सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 164, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 164

पञ्चमः सर्गः . १४५
हठेन पादपतनं यत्र रामासु सागसाम् .
कोपाग्निं दीपयति च प्रसादान्बु च वर्षति ॥
रामासु सापराधनां संबन्धिं१ हठेन प्रणमनं कर्तृ कोपाग्निं ज्वलय-
ति हर्षजलं च वर्षति . प्रसादे इति वा पाठः ॥ भावसन्धिः ॥ असूयौत्सु-
क्ययो रत्यङ्गयोर्भावात् ॥ १८५.
लटभाभिस्स्वयं दत्तं विलासिषु नवंक्षतम्३ .
दृष्टं विस्मृत्य रत्यन्ते यत्रैति क्षणविघ्नताम् ॥
कामिनां तरुणीभिस्स्वयमेव दत्तं२ तदेव विस्मृतं सद्रत्यन्ते दृष्टं
विघ्नतामेति ॥ भावोदयः ॥ असूयोदयात् ॥ १८६.
यस्मिन्पराङ्मुखी रक्ता साश्रुस्स्मेरा च योषिताम् .
सुसखीसाक्षिकं दृष्टिर्भवत्यानमति प्रिये ॥
रमणीनां प्रिये प्रणमति सति दृष्टिः पराङ्मुखत्वादिसहिता४ स्निग्ध-
सखीसाक्षिकं भवति ॥ भावशबलता ॥ अमर्षासूयानिर्वेदहर्षाणां शब-
लत्वात् ॥ १८७.
भ्रूभङ्गभङ्गिभिस्त्रीणां येनाप्ताश्चापराजयाः .
कामस्य कामिभिर्यत्र कृतस्तस्य पराजयः ॥
येन कामेन भ्रूभङ्गविच्छित्तिभिर्हे५तुभिश्चापानां राजयः पङ्क्तयः प्राप्ताः
तस्य कामस्य कामिभिः पराजयः कृतः ॥ अनुप्रासयमकयोस्सं-
सृष्टिः ॥ १८८.
• केलीकोकिलकाकल्याः कल्पाः कान्तागिरो जये .
यत्र कामयमानानां नानाङ्गं सुवते सुखम् ॥
1 Ms. संबधि. 2 Ms. दत्तुं. 3 Is it नखं° ? 4 Ms. ॰खादि॰. 5 Ms. ॰भिहे॰.
१६