सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

१३४ पृथ्वीराजविजयमहाकाव्यम्.
विचित्रस्य विफलप्रयत्नलक्षणत्वात् अत्र हि मानलाभार्थं सेवाख्य-
(13)स्य प्रयत्नस्य विपरीतफलानिष्पत्तिहेतुत्वम्. सेवाकारिणां हि मान-
हानिः ॥ १३७,
भूपैर्भुजेपि य(1.4)त्रत्यैर्धार्यते भूससागरा .
कीर्त्तिः स्वंच्छतनुस्तेषां न माति भुवनेष्वपि ॥
यत्रत्यै राजभिर्भूमिस्स(1.5)समुद्रा भुजचक्रेपि³ धार्यते स्वच्छा शुद्धा
सूक्ष्मा च तनुर्यस्यास्सा कीर्त्तिर्भुवनेषु न वर्तते ॥ अधिकद्वयम् ॥ अधिक-
(1.6)स्याश्रयाश्रयिणोरनानुरूप्यलक्षणत्वात्. अत्र ह्याश्रयस्य भुजस्या-
श्रयिभूताया भुवस्तुच्छत्व(1.7)महत्वाभ्यामनानुरूप्यम् भुवनानामांश्रयाणां
कीर्त्तेस्तदाश्रयीभूताया महत्वतुच्छत्वाभ्याम् ॥(1.8) 138.
धर्मो विवर्ध्यते यत्र वास्तव्यानां विभूतिभिः .
धर्मेण च विवर्ध्यन्ते वास्तव्यानां विभूतयः ॥
पौरश्री(1.9)भिर्धर्मो वर्धते धर्मेण च पौरश्रियो वर्धन्ते ॥ अन्योन्यम् ॥
परस्परं वर्धनक्रियाजननात् ॥(1.10) 139.
वापीकूपतटाकेषु प्रपासु विविधासु च .
दिवमप्युपयातानां दृश्यते तत्र जीवनम् ॥(1.11)
वाप्यादिषु जीवनं जलं प्राणाश्च स्वर्गतानां दृश्यते ॥ विशेषः ॥ अना-
धारमाधेयमि(1.12)त्यादिलक्षणत्वात् ॥ अत्र जीवनँस्याधारशरीरिणः ते
स्वर्गं गतास्तथापि जीवनं दृश्य(1.13)ते इत्यनाधारमाधेयम् ॥ 140.
त्रिदिवे दिवि पाताले कीर्त्ति[: सर्वासु] दिक्षु च .
यदीयानां नरे(1.14)न्द्राणा[मेकरूपा समा]श्रिता ॥ •
1 Read विपरीतफ°. 2 Ms. °र्तिन्वत्त्व°. 3 Ms. भुजचक्रेपि lc. on margin.
4 Ms. °कीर्ते°. 5. Ms. °वस्या°.

पञ्चमः सर्गः . १३५
स्वर्गादिषु कीर्तिरेकरूपा समा समं युगपत्स्थिता ॥ वि²(l.15) 141.
[Lines 16 to end of page missing] (**36)
गैः पुनः राजभिः कीर्त्तिरनुपाल्यते ॥ व्याघातः ॥ उत्पत्तिविनाशयो-
रेकोपायत्वात् ॥ अत्र(l.1) राजभ्य एव वृषोत्सर्गैरुत्पत्तिः तैरेव तेभ्य एव
च विनाशः ॥ 142.
अबला इति बाध्यन्ते सबलैरन्य(l.2)देशजैः .
तेनैव हेतुना यत्र रक्ष्यन्ते राजभिः परे ॥
अन्यत्र राजभिरबलत्वाद्राजानो बाध्यन्ते त(l.3)स्मादेव हेतोस्तत्र
तैश्शत्रवो रक्ष्यन्ते ॥ व्याघातः ॥ व्याघातार्थं संभाव्यमानस्याबलत्वस्य
बाधा(l.4)विरुद्धरक्षणनिष्पादकत्वेन समर्थनात् ॥ 143.
यत्र वीर्यं प्रतापस्य प्रतापः कारणं श्रियः .
श्रीर्ध(l.5)र्मस्य नरेन्द्रणां धर्मो भोगापवर्गयोः ॥
यत्र वीर्यादयः प्रतापादीनां हेतवः ॥ कारणमाला ॥(l.6) 144.
अर्थो धर्मानुगो यत्र कामश्चार्थानुगो नृणाम् .
कामस्य शिवकामानां मोक्षोप्यनुगतां गतः ॥(l.7)
यत्र श्रेयस्कामानां धर्माद्यनुगा अर्थादयः ॥ एकावली ॥ अर्थादीनां
धर्माद्यनुगतत्वात् ॥ (l.8) 145.
यौवनेन वपुः स्त्रीणां यत्र रूपेण यौवनम् .
रूपं कान्तिविशेषेण सलावण्येन गर्जति ॥ (l.9)
यत्र यौवनादिभिर्वपुरादयो गर्जन्ति ॥ मालादीपकम् ॥ यौवनादीना-
मुत्तरोत्तर(l.10)वपुरादिगर्जनाव्यगुणावहत्वात् ॥ 146.
1 Ms. °त्तिरे°. 2 [ विशेषः । एकस्याः कीर्तेरनेकगोचरत्वात् ]. Perhaps one illus-
tration of विशेष—किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं is lost.

