात्विकां [हि प्रकृतिं विलोक्य
तीक्ष्णोभ्युपायो भि?](l. 23)षजा न योज्यः ॥
1 Ms. °दृां. 2 Ms. °मद्विवेक्तुम°. °द्विवेक्तुं struck out with vertical strokes.
3 Ms. °दिति.° 4 Ms. प्रं° to च lc. under l. 15.
5 Is it पश्यति तदेकैक ? 6 Is it योग्यः both in text and comm. ?
7 Is it जलानां शोधनाय मुन्न ? 8 Ms. काव्य. 9 Ms. क्रां°.
प्रथमः सर्गः . ७
परीक्षकाणां बुद्धिं विचार्य कविना निजोद्रं..................
(1.24*)रमस्ताः काव्यं न प्रकाशनीयमिति² निस्सत्वां प्रकृतिं दृष्ट्वा
तीक्ष्णोपशमो³ वैद्येन न प्रयोज्यः . अद्यत(1.1)नानां रुचिः प्रतीतिलभ्ये-
ष्वर्थेषु नास्तीति मया ते नैवोपन्यस्ता इति सूचितम् ॥ 15,
न पण्डिता(1.2)नां कविरित्यसाध्यः
कर्णज्वरोयं यदि शाश्वतस्स्यात् .
स्युरेव विद्यामधिकृत्य दूतीं
तन्मोक्षलच्क्ष्मीपरि(1.3)रम्भयोग्याः ॥
अयं कविरस्तीति पण्डितानामसाध्यः कर्णज्वरो नित्यो यदि न भवे-
त्तद्विद्यामेवं (1.4) दूतीमधिकृत्य मोक्षलक्ष्म्याः परिरम्भे योग्यास्ते भवेयुः .
विद्यावन्तोपि कवौ मत्सरान्मोक्षं न लभन्ते इ(1.5)ति तात्पर्यम्. येषां चा-
साध्यस्साधयितुमशक्यो ज्वरस्ते दूतीमुखेनाज्ञानां न प्रबोधयन्ति (1.6) ॥ 16.
ज्वलन्ति चेद्दुर्जनसूर्यकान्ताः
किं कुर्वते सत्कविसूर्यभासाम् .
महीभृतां दोश्शिखरे तु रूढां
पार्श्व(1.7)स्थितां कीर्तिलतां दहन्ति ॥
दुर्जनाश्च ते सूर्यकान्ताः सूरीणां विबुधानामकान्ता अरञ्जकाः पण्डि-
(1.8)तद्विषां कवीनां दोषारोपणे सामर्थ्याभावात् ते काव्यं श्रुत्वा यज्ज्वल-
न्ति तन्महाकविरविरुचां किं(1.9) कुर्वन्ति कवीनां कीर्तिं हन्तुं न
शक्नुवन्तीत्यर्थः महीभृतां राज्ञां शैलानां च भुजशिखरे जातां की(1.10)-
र्त्तिमेव लतां निकटस्थितास्ते दहन्ति . दुर्जनसंनिधानात्कवयो राज्ञो⁶ न
स्तुवन्तीति तात्पर्यम् . सूर्य(1.11)कान्तोपलाश्च ज्वलन्तः सूर्यांशूंन्न ग्लपयन्ति
किन्तु पर्वतानां पुनलता दहन्ति ॥ 17.
1 Is it ॰त्कर्षः ? 2 Ms. र to ति ringed with a line. 3 Ms शयो.
4 Ms. ॰मन. 5 Ms. दूतिं. 6 Ms. राजे.
८ पृथ्वीराजविजयमहाकाव्यम्.
मात्सर्यगर्वा¹ (l.12)त्कटभूरिसर्प-
व्याजिह्वताचापलदूषितापि .
कवीन्द्रवाक्चन्दनकन्दलीयँ
स्वाभाविकं मुञ्च(l.13)ति नाधिवासम् ॥
मात्सर्यगर्बेनोत्कटां² ये सूरयस्ते एव सर्पास्तैर्व्याजिह्वताचापलाभ्यां दूषि-
ता(l.14)पि सती कविराजोक्तिचन्दनलता स्वाभाविकं सौगन्ध्यं न त्यजति .
