पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 154, कुल 330 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः . १३५
स्वर्गादिषु कीर्तिरेकरूपा समा समं युगपत्स्थिता ॥ वि²(l.15) 141.
[Lines 16 to end of page missing] (**36)
गैः पुनः राजभिः कीर्त्तिरनुपाल्यते ॥ व्याघातः ॥ उत्पत्तिविनाशयो-
रेकोपायत्वात् ॥ अत्र(l.1) राजभ्य एव वृषोत्सर्गैरुत्पत्तिः तैरेव तेभ्य एव
च विनाशः ॥ 142.
अबला इति बाध्यन्ते सबलैरन्य(l.2)देशजैः .
तेनैव हेतुना यत्र रक्ष्यन्ते राजभिः परे ॥
अन्यत्र राजभिरबलत्वाद्राजानो बाध्यन्ते त(l.3)स्मादेव हेतोस्तत्र
तैश्शत्रवो रक्ष्यन्ते ॥ व्याघातः ॥ व्याघातार्थं संभाव्यमानस्याबलत्वस्य
बाधा(l.4)विरुद्धरक्षणनिष्पादकत्वेन समर्थनात् ॥ 143.
यत्र वीर्यं प्रतापस्य प्रतापः कारणं श्रियः .
श्रीर्ध(l.5)र्मस्य नरेन्द्रणां धर्मो भोगापवर्गयोः ॥
यत्र वीर्यादयः प्रतापादीनां हेतवः ॥ कारणमाला ॥(l.6) 144.
अर्थो धर्मानुगो यत्र कामश्चार्थानुगो नृणाम् .
कामस्य शिवकामानां मोक्षोप्यनुगतां गतः ॥(l.7)
यत्र श्रेयस्कामानां धर्माद्यनुगा अर्थादयः ॥ एकावली ॥ अर्थादीनां
धर्माद्यनुगतत्वात् ॥ (l.8) 145.
यौवनेन वपुः स्त्रीणां यत्र रूपेण यौवनम् .
रूपं कान्तिविशेषेण सलावण्येन गर्जति ॥ (l.9)
यत्र यौवनादिभिर्वपुरादयो गर्जन्ति ॥ मालादीपकम् ॥ यौवनादीना-
मुत्तरोत्तर(l.10)वपुरादिगर्जनाव्यगुणावहत्वात् ॥ 146.
1 Ms. °त्तिरे°. 2 [ विशेषः । एकस्याः कीर्तेरनेकगोचरत्वात् ]. Perhaps one illus-
tration of विशेष—किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं is lost.