सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पञ्चमः सर्गः . ११६
१
उदयादित्येन मालवदेशी(l.7)येनास्मादेवोन्नतिरुदयः प्राप्ता . समुद्रेण
गङ्गाह्रदादेव पूरणं प्राप्तम् ॥ ७६.
सारङ्गाख्यं(l.8) तुरङ्गं स ददौ यस्मै मनोजवम् .
नह्युच्चैश्रवसं क्षीरसिन्धोरन्यः प्रयच्छति ॥
मनोजव्वजो यस्य(l.9) तं सारङ्गनामानमश्वं स मालवाय ददौ क्षीरस-
मुद्रादन्य उच्चैश्रवसं न ददाति ॥² ७७.
जिगा(l.10)य गूर्जरं कर्णं तमश्वं प्राप्य मालवः .
लब्ध्वानूरुसूर्यरथं करोति व्योमलङ्घनम् ॥(l.11)
तमश्वं प्राप्य मालवः कर्णाख्यं गूर्जरमजयत् सूर्यरथं लब्ध्वानूरुका-
शलङ्घनं करो(l.12)ति ॥ ७८.
पृथ्वीराजस्सुतस्तस्मात्ततो - - - रभूत् .
कुमारब्रह्मचारी हि कुमारो मद्(l.13)[नद्विषः] ॥
[तस्मात्पृथ्वीरा]जाख्यः पुत्रो जातः कामवैरिणः कु[मारोपि] कुमार-
ब्रह्मचा(l.14)री भवति ॥ ७९.
रात्रौ रात्रौ चतुर्बाहुस्स एवादृश्यतानुगैः .
ऐरावणं विनान्यः कश्चतुर्दन्तो नि(l.15)शम्यते ॥
अनुगैः प्रतिनिशं स एव चतुर्बाहुर्दृष्टः . ऐरावणादन्यः कश्चतुर्दन्त-
³श्श्रूयते ॥(l.16) दृष्टान्तः पूर्वत्र साधर्म्येणोत्तरत्र वैधर्म्येण ॥ . ८०.
पुष्करे ब्रह्मकोशास्तिचुलुक्यशत(l.17)सप्तकम् .
हत्वा ब्रह्मस्वकामानां कुलक्षयमुपादिशत् ॥


1 Ms. °वैश्र°. 2 Add प्रतिवस्तूपमे द्वे । पूर्वत्र साधर्म्येणापरत्र वैधर्म्येण ।।
3 Ms. °न्तरश्रीं°.

). Most readers will recognize (l.20¹²)or(l.20²⁰́). Wait, let's look at: अच्छिन्नं सोमना(l.20²⁰́)थाध्वन्यन्नसत्रं च कारयत्ं .Wait, let's just write(l.20²⁰́)or(l.20¹²). In fact, (l.20²⁰́)looks very close visually to(l.20²⁰́). But wait, 1and2makes logical sense with the footnotes! Let's write(l.20¹²)or(l.20**²⁰́)- wait, is it¹²`? Yes, 1 and 2!

Let's check line 7:
इदं मोक्षार्थिनां भोगमानुषङ्गिकमब्रवीत् ॥

Line 8:
सोमनाथतीर्थ(l.1)मार्गेनवरतमन्नसत्रं च कारयदिदंमन्नसत्रकरणं मोक्ष-

Line 9:
काङ्क्षिणामातुषङ्गिकं फलम(l.2)कथयत् ॥ अवश्यं मोक्षः प्राप्तव्यः प्रस-

Line 10:
ङ्गादन्नमपि

पञ्चमः सर्गः . १२१
कीर्त्तिपुष्पविकासं यं रुद्धवान्कल्पशाखिनाम् •
मन्ये तमेव मोक्तुं यः(1.10) पुरन्दरपुरं ययौ ॥
स राजा कल्पवृक्षाणां यशःपुष्पविकासं यं रुद्धवांस्तमेव मोक्तुं(1.11)
स स्वर्गं गत इति जाने. कल्पवृक्षेभ्योतिदातासीदित्यर्थः . अतः कल्पतरूणां
यस्तेन कीर्ति(1.12)विकासा रुद्ध आसीत्तस्मिन्प्रमीते स उत्पन्नः ॥ ८६.
पद्मसबन्धिनीं लक्ष्मीं रिपुरामामुखा(1.13)नि यत् •
अत्यांजयदिति प्राप्ता गुणिभिर्श्रीर्न कैस्ततः ॥
स राजा वैरिस्त्रीमुखानि पद्म(1.14)शोभामत्याजयदित्यतो गुणि-
भिर्गुणवद्भिः पद्मैश्च कैर्न श्रीः प्राप्ता ॥ निदर्शने द्वे ॥(1 15) सम्भवद्वस्तु-
सम्बन्धाऽसम्भवद्वस्तुसम्बन्धा च . अन्यत्रान्यसम्बन्धिनीं छायामन्यः कथं
दधातीति(1.16) नास्ति वस्तुसम्बन्धः ॥ ८७.
स दुर्वर्णमयैर्भूमिं रूपकैः पर्यपूरयत् •
तां सुवर्णमयैस्तत्र क(1.17)विवर्गस्त्वपूरयत् ॥
दुर्वण्यं रौप्यं दुष्टा वर्णाश्च तन्मयै रूपकैर्दीनारविशेषैर्नाटकैश्च(1.18)
स भुवमपूरयत् सौवर्णैः सुवर्णमयैश्शोभनाक्षरमयैश्च कविवर्गस्तामपूर-
यत् ॥(1.19) ८८.
कीर्ति स वर्तमानानां भटैर्जहे जयप्रियैः •
अतीतानागतानां तु रूपकैरजयप्रियैः ॥ (1 20)
जयः प्रियो येषां तैर्भटैः करणभूतैर्वर्तमानानां कीर्तिमहरत् अजयस्य
राज्ञः प्रियै रूपकैः(1.21*) दीनारविशेषैश्च भूतानां भाविनां च राज्ञां कीर्त्ति-
महरत् ॥ ८९.
सोमलेखा प्रियाप्यस्य प्रत्यहं रूप(1.1)कैर्नवैः •
कृतैरपि न संस्पर्शं कलङ्केन समासद्त् ॥
1 Ms. अभ्या°. 2 Ms. दधतीं. 3 Ms. ॰कैप°. 4 Ms. राप्यं.
१६