खलाः काव्यं दूषयितुं न शक्ता इ(l.15)त्यर्थः ॥ १८.
निवेश्यते सन्मणि³दर्पणानां
तेनैव सार्वः परिशुद्धभावः⁴ .
विभाव्यते तेषु यदात्मसं(l.16)स्थ-
मसज्जनैर्दोषमयत्वमेव ॥
असज्जनैरात्मसंस्थं⁵ स्वकीयं⁶ दोषमयत्वमेव तेषु सज्जनेषु(l.17) यद्वि-
भाव्यते दृश्यते दुर्जनास्सज्जनान्दोषमयान्पश्यन्तीत्यर्थः तेन सज्जनविषय-
दोषमयत्वद(l.18)र्शनेनैवं सतां मणिदर्पणानामिव सर्वहितं शुद्धत्वं प्रति-
पाद्यते . शुद्धे दर्पणे ह्यात्मनिष्ठं वस्तु (l.19)दृश्यते अयमर्थः दुर्जनास्स्वं दोषं
सत्सु यत्पश्यन्ति अस्मानेते भाव्यन्ते इति यच्छङ्कन्ते इत्यर्थः तेनैव(l.20)
सतां शुद्धता प्रकटिता भवति शुद्ध एव ह्यशुद्धस्य विरुद्धः ॥ १९.
गुणेषु लौल्यं सुजनस्य या(l 21)[वत्]
‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿
‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿
‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ॥
सतो(l.22) [गुणेषु यावत्प]रिमाशां⁷ लौल्यं श्रद्धा तत्परि[माणमेव]
¹ Ms. गर्व्वौ.* ² Ms. ॰गर्वेनोत्कण्ठा. ³ Ms. सण्मं. ⁴ Ms. शुद्धि.॰
⁵ Ms. संस्य.* ⁶ Ms. ॰कीयो. ⁷ Ms. ॰यां.
खलस्य लौल्यं दोषविषयं भवति (l. 23) ...............तात्पर्यम् सूर्यो
हि यावत्प्रकाशयति ततोधिकं¹ तमस्तिरस्करोति ॥ २०,
दोषं(l. 24)² गुणं वा पुरुषः परस्थं
यथा पिधाय स्वगतं पिधत्ते .
कामं प्रकाश्यापि परस्थितं तं
प्रकाशय(l. 1)त्यात्मगतं तथैव ॥
परस्थं दोषं गुणं वा पिधाय च्छादयित्वा पुरुषस्तं स्वगतं पिधत्ते यथा
त(l. 2)था परस्थितं तं दोषं गुणं वा प्रकटीकृत्य स्वात्मनोपि तं प्रकटयति .
अयमर्थः परनिन्दया(l. 3) श्रोतारः खलं³ कलयन्ति तस्यास्तु च्छादनेन सञ्ज-
नम् परगुणस्तुत्या सज्जनम् ॥ २१.
वाग्देवतागर्भगे(l. 4)हस्य विद्या-
स्थानेषु सोपानतया स्थितेषु .
साहित्यविद्यापरिचारिकेय-
मनन्वयं नाम रजः प्रमा(l. 5)ष्टि⁵ ॥
सरस्वतीगर्भावासस्य सोपानभूतेषु चतुर्दशसु विद्यासु स्थानेष्वियं सा-
हित्यविद्यैव परिचा(l. 6)रिकानन्वयमंसम्बन्धं विसूत्रणमेव रजः प्रमाष्टि उद्-
भ्रंशयत्ति साहित्यावगमेन विद्यास्थानेषु प्रवेशः (l. 7) कर्तुं शक्यते इति साहि-
त्येष्वादरः कर्तव्य इत्यनेन निजोद्यमस्य सफलतां सूचयति कविः⁶ ॥(l. 8) २२.
साधुः प्रमादात्त्यजति स्वभावं
खलस्तु नारोहति साधुभावम् .
निर्गन्धतामेति हि चन्दनादि
न सौ(l. 9)रभं संघटते रसोने ॥
1 Ms. °धिकतं°. 2 Ms. has पु. गु. vertically on margin. 3 Ms. कलं° lc.
under l. 4. 4 Ms. °नं° lc. under l. 7. 5 Ms. °यंत°. 6 Ms. °रः lc. under l. 8.