१३६ पृथ्वीराजविजयमहाकाव्यम्.
शम्भुर्लोकत्रये सारं तस्य सारं त्रिनेत्रता •
तत्रापि(l.11) चन्द्रमास्तस्य यत्कान्तावदनोपमा ॥¹ 147.
कनकाब्ज²रजश्छन्न³ा वातायनविहारिणः •
मानवैर्यत्र सेव्यन्ते स्व(l.12)र्गङ्गावीचिमारुताः ॥
यत्र वातायनगता नाकनदीपवना मनुष्यैस्सेव्यन्ते यतो⁴ हेमाब्ज⁵रजः-
(l.13)पूर्णाः ॥ काव्यलिङ्गम् ॥ कनकां⁶ब्जेत्यादेः पदार्थत्वात् ॥ काव्यलिङ्ग-
स्य च हेतोर्वाक्यप(l.14)[दार्थत्यादि लक्षणात् ] ॥ 148.
द्रष्टुं दिग्भ्यो दशभ्यो यदपर्याप्तदृगष्टकम् •
————(l.15) 149.
Lines 16 to end of page missing
हतोर्वाक्यार्थत्वात् ॥ पूर्वश्लोकेपर्याप्तदृगष्टक इति विशेषणस्य पदार्थ-
त्वाभिमानात् ॥ 150.
सर्वस्वहारिणस्त्रस्तो वरुणो वाडवाद्ध्रुवम् •
यत्कूपान्‍सेवते तोयं गिरिदुर्गे कुतो(l.1)न्यथा ॥
वरुणस्य सर्वस्वं समुद्रस्तं दहतो वाडवाग्नेर्ध्रुवं भीतो वरुणो यत्कू-
पान्सेवते . वरुणत्रास(l.2)स्य साध्यस्य साधनमाह . अन्यथा यदि न वरु-
णस्य भयं स्यात्तद्गिरिदुर्गे तोयं कथं स्यात् . वरुण(l.3)स्य जलाधिपतित्वा-
दिति भावः ॥ अनुमानम् ॥ साधनात्साध्यप्रतीतिरनुमानस्य लक्षणम् ॥
(l.4) अत्र गिरौ जलसंभवात्त्रासानुमानम् ॥ 151.
वरुणादिमहेन्द्रान्तमूर्त्तयो यत्र पार्थिवाः •
शिष्ट(l.5)दिक्पतिमूर्त्तित्वं गृह्णन्तेन्यपुरीः प्रति ॥
1 No Comm. [ उदारालंकारः-उत्तरोत्तरोत्कर्षमुदार इति लक्षणात् ]
2 Ms. °काजं°. 3 Ms. °जच्छं°. 4 Ms. येतो. 5 Ms. °माब्जं°. 6 Ms. °काब्जे°.
7-7 Ms. lc. at the top of page. 8 i.e. only one verse between द्रष्टुं
दिग्भ्यो and सर्वस्वहा°. 9 Ms. °न्सव°. 10 Ms. °बस्ते°.

वरुणादारभ्येन्द्रं यावत्पञ्च लोकपालास्तेषां मूर्त्तयस्ते(1.6)जोंशा येषां
तथाविधास्तत्र राजानो भवन्ति . तत्र वरुणत्वमशेषजनाप्याय्यैनात् . वायुत्वं
बलि(1.7)त्वात् . कुबेरत्वं धनदत्वात् . शर्वत्वं सर्वोत्कर्षात् . इन्द्रत्वमखण्डि-
तज्ञत्वात् . यत्रत्या राजानोवशि(1.8)ष्टा ये दिक्पतयो वह्निमन्नैर्ऋतास्तद्भावं
शत्रुनगरीषु गृह्णन्ति . अग्नित्वं तासां दाहात् . य(1.9)मत्वं शत्रुमारणात् .
नैर्ऋतत्वं शत्रुपुरीनिर्वसत्वर्करणात् ॥ अनुमानम् ॥ 152.
स्वर्गे पाल(1.10)ननिर्माणवर्णनैर्देववेश्मनाम् •
ध्रुवं पश्यति यत्रत्यो राजा चित्रकरः कविः ॥
पालनादिभिः(1.11) राजाद्यस्स्वर्गं गच्छन्ति ॥ यथासंख्यम् ॥ उद्दि-
ष्टानांमर्थानां क्रमेणानुनिर्देशात् ॥(1.12) 153.
व्यर्थौ यशःप्रतापाभ्यां राज्ञां यत्रेन्दुभास्करौ •
धत्तोर्धरात्रमध्याह्ने छत्रत्वं देववेश्मनाम् ॥(1.13)
यत्र राज्ञां यशःप्रतापाभ्यां हेतुभ्यां व्यर्थौ निष्प्रयोजनौ सन्तौ चन्द्रा-
कौं अर्धरात्रे मध्याह्ने च दे(1.14)वगृहाणां छत्रभावं धत्तः ॥ प्रतीपम् ॥ यशः-
प्रतापाभ्यां चन्द्रार्कयोराक्षेपात् ॥(1.15) 154.
[Lines 16 to end of page missing] (**37)
यत्कान्ताकेशसंस्कारघूपधूमस्सुधासितम् •
श्यामीकरोति सततं सौधं सितकरं ततः ॥(1.1)
यत्स्त्रीकेशसौगन्ध्यार्थे धूमैः पूर्वं सौधं ततश्चन्द्रं श्यामीकरोति ॥
पर्यायः ॥ क्रमेणैकस्या(1.2)नेकस्मिन्ननेकस्यैकस्मिन्नवस्थानात् ॥ 155.
यत्राधत्ते निशि मरुत्सौधेन्दुमणिशीकरैः •
घर्मोद(1.3)विन्दून्वामानां गण्डयोश्चन्द्रकान्तयोः ॥
1 Ms. °भ्येन्द्रं. 2 Ms. ताव°. 3 Ms. °प्ययं. 4 Ms. °कारं. 5 Ms. भिन्नं.
6 Ms. व्यर्थो. 7 Read धूपधू°.
१८