१२२ पृथ्वीराजविजयमहाकाव्यम्.
तस्य प्रिया सोमलेखाख्या राज्ञी चन्द्रले(l.2)खा च प्रत्यहं नखैः कृतै
रूपकैर्दीनारविशेषैर्मृगैश्च हेतुभिः कलङ्केन पापेन लाञ्छनेन च स्पर्शं (l.3)
न प्रापत् ॥ व्यतिरेकभेदः ॥ उपमानादुपमेयस्याधिकगुणत्वेन न्यूनगुण-
त्वेन वा भा(l.4)नात् ॥ 90.
भाग्यैस्समं समुत्पन्नं प्रजाभिस्सह लालितम् .
वर्धितं सुकृतैस्साकमर्णोराजमसूत सा ॥ (l.5)
भाग्यादिभिस्सह समुत्पन्नत्वादिलक्षणविशिष्टमर्णोराजं पुत्रं साजन-
यत् . भाग्यानां तदु(l.6)त्पत्तिकारणत्वे तदुत्पत्तेर्वा भाग्यकारणत्वे सह-
भावोपनिबन्धात्कार्यकारणविध्वंसरूपातिश(l.7)योक्तिसहिता सहोक्तिः ॥ 91.
कीर्त्त्या विमलया साकं देवी सा भूपतेः प्रिया .
प्रतापेनं सहोग्रेण(l.8) प्रियः पुत्रश्च सोभवत् ॥
शुद्धया कीर्त्या साकं समं सा देवी राज्ञः प्रियाभूत् . एवमुत्तरार्द्धेपि
योज्यम् ॥(l.9) सहोक्ती ॥ 92.
लक्ष्मीर्र्विनाभिमानेन कीर्त्तिर्दुर्यशसा विना .
बभौ श्रीखण्डवल्लीव तस्य भोगभृता(l.10) विना ॥
निर्गर्वा श्रीर्निन्दारहिता च कीर्त्तिस्तस्य बभौ यथा सर्पत्यक्ता चन्द-
नलता ॥ 93.
कवित्वे(l.11)नेव पाण्डित्यं द्रविणेनेव यौवनम् .
ननाश तद्रिपुबलं विना दीप्तेन तेजसा ॥
यथा क(l.12)वित्वेन विना पाण्डित्यं यथा च धनेन विना यौवनं
तथा तेजसा विना तच्छत्रुबलं नष्टम् ॥(l.13) विनोक्ती ॥ 94.
1 Ms. सावा'. 2 Ms. °पेण.

पञ्चमः सर्गः . १२३
लोभप्रदोषमुक्तास्य कमला कमलिन्यभूत् •
औदार्यातपहीनासीत्तस्य(l.14) प्र[त्यर्थि]नां तु सा ॥
लोभाख्येन प्रकृष्टेणं दोषेण निशारम्भेण च मुक्ता तस्य श्रीः पद्मिन्या-
(l.15)सीत् तस्य वैरिणां सा श्रीरौदार्यमेवातपस्तेन हीना पद्मिन्यासीत् ॥
गम्या विनो(l.16)क्तिः ॥ मुक्तहीनादिपदैर्विनाथंस्य द्योतितत्वात् ॥ ९५.
तापिताः प्राक्प्रतापेन विचारे(l.17)ण विशोभिताः •
अनुरक्तास्ततः पश्चाद्यशसाच्छादिता दिशः ॥
पूर्वे प्रतापेन तापिताः(l.18) ततो विचारेण व्यवहारपरिच्छेदेन वि-
शोभिताः अतोऽनुरक्ता दिशो यशसाच्छादिताः अ(l.19)ग्निनां तापिता-
श्चिराकहुवादिना(?) शोभिताः गैरिकादिना