२
१० पृथ्वीराजविजयमहाकाव्यम्
प्रमादोनवधानंतेत्यमरंः. ततो हेतोस्साधुस्वभावं त्यजति साधुत्वा-
त्पततीत्य(l.10)र्थः खलस्साधुत्वं नाधिरोहति जलादिद्रव्यसंसर्गेण चन्दनादि
गन्धरहितं भवति लशु(l.11)ने पुनस्सौगन्ध्यं न संक्रामति ॥ २३.
मा गाद्दिवं दुर्मतिराप्तविद्यो
न वेद कर्तव्यमिहापि लोके .(l 12)
खमुत्पतन्मो तिमयस्सपक्षाः
स्थलेपि जानन्ति न जातु यातुम् ॥
विद्याप्राप्त्या स्वर्गप्राप्तिरि(l.13)त्यागमः प्राप्तविद्यः खलः स्वर्गं माधिरु-
क्षदस्मिंल्लोकेपि कर्तव्यं न जानाति मात्सर्याद्दुर्मति(l.14)लोंक[द्रू]यादृभ्रष्ट
एवेत्यर्थः . दृष्टान्तमाह सपक्षात्वाडुचितमप्याकाशगमनं मत्स्या मा प्राप-
(l.15)न्या[व]स्थलेपि ते नैव प्रक्रंमन्ते विद्यास्थानीया द्यावा-
पृथ्व्यौ लोकद्वयस्थानी(l.16)ये . [उ]त्पतन्निति पतेर्लुङि प्प्तादेशाभाव...
...........॥ २४.
मा(l 17)नं खलो यल्लभतेन्यतोपि .
तत्पादहीनोपि फणी जवेन
जले स्थला[द]भ्यधिकं प्रयाति ॥(l.18)
अन्यस्थानादपि विशिष्टं मानं निर्गुणोपि खलो राजकुले यल्लभते रा-
जानः खलराधिकं (l.19) यन्मानयन्तीत्यर्थः [तद्दि]दं भवतीत्यध्याहर्तव्यम् .
तेन वाक्यार्थरूपकमिदम् इदं किमित्याह (l.20) पादरहितोपि सर्पः स्थला-
दधिकं जले [प्रया]ति . यत् निर्विद्यस्याँस्य यत्सर्वत्र मानलाभ(l.21)स्तन्नि-
ष्पादस्यापि सर्पस्य जलस्थलयोस्समानगमनम् ॥ २५.
1 Ms. °नवेत°. जान्°(sic) lc. under l. 9. 2 Amara, 1.212. 3 Ms. °तन्पा°.
4 Ms. प्रक्रमते. 5 Ms. °दि. (Panini, 7.4.19). 6 Ms. °प्यादेशभा°. 7 Restore
गुणैर्विना राजकुले विशिष्टं. 8 Ms. °स्यायस्त°..
प्रथमः सर्गः . ११
कवीनंवाप्यापि मनोज्ञकां(l.22)[व्या]-
[त्रा]जा न यः पाति कुपण्डितेभ्यः .
उपेक्षते केलि[शुका]नवश्यं
[क्रीडाविडालैर्हि] विहन्यमानान् ॥ (l.23*)
यो राजा सरसकाव्यानपि कवीन्खलेभ्यो न रक्षति स क्रीडाविडालैर्मा-
र्यमाणक्रीडाशुकानवलिम्पति . ख(l. 1)लैरवमानितानां कवीनामरक्षणं यत्त-
द्विडालमार्यमाणशुकावलेप इति वाक्यार्थरूपकम् ॥(l. 2) 26.
दिक्पालतेजोमयमूर्त्तिभाजां
कवीञ्जिघांसन्ति बुधाः पुरो यत् .
राज्ञामिदं तद्वरुणोपदिष्टं(l. 3)
मात्स्यं प्रति न्यायमुपेक्षकत्वम् ॥
पण्डिता राज्ञामग्रे कवीन्यद्धन्तुमिच्छन्ति तदिदमुपेक्षक(l. 4)त्वं कवि
१२ पृथ्विराजविजयमहाकाव्यम्. .