१३८ पृथ्वीराजविजयमहाकाव्यम्.
यत्र रात्रौ स्त्रीणां वायुर्बिन्दुसुन्दरयोगेऽडयोर्घर्म(l.4)जलकणान्गृह्णाति
कैस्सौधचन्द्रकान्तकरैः ॥ परिवृत्तिः ॥ चन्द्रकान्तजलकणैस्स्रवे(l.5)दाम्बु-
ग्रहणात्समत्वम् ॥ 156.
पञ्चभिर्मार्गणैः पौष्पैस्स्मरो हरति कामिनाम् .
हृत्काञ्चना(l.6)म्बुजवनं वियोगाग्निपरीक्षितम् ॥
पुष्पमयैः पञ्चभिर्बाणैः कामो विरहाग्नौ परीक्षिक्षि(l.7)तं चित्तहेमप-
द्मवनं हरति ॥ 157.
सर्वस्वमपि संत्यज्य स्वगृहाद्यत्र मानिनः .
यशो गृह्णन्ति(l.8) तद्यस्य परे चर्वितचर्वकाः ॥
यस्य यशसः चर्वित चर्वणेपि कृते चर्वका भवन्ति(l.9) तद्यशस्सर्वस्वं द-
त्वा मानिनो गृह्णन्ति ॥ परिवृत्तिः ॥ सर्वस्वेनाधिकेन यशसो न्यून(l.10)स्य ग्र-
हणेन न्यूनत्वात् ॥ पूर्वत्र पञ्चभिशरैर्हेमपद्मवनहरणादधिकम् ॥(l.11) 158.
अपावनं धनं यत्र सर्वथा त्यागिनां गृहे .
अत्यागैः स्तूयते मौग्ध्याद्वालाभिर्यत्र कामिनाम् ॥(l.12)
अपगतमवनं रक्षणं त्यागाभावो यस्य तद्धनं त्यागिनां दातृणां गृहे
भवति . बालाभिः(l.13) कामिनामत्यागः अतिशयेनापराधः स्तूयते मुग्ध-
त्वात् ॥ परिसंख्या ॥ अपावन(l.14)············त्यागिधनादावेव नियम-
नात् त्यागिधन······वा······नृ(l.15)············भिसयः······
···(l.16) 159,
[Lines 17 to end of page missing] (*)
[सतां परापवा]दोपि यत्र श्रोत्रमहाज्वरः .
स्वस्याकीर्त्तिर्भवेद्येन ततु व्यवहरन्ति के ॥
1 Ms. पौष्पै°. 2 Ms. ॰र्वेत्थं. 3 Ms. ॰गस्तू°. 4 Ms. ॰र्त्तिंन°.

पञ्चमः सर्गः . १३६
परस्यापवादोपि स(l.1)तां महाज्वरः कर्णयोर्भवति येन स्वस्यापयशो
भवेत्तत्के कुर्वन्ति . वाच्यां सैवं . यत्र परनिन्दापि(l.2) दुर्बचा तत्र स्वस्याकी-
र्त्तिहेतुभूतव्यवहारपरिहार आपतित इति शब्दोपात्तार्थापत्तिरि(l.3)ति सैव
वाच्या॑ ॥ १६०.
जहौ प्रागुपमानत्वं चरमं चोपमेयताम् .
यस्य संवर्धमानस्य संप(l.4)द्भिरमरावती ॥
प्रतीपम् ॥ अधिकगुणत्वसंभावनयोपमानत्वेन कल्पितामरा(l.5)वती
गुणानामन्तरपरीक्षणे सति पूर्वमुपमानत्वमत्यजत् पश्चादुपमेयताम् . अति-
(l.6)न्यूनगुणत्वादिति भावः ॥ १६१.
पुरान्तरेषु घनया श्वेतन्ते ज्योत्स्नया यदा .
तदा नीलन्ति यत्सौधान्य(l.7)सितागुरुधूम्यया ॥
अन्यनगरे पौर्णिमास्यादौ सौधानि श्वेतन्ति श्वेतानि भवन्ति तत्र तु
तदैव काला(l.8)गुरुधूमेन यत्सौधानि नीलानि भवन्ति ॥ गुणक्रियासमु-
च्चयः ॥ नीलनश्वेतनयोर्गुण(l.9)क्रिययोर्योगपद्यम् ॥ १६२.
शीलालङ्करणं रूपं त्यागालङ्करणं धनम् .
श्रुतालङ्करणं मे(l.10)धा यत्र पुण्यानि शंसति ॥
यत्र रूपादीनि शीलाद्यलङ्कृतानि पुण्यसूचकानि भवन्ति ॥(l.11)
सद्योगः ॥ रूपादीनां सतां शीलादिभिस्सद्भिर्योगात् ॥ १६३.
सचौरैर्दण्डकच्मापैरवर्षैर्देव(l.12)मातृकैः .
निर्धनैर्बहुदुर्भिक्षैर्दुर्जयं तत्पुरान्तरैः ॥
सचौरत्वादिविशेषणविशिष्टैरन्यन(l.13)गरैस्तज्जेतुं न शक्यम् [॥
असद्योगः ॥ पुरान्तराणामसतां चौरादिभिरसद्भिर्योगात् ॥(l.14) १६४.


1 Ms. °टेपि. 2 Ms. वाम्या. 3 i.e. अर्थापत्तिः. Perhaps one illustration
of गम्या अर्थापत्ति is lost. 4 Ms. वाम्या. 5 Ms. °नम°. 6 Ms. °षिमा°.
7 Ms. °दाण्ड°. 8 Ms. °दुज°.

