पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 29, कुल 330 में से
संदर्भ में पढ़ेंखलस्य लौल्यं दोषविषयं भवति (l. 23) ...............तात्पर्यम् सूर्यो
हि यावत्प्रकाशयति ततोधिकं¹ तमस्तिरस्करोति ॥ २०,
दोषं(l. 24)² गुणं वा पुरुषः परस्थं
यथा पिधाय स्वगतं पिधत्ते .
कामं प्रकाश्यापि परस्थितं तं
प्रकाशय(l. 1)त्यात्मगतं तथैव ॥
परस्थं दोषं गुणं वा पिधाय च्छादयित्वा पुरुषस्तं स्वगतं पिधत्ते यथा
त(l. 2)था परस्थितं तं दोषं गुणं वा प्रकटीकृत्य स्वात्मनोपि तं प्रकटयति .
अयमर्थः परनिन्दया(l. 3) श्रोतारः खलं³ कलयन्ति तस्यास्तु च्छादनेन सञ्ज-
नम् परगुणस्तुत्या सज्जनम् ॥ २१.
वाग्देवतागर्भगे(l. 4)हस्य विद्या-
स्थानेषु सोपानतया स्थितेषु .
साहित्यविद्यापरिचारिकेय-
मनन्वयं नाम रजः प्रमा(l. 5)ष्टि⁵ ॥
सरस्वतीगर्भावासस्य सोपानभूतेषु चतुर्दशसु विद्यासु स्थानेष्वियं सा-
हित्यविद्यैव परिचा(l. 6)रिकानन्वयमंसम्बन्धं विसूत्रणमेव रजः प्रमाष्टि उद्-
भ्रंशयत्ति साहित्यावगमेन विद्यास्थानेषु प्रवेशः (l. 7) कर्तुं शक्यते इति साहि-
त्येष्वादरः कर्तव्य इत्यनेन निजोद्यमस्य सफलतां सूचयति कविः⁶ ॥(l. 8) २२.
साधुः प्रमादात्त्यजति स्वभावं
खलस्तु नारोहति साधुभावम् .
निर्गन्धतामेति हि चन्दनादि
न सौ(l. 9)रभं संघटते रसोने ॥
1 Ms. °धिकतं°. 2 Ms. has पु. गु. vertically on margin. 3 Ms. कलं° lc.
under l. 4. 4 Ms. °नं° lc. under l. 7. 5 Ms. °यंत°. 6 Ms. °रः lc. under l. 8.
२