यो विश्वरूपो विबुधेषु धुर्य-
. स्स एव हेतुर्हि कविप्रथायाः ॥(1.10)
कविं दृष्ट्वा नृपानुचित्तयासूयया मत्सरेण कालमुखैः पण्डितैर्विश्व-
रूपापादित्यै¹: किं कार्यम्(1.11) यद्वा कृष्णनामा अजयमेरवः पण्डितस्तदा-
दिभिः पण्डितैर्मिथ्यामत्सरेण किं संपाद्यम्(1.12) अजयमेरवो यः पण्डि-
तराजो विश्वरूपनामा स एव कविरिति प्रथायाः कवीनां वा प्रथा(1.13)या
हेतुः . कविं शुक्रं च दृष्ट्वा हरिप्रभृतिभिर्देवैर्मत्सरेण किं कार्यम् विश्वरूपो
देवदेवो हि क(1.14)विप्रसिद्धेर्हेतुः ॥ 28.
पण्डितानां स्तुतिद्वारेण निन्दामाह ॥
संमानितैः क्षालयितुं कवीन्द्रैः (1.15)
¯ ¯ ˘ ¯ ¯ ˘ ˘ ¯ ˘ ¯ ¯ .
¯ ¯ ˘ ¯ ¯ ˘ ˘ ¯ ˘ ¯ ¯²
मृणस्य शुद्धौ विबुधास्त्वरन्ताम् ॥
क(1.16)··········राजानः कवीनामधमर्णा भवन्ति संमानितै-
स्संमाननैर्वृत्तिदानैर्ने(1.17)[त्यर्थः]·······णां शोधयितुं राज्ञामुचितम् प-
ण्डिता एव राज्ञामृणशोधने त्वरन्ताम्(1.18)··············मित्याह
तेषां कवीनां काव्यविद्वेषस्तन्मुखेन . अयमर्थः पण्डिता राज(1.19)विषये
कवीनां काव्यं द्विषन्ति ततः कवयो राज्ञां काव्यं न कुर्वन्तीत्यृणशुद्धिर्जाता
पण्डिता राज्ञां नाममा(1.20)त्रमपि विस्मारयितुं प्रवृत्ता इत्यर्थः यद्वा रा-
जभिर्दत्तवृत्तयः कवयो राज्ञामधमर्णा भवन्ति प(1.21)ण्डिताः कवी···
········षयित्वा कवीनामृणशुद्धौ त्वरन्ताम् काव्ये दूषिते सति राजानः
कवीनां वृत्तिं ह(1.22)·············दि······तेत्यर्थः ॥ 29.
कवेस्स तत्वं कविरेव वेद
न तद्विदंस्तर्कवितर्कखि(1.23**³)न्नाः .
────────────────────────────────────────
1 Is it विश्वरूपान्त्यैः ? 2 Restore third line, तत्काव्यविद्वेषमुखेन राज्ञां,
³ Ms. has पृ. वि. vertically on margin.
प्रथमः सर्गः . १३
किं वेदितुं दोषगुणावभिज्ञ-
स्तुरङ्गविद्यानिपुणस्य यन्ता ॥
कविरेव कवेः कौशलं जानाति ता(l.1)र्किकास्तु नात्र कुशलाः अश्वविद्या-
चतुरस्य गुणदोषौ विस्रष्टुं यन्ता गजारोहः किमभिज्ञो भवति ॥(l.2) ३०.
मत्सरिभिरनुपेक्षणीयमीश्वरविषयमेव काव्यं यतो न कृतं तत्प्रति-
पादयितुमाह ॥
गतस्पृहोऽप्यादिकविः प्रबन्धं
ब(l.3)बन्ध रामस्य भविष्यतोपि .
संमान्यमानस्तु नरेश्वरेण
मादृक्कथं काव्यविधावुदास्ताम् ॥
रामेभ(l.4)द्रस्य जन्मनः प्रागेव रामायणं निस्पृहोपि वाल्मीकिः कृ-
तवान् मादृक्सस्पृहस्तु राज्ञा दत्तवृत्तिश्चं(l.5)रित्रवर्णने काव्ये कथमुदासीनो
भवेत् . संमान्यमान इति मनेर्णिजन्ताल्लटश्शंतृशानचौविति क(l.6)र्मणि
शानच् ॥ ३१.