१४० पृथ्वीराजविजयमहाकाव्यम्.
'
धर्मो दम्भं लोभमर्थः कामोस्थानमसक्तताम् .
मोक्षश्चार्चनवैमूख्यं दिशन्यत्र न हस्यते ॥(l 15)
अन्यपुरेषु धर्मादयो दम्भादिक्लुषिता हस्यन्ते ॥ सदसद्योगः ॥ सतां
धर्मादीना- 165.
[Lines 17 to end of page missing] (**38)
स्य यस्य राज्ञः प्रतिकारासामर्थ्ये सति तत्संबन्धिनां पराभवात् ॥ 166.
यत्र मेघाः पिधीयन्ते गवाक्षा(l 1)गुरुधूम्यया .
सौदामिनीभिस्तेषां च हेमहर्म्यमरीचयः ॥
जालनिर्गतकालागुरुधूमैर्य(l.2)त्र मेघाश्छाद्यन्ते विद्युद्भिश्च स्वर्णहर्म्यां-
शवः ॥ मीलितद्वयम् ॥ वस्तुना वस्त्वन्तरनिगूह(l.3)नात् ॥ 167.
अभिन्नैकेन्दुभूरिस्त्रीमुखवातायनाः क्षापाः .

पञ्चमः सर्गः । १४१
इन्द्रनीलगृहरश्मिभिस्सर्वाङ्गेषु नीलो भवति ॥(1.10) तद्गुणः ॥ अन्यदी-
यसितासितगुणग्रहणात् ॥ 169.
न शक्यते यदानेतुं कलिना म(1.11)लिनात्मताम् .
तमसा चन्द्रबिम्बं हि सविशेषं प्रकाशते ॥
कलिना यन्नगरं मालि(1.12)न्यं नेतुं न शक्यते यतः चन्द्रस्तमसात्यर्थं
शोभते ॥ अतद्गुणः कलिगुणाननुहारात् ॥(1.13) 170.
गृह्येत त्रिगुणं त्वत्तो न स्याद्ग्रहणं यदि .
प्रत्यादिशन्ति शम्भल्यो यस्मिन्नित्यान्तंकामुकान् ॥(114)
[यस्मिन्] कुंट्टिन्यो......न्तांन्कामुकानिति प्रत्यादिशन्ति निषे-
धयन्ति इति हेतोर्यदि तत्कर्तृ(1.15)कत्वं कर्मर्कम................त्यर्थः
तदा त्व[त्तः त्वत्]सकाशान्मया (1.16) त्रिगुणं गृह्येत परं सा तु त्वां न गृह्णाति
मद्धस्ते त्वया न्यस्तं यद्वस्तु तन्न गृह्णातीत्य(1.17)र्थः ॥ उत्तरम् ॥ अत्र
हि उत्तरात्प्रश्नमुन्नीयते . कामुकैर्हि कुट्टिनीनामुक्तमेतत्(1.18) इदं वस्तु तस्यै
देहि सा मत्समीपं त्वयानीयतामिति ततः कुट्टिनीभिः पूर्वोक्तमुत्तरं(1.19)
दत्तमस्मादुत्तरात्प्रश्नोन्नयनम् . त्वत्त इति कामुकपरामर्शकम् एकवचनं तु
प्र(1.20)त्येकं पृथग्भाषणात् कुट्टिन्यो ह्यभिसारिकाणां गौरवराक्षणार्थं जना-
नुत्तरयन्ति ॥(1.21*) 171.
कं यत्र पुष्करं गत्वा वरिवस्यन्ति साधवः .
कं पुष्कराद्गृहायातं स्पृष्ट्वा शुद्धिं च मन्वते ॥
पुष्करं ती(1.1)र्थ गत्वा साधवः कं ब्रह्माणमुपासते पुष्करतीर्थाद्गृहा-
यातं कं जलं स्पृष्ट्वा शुद्धिं मन्यन्ते कमि(1.2)ति प्रश्ने कं ब्रह्माणं कं जल-
मित्यत्तरं^7 द्वितीयम् ॥ 172.
1 Ms. शम्ब°. 2 Is it °त्यार्तं° ? 3 Ms. कुट्टिट°. 4 Is it आतान्कां° ?
5 Sic. Is it तत्कर्तृकं त्वत्कर्मकमग्रहणं ? 6 Ms. °ण्टण्यो°. 7 Ms. °रद्वि°.

