पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 35, कुल 330 में से
संदर्भ में पढ़ेंप्रथमः सर्गः . १५
यशांसि जयन्ति सर्वोत्कर्षेण वर्तन्ते षण्णां संस्कृ(1.20)तादीनां षट्संख्यानां
वाचां भाषाषट्कंस्येत्यर्थः . लीलया हेलया जिततारकाण्युडुभ्यो(1.21)प्यति-
शुभ्राणीत्यर्थः . अतएव गङ्गाया उपमानकानि अतिशुभ्रत्वापादनात् . शक्ति-
मतः कुमा(1.22)रस्य च तत्पक्षे तारकोसुराविशेषः गीर्वाणानां वाहिनी सेना
सोम उमासहित[शिव ई]श्च(1 23)रस्तत्पुत्रस्य षण्णां गिरामिति कुमार-
स्य षण्मुखत्वात् ॥ ३५.
पुरा पुराणं पुरुषं प्रणम्य
कदा(1.24)चिदाभोगितयोगनिद्रम् ·
व्यजिज्ञपन्नाभिसहस्रपत्र-
सिंहासनः प्राञ्जलिरब्जयोनिः ॥
आभो(1.25)गवती कृताभोगितानुभूता योगनिद्रा येन तं हरिं प्रणम्य
पुरा कस्मिन्नपि काले नाभिपद्मप्रविष्टः (1 26*) ब्रह्मा कृताञ्जलिरिनं
विज्ञप्तवान् ॥ ३६.
यथा त्वदीये मम पुष्करेस्मि-
न्स्थितस्य संतापलवोपि नास्ति .(1 1)
तथा क्षितौ पुष्कर एव तीर्थे
त्वया सनाथस्सुखितो वसामि ॥
अस्मिंस्तवन्नाभिपद्मे वसतो मम य(1.2)था संतापलेशो नास्ति तथा
त्वया कृतसानाथ्यो भूमावपि पुष्करे तीर्थे सुखेनाहं वसामि ॥(1 3) ३७.
त्वं पुण्डरीकाक्ष इति प्रतीतो
बिभर्षि नाभावपि पुण्डरीकम् ·
यत्तत्र नित्यं कृतसंनिधान-
स्त्रिपुष्करं(1 4) पुण्यमतस्तदाहुः ॥
1 Ms. ॰दकजन्म्ये˚ [इनजस्ये?]. 2 Ms. नमां˚. 3 Ms. ॰तीनौ. - -