मयि प्रवृत्ते हिमसोदराणि
यशांसि विस्तारयितुं नृपस्य .
प्रजाज्वलीतु प्र(l.7)तिपक्षराज-
न्यायेन सर्पोपि गणो बुधानाम् ॥
हिमसदृशानि राज्ञः पृथ्वीराजस्य यशांसि ख्या(l.8)पयितुं मयि प्रवृत्ते
सति तदीयप्रतिपक्षा राजानः पण्डिताश्च मत्सरेणात्यर्थं ज्वलन्तु . हिमेन
ज्व(l.9)लनमिति विरोधाभासः ॥ ३२.
यदि पण्डिता मत्सरं कुर्वन्ति तर्हि त्वत्काव्यं कश्शृणोतीत्याह ॥
1 Ms. °शल्यं. 2 Is it द्रष्टुं ? . 3 Ms. °टव°. 4 Panini, 3.2.124.,
१४ पृथ्वीराजविजयमहाकाव्यम्.
नरेश्व(1.10)राणामुपमानतायै
कवीश्वराणामपि वर्णनाय .
जगाम यो राममयं शरीरं
श्रोता स एवास्तु हृदि स्थितो मे ॥
यो मे हृदि स्थितः(1.11) पृथ्वीराजस्स एव श्रोतास्तु यश्श्रीरामरूपतां गत-
वान् . किमर्थं राज्ञामुपमानार्थं कवीनां च वर्णना(1.12)र्थम् . यदि श्रीरामो
नाजनिष्यत राज्ञामुपमानं कोभविष्यत्कं वा कवयोवर्णयिष्यन्नित्यर्थः . श्री-
राम एव(1.13) पृथ्वीराजरूपो जात इति वक्ष्यति ॥ ३३.
स्ववंशभूपालयशःप्रताप-
पाण्डुत्वचण्डत्वविवर्धनाय .
यौ(1.14) संघटेते प्रतिमासमध्ये
तौ वा मम प्रेक्षकतां भजेताम् ॥
अथवा तौ मदीयकाव्यस्य परीक्षकतां (1.15) श्रयेताम् यौ मासस्य सा-
वनमासस्य मध्ये दर्शं दर्शं यौ संघटेते एकराशिस्थौ भवतः अत्र फ(1.16)-
लोत्प्रेक्षा निजवंशजातानां राज्ञां यशःप्रतापयोश्शुभ्रत्वतीव्रत्वयोर्वर्धनार्थमिव .
अयमर्थः स्ववं(1.17)श्यपृथ्वीराजप्रेम्णा मत्कार्व्यं श्रोष्यतः . भजेतामिति
…………लिङ् ॥ ३४.
बाल्येपि लीलाजि(1.18)ततारकाणि
गीर्वाणवाहिन्युपकारकारिं .
जयन्ति सोमेश्वरनन्दनस्य
षण्णां गिरां शक्तिमतो यशांसि ॥ (1.19)
त्रिशक्तिसहितस्य सोमेश्वरनामराजात्मजस्य पृथ्वीराजस्य बाल्येपि⁵
1 Ms. रां to ᵒश्च lc. on margin. 2 Ms. अयᵒ. 3 Ms. ष्टिर्. 4 Ms. ᵒवाहीᵒ.
5 Comm. ᵒमानकानि. 6 Ms. पृᵒ to ᵒपि lc. under 1.19. -
प्रथमः सर्गः . १५
यशांसि जयन्ति सर्वोत्कर्षेण वर्तन्ते षण्णां संस्कृ(1.20)तादीनां षट्संख्यानां
वाचां भाषाषट्कंस्येत्यर्थः . लीलया हेलया जिततारकाण्युडुभ्यो(1.21)प्यति-
शुभ्राणीत्यर्थः . अतएव गङ्गाया उपमानकानि अतिशुभ्रत्वापादनात् . शक्ति-
मतः कुमा(1.22)रस्य च तत्पक्षे तारकोसुराविशेषः गीर्वाणानां वाहिनी सेना
सोम उमासहित[शिव ई]श्च(1 23)रस्तत्पुत्रस्य षण्णां गिरामिति कुमार-
स्य षण्मुखत्वात् ॥ ३५.