१४२ पृथ्वीराजविजयमहाकाव्यम्
यत्र कर्णोत्पलन्यस्तहस्तं दीपावलो(l.3)किनीः .
दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ॥
दीपशमनार्थं कर्णोत्पलेषु न्यस्ता ह(l.4)स्ता यत्रैवं कृत्वा दीपानवलो-
कयन्तीर्नारीर्भर्तृनिकटे दृष्ट्वा सखीभिः प्रतिमुच्यते ॥(l.5) सूक्ष्मम् ॥
रिरंसारूपसूक्ष्मार्थप्रकाशनात् ॥ १७३.
शीतः पाणिरपथ्योयं सद्यो मे निरगाज्ज्वरः .(l.6)
यत्र रामा प्रियस्पर्शप्रस्वेदमिति निह्नुते ॥
इदानीं मम ज्वरो निर्गतोतस्तवायं पाणिः शी(l.7)तत्वादपथ्य इत्य-
नेन वचसा प्रियँस्पर्शन प्रस्वेदं रामाच्छादयति ॥ व्याजोक्तिः ॥ स्वेदेनो-
द्विन्नस्य(l.8) प्रियस्पर्शसुखस्य ज्वरनिर्गमनेन निगूहनात् ॥ १७४.
मा प्रवेक्ष्यति कोप्यन्तर्मा शब्दश्श्रूयते बहिः .(l.9)
वाक्यं यत्र नवोढानामिति कान्तैर्निगद्यते ॥
नवोढा वक्ति मा हठादिकं कुरु यतः कोप्यन्तः प्रवेक्ष्य(l.10)ति तथा
मायुङ्ग्ध्व यतो बहिशब्दश्श्रूयते एतदेव कान्ता अनुवदन्ति मा निषेधं कुरु
यतः कोप्य(l.11)न्तः प्रवेक्ष्यति काकुप्रयोगेण न प्रवेक्ष्यतीत्यर्थः मा निषेधं
कुरु यतो बहिशब्दश्श्रूयते काकु(l.12)प्रयोगेण न श्रूयते इत्यर्थः ॥ वक्रोक्तिः
काकुप्रयोगात् ॥ १७५..
कोप्यन्तर्मे न ते स्नेहः कोपवन्तं त्य(l.13)जान्तरात् .
नतोहमिति मानिन्यो रम्यन्ते यत्र कामिभिः ॥
मँमान्तः स्नेहस्तव नास्ति यद्वां त्वत्कर्तृकः स्नेहो मेन्तर्मयि विष(l.14)-
यभूतायां न भवतीति मानिनीनामुक्तिः कामिभिस्त्वन्यथा योजनं कृतम् त्वं
1 Ms. °न्तीन्नारीम्भ°. 2 Ms. °यिःशी°. 3 Ms. प्रियास्प°-. 4 Ms. वक्रो°.
5 Ms. ममा° to. यद्वा lc. under l. 13.

[कोपी] कोप(l.15)वान् मे मम नते प्रणते स्नेह इति त्वयोक्तम् तत्कोपमन्त-
राच्चित्ता[त्त्यज त]वाहं नैतः प्र(l.16)णामकारीत्युक्त्या कामिभिर्मानिन्यो
रम्यन्ते रमणीजनाः . मे इत्येकवचनमेकैककामिन्य(l.17)भिप्रायत्त् ॥
श्लेषेण सैव ॥ सैवेति वक्रोक्तिः ॥ 176.
यत्र स्तनन्धयान्हस्ते रत्नदीपं जिघृ(l.18)क्षतः .
दृष्ट्वा हाहेति संभ्रान्ता धात्री चेतैर्विहस्यते ॥
रत्नदीपं हस्ते गृह्णतो बालान्दृ(l.19)ष्ट्वा सम्भ्रान्ता हाहेति वदन्ती
धात्री चेतैरुपहस्यते ॥ स्वभावोक्तिः ॥ 177.
निपीडितस्य पूर्णे(l.20**39⁵)न्दोस्सुधया पङ्किलाङ्गुली .
यत्र मृत्युजितः पादौ भाव्येते भावितैः पुनः ॥
पीडितस्यासनभूत(l.1)स्य पूर्णचन्द्रस्यामृतेनाङ्गुली मृत्युजितो भग-
वतः पादौ भक्तैः प्रणिधीयेते ॥ भाविकम् ॥(l.2)अत्यन्तविप्रकृष्टस्य भगव-
दङ्घुलिपङ्किलत्वस्य प्रत्यक्षाद्यमाणत्वात् ॥ 178.
च्युतकर्पूरकस्तू(l.3)रीपांसुला पण्यवीथिका .
कुरुते पाण्डुरश्यामवाससो यन्निवासिनः ॥
च्युताभ्यां कर्पूरक(l.4)स्तूरीभ्यां पांसुला यत्राट्टवीथी यस्मिन्निवा-
सिनः पौरान्सितासितवस्त्रान्करोति ॥ उदात्तम् ॥(l.5) सातिशयसमृद्धिवर्ण-
नात् ॥ 179.
पारेसिन्धु विजिग्ये यां मध्येसिन्धु व्यधाच्च याम् •
रामः कृ(l.6)ष्णश्च नगरीं ते दास्ये यस्य नोचिते ॥
' समुद्रपारे यां नगरीं लङ्कां रामो जितवांस्तथा समु(l.7)द्रमध्ये नगरीं
1 Should be ॰कोपिनां. 2 Ms. ॰राश्चि॰. 3 Ms. ॰वाहनं नं॰. 4 Ms. वक्रो॰.
5 Ms. पृ. रा. ४५ vertically on margin.

द्वारवतीं कृष्णो यां व्यधात्ते नगर्यौ यस्य दासत्वयोग्ये न भवतः ॥
द्वितीयमुदात्तम् ॥(l.8)लङ्काजयद्वारिकानिर्माणयोर्महापुरुषचरितयोरङ्गभू-
तत्वात् ॥ 180.
चन्द्रांशुस्मेरधम्मिल्ल(l.9)मल्लिकानां प्रियान्प्रति •
सौधेषु गीतं रामाणां यत्रालिभिरनूद्यते ॥
चन्द्रांशुभिः स्मेराशु(l.10)भ्रतरा धम्मिल्लमल्लिका यासां स्त्रीणां
प्रियानुद्दिश्य गीतं सौधेषु सखीभिरनु पश्चा(l.11)दुच्यते गीयते ॥ रस-
वत् ॥ रतेरङ्गत्वाद्सवदलङ्कारः ॥ 181.
सौधेष्विन्दूदये शुद्धाः प्रि(l.12)यमार्गस्पृशो दृशः •
न व्याकुलयितुं भृङ्गा यत्रोत्पलदृशामलम् ॥
चन्द्रोदये प्रियमा(l.13)र्गवीक्षिणीरुत्पलदृशां दृष्टीर्व

