पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 33, कुल 330 में से
संदर्भ में पढ़ेंप्रथमः सर्गः . १३
किं वेदितुं दोषगुणावभिज्ञ-
स्तुरङ्गविद्यानिपुणस्य यन्ता ॥
कविरेव कवेः कौशलं जानाति ता(l.1)र्किकास्तु नात्र कुशलाः अश्वविद्या-
चतुरस्य गुणदोषौ विस्रष्टुं यन्ता गजारोहः किमभिज्ञो भवति ॥(l.2) ३०.
मत्सरिभिरनुपेक्षणीयमीश्वरविषयमेव काव्यं यतो न कृतं तत्प्रति-
पादयितुमाह ॥
गतस्पृहोऽप्यादिकविः प्रबन्धं
ब(l.3)बन्ध रामस्य भविष्यतोपि .
संमान्यमानस्तु नरेश्वरेण
मादृक्कथं काव्यविधावुदास्ताम् ॥
रामेभ(l.4)द्रस्य जन्मनः प्रागेव रामायणं निस्पृहोपि वाल्मीकिः कृ-
तवान् मादृक्सस्पृहस्तु राज्ञा दत्तवृत्तिश्चं(l.5)रित्रवर्णने काव्ये कथमुदासीनो
भवेत् . संमान्यमान इति मनेर्णिजन्ताल्लटश्शंतृशानचौविति क(l.6)र्मणि
शानच् ॥ ३१.
मयि प्रवृत्ते हिमसोदराणि
यशांसि विस्तारयितुं नृपस्य .
प्रजाज्वलीतु प्र(l.7)तिपक्षराज-
न्यायेन सर्पोपि गणो बुधानाम् ॥
हिमसदृशानि राज्ञः पृथ्वीराजस्य यशांसि ख्या(l.8)पयितुं मयि प्रवृत्ते
सति तदीयप्रतिपक्षा राजानः पण्डिताश्च मत्सरेणात्यर्थं ज्वलन्तु . हिमेन
ज्व(l.9)लनमिति विरोधाभासः ॥ ३२.
यदि पण्डिता मत्सरं कुर्वन्ति तर्हि त्वत्काव्यं कश्शृणोतीत्याह ॥
1 Ms. °शल्यं. 2 Is it द्रष्टुं ? . 3 Ms. °टव°. 4 Panini, 3.2.124.,