पुरा पुराणं पुरुषं प्रणम्य
कदा(1.24)चिदाभोगितयोगनिद्रम् ·
व्यजिज्ञपन्नाभिसहस्रपत्र-
सिंहासनः प्राञ्जलिरब्जयोनिः ॥
आभो(1.25)गवती कृताभोगितानुभूता योगनिद्रा येन तं हरिं प्रणम्य
पुरा कस्मिन्नपि काले नाभिपद्मप्रविष्टः (1 26*) ब्रह्मा कृताञ्जलिरिनं
विज्ञप्तवान् ॥ ३६.
यथा त्वदीये मम पुष्करेस्मि-
न्स्थितस्य संतापलवोपि नास्ति .(1 1)
तथा क्षितौ पुष्कर एव तीर्थे
त्वया सनाथस्सुखितो वसामि ॥
अस्मिंस्तवन्नाभिपद्मे वसतो मम य(1.2)था संतापलेशो नास्ति तथा
त्वया कृतसानाथ्यो भूमावपि पुष्करे तीर्थे सुखेनाहं वसामि ॥(1 3) ३७.
त्वं पुण्डरीकाक्ष इति प्रतीतो
बिभर्षि नाभावपि पुण्डरीकम् ·
यत्तत्र नित्यं कृतसंनिधान-
स्त्रिपुष्करं(1 4) पुण्यमतस्तदाहुः ॥
1 Ms. ॰दकजन्म्ये˚ [इनजस्ये?]. 2 Ms. नमां˚. 3 Ms. ॰तीनौ. - -
१६ पृथ्वीराजविजयमहाकाव्यम्.
यस्त्वं पुण्डरीकाक्ष इति पुष्कराक्ष इति प्रसिद्धः तथा त्वं नाभौ पुण्ड-
रीकं पुष्क(l.5)रं यस्त्वं धारयसि सं एवंविधस्त्वं तत्र प्रसिद्धे यत्कृतसन्निधानो
भवसि नूनं ततो हेतोर्जनास्तंत्पुष्करं त्रिपु(l.6)ष्करं कथयन्ति ॥ ३८.
देवस्त्रिनेत्रोप्यजगन्धनामा
त्रिपुष्करे सन्निदधाति तस्मिन् .
जगत्त्रयीपावन(l.7)ताप्रवृत्तं
त्रिस्रोतसो दर्पमिवापनेतुम् ॥
तत्र त्रिपुष्करेऽजगन्धनामा देवस्संनिधानं करोति अत्र (l.8) संभाव्यते
अहं त्रिभुवनं पवित्रीकरोमीति जातं गङ्गाया दर्पं निवारयितुमिव ॥ ३९.
सा यज्ञभूमिर्म(l.9)म पूर्वमस्यां
कुण्डत्रयं वह्निमयं यदासीत् .
तदेव कालस्य विपर्ययेण
पयोमयीं मूर्तिम(l.10)भिप्रपन्नम् ॥
यत्त्रिपुष्करतीर्थे सा मम यज्ञभूमिः पूर्वमभूत् अस्यां यज्ञभूमौ त्रया-
णाम्(l.11)ग्नीनामाश्रयो यत्कुण्डत्रयं यदासीत्तदेव संप्रति कालवशाज्जलमयं
संपन्नम्. वह्निमयमि(l.12)ति तत्प्रचुरे मयट् ॥ ४०.
लोके त्वदीये यदि वा मदीये
माहेश्वरे वा न तथा रमन्ते .
यथा त्रयाणाम(l.13)पि सन्निधाना-
दस्माकमस्मिन्नपवर्गकामाः ॥
तव मम महेश्वरस्य च संबन्धिनि भुवने मुक्ति(l.14)कामा न तथा
1 Ms. °स्त्वं lc. on margin. 2 Ms. स lc. under l.5. 3 Ms. °नास्तं°. 4 Ms.
°संनीभू°. 5 Pāṇini, 5.4.21. (तत्प्रकृतवचने म०), cf. Kāśikā, प्राचुर्येण प्रस्तुतं प्रकृतम्.