पञ्चमः सर्गः . १४५
हठेन पादपतनं यत्र रामासु सागसाम् .
कोपाग्निं दीपयति च प्रसादान्बु च वर्षति ॥
रामासु सापराधनां संबन्धिं१ हठेन प्रणमनं कर्तृ कोपाग्निं ज्वलय-
ति हर्षजलं च वर्षति . प्रसादे इति वा पाठः ॥ भावसन्धिः ॥ असूयौत्सु-
क्ययो रत्यङ्गयोर्भावात् ॥ १८५.
लटभाभिस्स्वयं दत्तं विलासिषु नवंक्षतम्३ .
दृष्टं विस्मृत्य रत्यन्ते यत्रैति क्षणविघ्नताम् ॥
कामिनां तरुणीभिस्स्वयमेव दत्तं२ तदेव विस्मृतं सद्रत्यन्ते दृष्टं
विघ्नतामेति ॥ भावोदयः ॥ असूयोदयात् ॥ १८६.
यस्मिन्पराङ्मुखी रक्ता साश्रुस्स्मेरा च योषिताम् .
सुसखीसाक्षिकं दृष्टिर्भवत्यानमति प्रिये ॥
रमणीनां प्रिये प्रणमति सति दृष्टिः पराङ्मुखत्वादिसहिता४ स्निग्ध-
सखीसाक्षिकं भवति ॥ भावशबलता ॥ अमर्षासूयानिर्वेदहर्षाणां शब-
लत्वात् ॥ १८७.
भ्रूभङ्गभङ्गिभिस्त्रीणां येनाप्ताश्चापराजयाः .
कामस्य कामिभिर्यत्र कृतस्तस्य पराजयः ॥
येन कामेन भ्रूभङ्गविच्छित्तिभिर्हे५तुभिश्चापानां राजयः पङ्क्तयः प्राप्ताः
तस्य कामस्य कामिभिः पराजयः कृतः ॥ अनुप्रासयमकयोस्सं-
सृष्टिः ॥ १८८.
• केलीकोकिलकाकल्याः कल्पाः कान्तागिरो जये .
यत्र कामयमानानां नानाङ्गं सुवते सुखम् ॥
1 Ms. संबधि. 2 Ms. दत्तुं. 3 Is it नखं° ? 4 Ms. ॰खादि॰. 5 Ms. ॰भिहे॰.
१६

१४६ पृथ्वीराजविजयमहाकाव्यम्.
यत्र प्रियाणां वाचः(l.14) कामयमानानां कामिनां नानाविधं सुखमु-
त्पादयन्ति केलीकोकिलानां काकलीक(l.15)········स जये कल्पाः कुश-
लाः ॥ तयोरेव संकरः ॥ 189.
कर्पूरविपणौ यत्र सर्वस्मि···(l.16)- 190.
Lines 17 to end of page missing
स्थानेनामरावतीन्द्रनगरी भूरिसौभाग्यं स्पृशति . समगुणेति तात्पर्यम्.
या च स्त्री पुरुषार्थि(l.1)तद्वृत्तिसात्यार्थे सुभगा ॥ समासोक्त्युत्प्रेक्षा-
सङ्करः ॥ स्पृशतीति संभावनातात्पर्या(l.2)दार्थ्युत्प्रेक्षा नायिकाव्यवहारा-
रोपाच्च समासोक्तिः ॥ 191.
एवंविधामजयमेरुपुरः प्र(l.3)तिष्ठां
कृत्वा सकौतुक इवाजयराजदेवः .
दोर्वीर्यसंहतनयं तनयं विधाय
सिंहासने त्रि(l.4)दिवमीक्षितुमुच्चचाल ॥
एवंविधामजयमेरुनगरस्य प्रतिष्ठां कृत्वा स्वर्गदर्शनार्थं(l.5) कौतुकीव.
नगरान्तरलाभार्थमिति भावः . भुजबलमिलितनीतिं पुत्रं सिंहासने कृत्वा
(l.6)चलितः ॥ 192.
अर्णोराजोथ सादाशिवमनिशमनु

पञ्चमः सर्गः . १४७
'
प्राप्यैकमप्रतिमल्लं पुष्करक्षेत्रं समस्तभूमौ पुण्डरीकाणां (l.11) छत्राणां प्रकटं
विघटनेनोद्धतानां मातङ्गराजानां म्लेच्छानां त्रासायासोत्पादने व्यवस्थितं
(l.12)शक्तमकरोत् ॥ व्यवहितमिति पाठो नार्षः . सिंहश्च पुण्डरीकाणां
व्याघ्रविशेषाणां विघ(l.13)टनादधिकमुद्धतानां हस्तिनां भयमुत्पादयतीति
भद्रम् ॥ 193.
श्रीलोलराजसुतप(l.14)ण्डितभट्टनोन-
राजात्मजो विवरणेन स जोनराजः .
सर्गे चिराद्व्यधित पञ्चममञ्चि(l.15)---
︶︶︶︶︶︶︶︶︶︶राजे ॥
श्रीश्रीकण्ठचरित्रकाव्यविवृतौ(l.16)
Lines 17 to end of page missing
* * * * *
1 Ms. °यउ°, 2 Ms. °जः. Is it °ञ्चितं श्रीपृथ्वीमहेन्द्रविजयाभिधकाव्यराजे ?

