सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 158, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 158

पञ्चमः सर्गः . १३६
परस्यापवादोपि स(l.1)तां महाज्वरः कर्णयोर्भवति येन स्वस्यापयशो
भवेत्तत्के कुर्वन्ति . वाच्यां सैवं . यत्र परनिन्दापि(l.2) दुर्बचा तत्र स्वस्याकी-
र्त्तिहेतुभूतव्यवहारपरिहार आपतित इति शब्दोपात्तार्थापत्तिरि(l.3)ति सैव
वाच्या॑ ॥ १६०.
जहौ प्रागुपमानत्वं चरमं चोपमेयताम् .
यस्य संवर्धमानस्य संप(l.4)द्भिरमरावती ॥
प्रतीपम् ॥ अधिकगुणत्वसंभावनयोपमानत्वेन कल्पितामरा(l.5)वती
गुणानामन्तरपरीक्षणे सति पूर्वमुपमानत्वमत्यजत् पश्चादुपमेयताम् . अति-
(l.6)न्यूनगुणत्वादिति भावः ॥ १६१.
पुरान्तरेषु घनया श्वेतन्ते ज्योत्स्नया यदा .
तदा नीलन्ति यत्सौधान्य(l.7)सितागुरुधूम्यया ॥
अन्यनगरे पौर्णिमास्यादौ सौधानि श्वेतन्ति श्वेतानि भवन्ति तत्र तु
तदैव काला(l.8)गुरुधूमेन यत्सौधानि नीलानि भवन्ति ॥ गुणक्रियासमु-
च्चयः ॥ नीलनश्वेतनयोर्गुण(l.9)क्रिययोर्योगपद्यम् ॥ १६२.
शीलालङ्करणं रूपं त्यागालङ्करणं धनम् .
श्रुतालङ्करणं मे(l.10)धा यत्र पुण्यानि शंसति ॥
यत्र रूपादीनि शीलाद्यलङ्कृतानि पुण्यसूचकानि भवन्ति ॥(l.11)
सद्योगः ॥ रूपादीनां सतां शीलादिभिस्सद्भिर्योगात् ॥ १६३.
सचौरैर्दण्डकच्मापैरवर्षैर्देव(l.12)मातृकैः .
निर्धनैर्बहुदुर्भिक्षैर्दुर्जयं तत्पुरान्तरैः ॥
सचौरत्वादिविशेषणविशिष्टैरन्यन(l.13)गरैस्तज्जेतुं न शक्यम् [॥
असद्योगः ॥ पुरान्तराणामसतां चौरादिभिरसद्भिर्योगात् ॥(l.14) १६४.


1 Ms. °टेपि. 2 Ms. वाम्या. 3 i.e. अर्थापत्तिः. Perhaps one illustration
of गम्या अर्थापत्ति is lost. 4 Ms. वाम्या. 5 Ms. °नम°. 6 Ms. °षिमा°.
7 Ms. °दाण्ड°. 8 Ms. °दुज°.