[ षष्ठः सर्गः ]


समीयु-
र्भयं तदेवाजयमेरुनार्यः ॥
प्रथमं चन्द्रस्य राहुणा ग्रहे ग्रासे सति चन्द्रलोके दाक्षा(l.1)यणीनां
ताराणामश्विन्यादीनां यद्भयमासीत्तदेव तत्सममित्यर्थः दुर्गाङ्गनाः प्रापुः
(l.2)विषण्णे हस्तश्रश्रवणं च नक्षत्रे हस्तः करश्रश्रवणं कर्णौ यासां ताः ॥ 1.
रजोभिरेव प्रतिभानभङ्गे(l.3)
पूर्वस्य पुंसस्तरणेः प्रवृत्ते .
निर्गत्य सोष्मा विदधे स दोष्मा-
नौर्वाग्नितां तत्कटकार्णवस्य ॥
अ(l.4)र्णोराजस्य पूर्वः पुमानादित्यः तस्य रजोभिरेव प्रकाशनाशे
जाते सोष्मा दृप्तो दोष्मान्भुजशा(l.5)ली स····························[सै]न्य-
समुद्रस्य वडवाग्नितामकरोत् तत्कटकमशोषयदित्यर्थः ॥(l

षष्ठः सर्गः . १४६
भा(l.9)ग्यानि भवन्ति . यदि हि म्लेच्छा रणे संमुखा म्रियेरंस्तदार्कबिम्बं
भित्वा गच्छेयुः नत्वेवमतो न(l.10)रके पतिताः ।। ३.
दोश्शालिनामाजयमेरवाणां
यल्लोहघातैः करणीयमासीत् .
भारा(l.11)यमाणैर्निजवर्मलोहै-
स्तदन्वभूवन्बहवस्तुरुष्काः ॥
अजयमेरुभवानां भटानां श(l.12)स्त्राघातैर्यत्कर्तव्यमासीत्तद्भारीभूतै-
रायसकवचैर्बहवस्तुरुष्काः प्रापुः . निजकवचभ(l.13)रैरेव मृता इत्यर्थः।। ४.
पुरोगतानामसवो निरीयुः
पिपासया ये मरुधूलिमध्ये .
तैरेव सा(l.14)~~~~~—
—————— ॥
.........पिपासया(l.15) ५.
Lines 16 to end of page missing
—घतस्कराढ्ये
सुखेन पाथेयमिवात्तवद्भिः ॥
अश्वग्रीवास्वायुधप्रहारं दत्वा शोणितं पीतवद्भिः कैश्चिन्मृतम् .
भावे क्तः . अत्रोत्प्रेक्ष्यते पापचोरसंकुले नरमार्गे पाथेयमिव गृह्णद्भिः(l.2) .
चौरबहुले च लोकः पाथेयं गृह्णाति ॥ ६.
मरुस्थलीवालुकया प्यधत्त
कांश्चिद्दिपन्नांल्लु(l.3)ठतः पृथिव्याम् .
1 Ms. दौ°.

१५० पृथ्वीराजविजयमहाकाव्यम्.
संस्कारमात्मोचितमन्तकाले
प्रवर्तयन्ती कृपयेव वात्या ॥
मृतान्भूमौ लुठ(1.4)तोन्वान्वातसमूहो मरुसिकतयाच्छादयत् . अत्रो-
त्प्रेक्ष्यते कृपया हेतुभूतया यवनोचि(1.5)तं प्रेतसंस्कारं भूमिनिखननलक्षणं
प्रवर्तयन्तीव ॥ ७.
रुध्वा स्थितान्कांश्चन राजमार्ग
ग्रा(1.6)म्याश्शवान्गन्धभयेन हुत्वा .
तुरुष्कमांसस्य चिराद्रसज्ञं
क्रव्यादमग्निं रचयांबभूवुः ॥(1.7)
राजमार्गमावृत्य स्थितान्कांश्चन शवान्गन्धभयेन हुत्वा ग्रामिणः क्रव्या-
दमसंस्कृतमग्निं (1.8) तुरुष्कमांसस्यास्वादज्ञं चिराच्चक्रुः ॥ ८.
बभूव यावानवनेः पुरस्ता-
द्भारस्तुरुष्कैर्व्यसुभि(1.9)र्लुठद्भिः .
तावानभून्मेदुरितोदरीणां
तत्पारणाद्भारणतश्शिवानाम् ॥
तुरुष्कैर्गतप्रा(1.10)णैर्लुठद्भिः पूर्वं भूमेर्यावान्भारोभूत्तावानेव भारस्त-
त्पारणात्तुरुष्कग्रसनात्पीवरोदरीणां (1.11) जम्बुकीनां धारणातोभूत् . पार-
णाशब्दो भक्षणे वर्तते. तुरुष्कभक्षणे निवृत्तस्य भारस्य शिवामे(1.12)दुर-
त्वात्पुनरुदयः ॥ ९.
असृचि तेषां विशतामुलूकै-
स्सपादलक्षं यदमङ्गलं प्राक् .
त(1.13)त्तत्पलास्वादननिर्वृतस्य
भद्रं बभाषे बलिभुक्कुलस्य ॥

1 Ms. °भिः लु°. 2 Ms. °निवृ°.

'
सपादलक्षं नाम देशविशे(l.14)षं विशतां म्लेच्छानाममङ्गलमुलूकैः
कौशिकैर्येत्सूचितं तदमङ्गलमेव कर्तृ काक(l.15)[कुलस्य] शुभमसूचयत्
यतो मृतम्लेच्छमांसग्राससुखितस्य . आसादनेति पाठो ना(l.16)[र्षः]
...... ॥ 10.
~-~~~~~- रीति
परस्परस्याप्सरसो हसन्त्यः .
जनङ्गमैमूर्धभिरर्ध(l 17)~~

...............रुदयं समेभ्य(l.18) 11.
[Lines 19 to end of page missing](*)
तिस्ते तत्र कथामात्रमपि नाकुर्वन्निति. पांथेष्विति यस्य च भावेन
भावलक्षणमिति सप्तमी(l.1). पांथाः कथामत्यजन्शृङ्गाद्युत्स्वकुर्वन्निति
तात्पर्यम् ॥ 12.
पवित्रिता वीररसेन धात्री
[L1

राज्ञस्सेना दिशस्सर्वा उच्चैश्श्रवस्सर्गप्रकृ(l.6)तीरिव व्यधात् हताः
प्रसादीकृता नष्टाश्चेतेभ्यश्शिष्टाः प्रविष्टास्तौरुष्कास्तुरङ्गमा यस्यां(l.7) सा .
तुरुष्कवाहापहरणात्तत्सेना दिशोजैषीदिति भावः . उच्चैश्श्रैवा एक एव स च
स्वर्ग(l.8) एवास्ति तत्सेना तु वराश्वबाहुल्याद्बहुसंख्योच्चैश्श्रवस्सहिता दिशो-
पि व्यधादित्यपि श(l.9)ब्दार्थः यद्वा हतादिभ्यश्शिष्टत्वादल्पप्रविष्टाश्वां-
पि दिशोनेकोच्चैश्श्रवस्सहिता...........² ॥ १४.
भीत्या विना कस्य न सुप्रवेश-
मुपक्रमे यत्समरस्य जज्ञे .
भाग्यैर्विना कस्य(l.10) न च प्रवेष्टुं
साध्यं न तत्पार्थिवसैन्यमासीत् ॥
रणारम्भे यद्राजसैन्यं भीत्या विना कस्य न(l.11) सुप्रवेशमभूत् . भीति-
रेव तत्र सैन्ये न प्रविष्टा अन्ये तु सर्वे तुरुष्काः प्रविष्टा इत्यर्थः . तद्रा(l.12)ज-
सैन्यं कस्यापि प्रवेष्टुं साध्यं नासीत्कैर्विना . भाग्यैर्विना . भाग्यान्येव समरान्ते
प्राविशन्नन्ये तु तु(l.13)रुष्का हता इत्यर्थः हत्वा तुरुष्कांस्तद्धनं प्राप्तमिति
भावः . यद्वा निर्भयस्य कस्य न सुप्रवे(l.14)शमिति यज्जनैरज्ञे ज्ञातं
तद्राजसैन्यं भाग्यानि विना कस्यापि न प्रवेष्टुं शक्यमिति ॥(l.15) १५.
एकैकमु ︶ ︶ ︶ ︶ ︶ ︶
︶ ︶ णीर्भर्तुरिवाभिधातुम् .
संप्रोषितै ︶ ︶ ︶ ︶ ︶ ︶
︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ॥(l.16) १६.
Lines 17 to end of page missing
तथा परकटकं सिद्धवत्प्रविष्टा इत्यर्थः पौरस्तुत्यमृतपूर्णास्सत्सद्दिनो-
शोभन्त ॥ १७.
1 Ms. °वैश्र°, 2 Ms. lc. on margin. 3 Ms. °धस्वा°. 4 Ms. °भर्त्त°. 5 Ms. °पूर्णास्सां,

षष्ठः सर्गः . १५३
नृपः(l.1) पताकासिचयप्रपञ्च-
सञ्चारिचित्राम्बरभूषणायम् •
अलोठयित्वैव नवीकृतायां
पु(l.2)र्यामपूर्वां श्रियमैक्षते स्म ॥
ध्वजवस्त्राण्येव संचारि चित्रं यस्य तदम्बरं भूषणं य(l.3)स्यांमत
ऍवालोठयित्वैव लोंठनेन विनैव नवीकृतायां नगर्यां स शोभां दृष्टवान्.
शत्रुमारणा(l.4)न्नगर्या नवीकरणम् ॥ 18.
महोत्सवः क्ष्मापतिना सुलग्ने
न ज्ञायते कुत्र स सूत्रितोभूत् .(l.5)
अद्यापि यो रुद्धतुरुष्कयात्रं⁵
तथैव सर्वामवनीमुपास्ते ॥
योद्यापि म्लेच्छानां यात्रां रुद्ध(l.6)वान्सर्वां भुवं च व्याप्नोति स
महोत्सवो राज्ञा कस्मिन्नपि शोभने स्थिरे लग्ने प्रारब्धोभूत् • शोभन(l.7)-
लग्ने एवारब्धस्य स्थैर्योपपत्तेः ॥ • 19•
व्यापादि यस्मिन्नपवित्रसेना
स भूमदेशश्चिरकाल(l.8)मासीत् •
कङ्कालिकाकालिशृगालमाला-
मेलापकोलाहलकेलिरौद्रः ॥(l.9)
सा चाण्डालसेना यत्र मारिता तत्स्थानं कङ्कादिरौद्रं जातम् ॥ 20.
विशुद्धिहेतोरथ तस्य(l.10) राजा
घ्राणेन्द्रियाकास्मिकरौरवस्य •
अकारयत्कीर्त्तिपटीपिनद्ध-
क्षीरोदनशङ्कर(l.11)णं तटाकम् ॥


1 Ms. °लौठं. 2 Ms. °स्यांम°. 3 Ms. ऎवा°. 4 Ms. °लाठ°. 5 Ms. °त्रां.
We take it as an adverb. 6 Ms. °सीत्क°.
२०