१२४ पृथ्वीराजविजयमहाकाव्यम्
विकसत्कीर्त्तिपटलं यस्यास्सा फलन्ती फलवदाच(l.5)रन्ती पुण्यपरम्परा
यस्यास्सा शमितां: क्लान्तिन्क्षुत्पिपासा येषां तैरध्वगैः सन्मार्गगामिभिर्दत्ता-
(l.6)शीर्य्यङ्गुर्जाता श्रीश्शाखानां प्रकाराणां शतैर्वृद्धिं गता ॥ सेकादिका-
र्योरोपात्पल्लवितत्वादि(l.7)धर्मारोपाच्चोभयारोपेण लक्ष्म्यां लताव्यवहार-
प्रतीतिः ॥ ९९.
स्तनद्रथाङ्गमिथुना भ्रमद्द्भ्रमरमा(l.8)लिकाः ।
श्रीमन्मुखाम्बुजा वापीर्यो ददौ सुरसद्मसु ॥
स्तनवदाचरन्ति कूजन्ति च रथाङ्गाभि(l.9)धुनानि यासु ताः कचव-
दाचरन्त्यः स्फुरन्त्यश्च भ्रमरमालिका यासु श्रीमन्ति मुखाम्बुजानि या-
(l.10)सां ता वापीर्देवगृहेषु योदात् ॥ अत्रौपम्यस्य गर्भत्वम् ॥ १००.
चन्द्रचन्दनकर्पूरमुक्ताहा(l.11)रविरोधिनी ।
सुदूरवर्त्तिनी यस्य कीर्त्तिः पाण्डुत्वमाययौ ॥
चन्द्रादीनां विरोधिनी न्यक्कुर्वती(l.12) सुदूरे वर्त्तमाना कीर्त्तिः पा-
ण्डुतां शुभ्रत्वमापत् ॥ अत्र विरहिणीव्यवहारप्रतीतेर्लौकिके(l.13) लौकि-
कव्यवहारसमारोपः ॥ १०१.
मनोज्ञत्वेपि नाचुम्बि स्वमुखेन कदाचन ।
स्वच्छन्दं तेन यत्की(l.14)[र्त्तिः] — — ◡ ◡ — ◡ — ॥
तेन राज्ञा ¹⁰कीर्त्ति[र्मनो]ज्ञत्वेपि सति स्वमुखेन न कदाचित्स्पृष्टा तेन
स्वैती(?)(l.15) १०२.
Lines 16 to end of page missing
— — ◡ ◡ — — —पुरुषार्थ कृतार्थताम् ॥
1 Ms. °पटलं written above °कुमुदं. 2 Ms. °ताक्क्षा°. 3 Ms. °गैस°. 4 Ms. °क्षोभ°.
5 Ms. लक्ष्या. 6 Comm. reads कचद्भ° which agrees with the alaṃkāra
of स्तनद्र° etc. On कचत् see p. 93 and notes. 7 Ms. श्रीस°. 8 Ms. गृहे°.
9 Ms. °ण्डुताशु°. 10 Ms. कीत्ति°. 11 So Ms. Add लौकिके नायिकाव्यवहारप्रतीतिः.
12 Restore-भजन्वह्नित्वसेनेव भोगं करप्यसंश्रयं । द्रष्टा सङ्खनयत् स्वं यः पुरं°.

पञ्चमः सर्गः . १२५
करणानि कर्माणि संश्रयो यस्य तं भोगं बुद्धिबलेनैव भजन्द्रष्टा सर्व-
व्यव(l.1)हारसाक्षी संन्नेव स्वं पुरुषार्थ कृतार्थतामनयत् शत्रूञ्जितवानित्यर्थः .
सांख्यदर्शनवादिना(l.2)मात्मा सप्तधा बुद्ध्यहंकारतन्मात्रपञ्चकत्वेन प्र-
कृतेर्जातं विकारमस्पृशन्मूलप्रकृतिसङ्गतां बु(l.3)द्धिं भासयंश्चिच्छायाया
च्छुरयन्बुद्धिमुखेनैव करणसंश्रयं चक्षुरादीन्द्रियाश्रयं भोगं भजन्बुद्धि(l.4)-
मुखेनैव पुरुषार्थं पुरुषविवेकरूपं कृतार्थतां नयति ॥ नीतिशास्त्रीये वस्तुनि
साङ्ख्यशास्त्रीयव(l.5)स्तुसमारोपः ॥ 103.
स्फुरत्प्रज्ञाबलोत्साहसिद्ध्युपायगुणोदया .
सर्वाङ्गसुन्दरी यस्य(l.6) नीतिर्वल्लभतां ययौ ॥
स्फुरन्तः प्रभावबलोत्साहा येषु ते सिद्ध्युपायगुणोदया यस्यां सा.
सि(l.7)द्धयो भूम्यादीनामुपायास्सामादयः उदया आत्मादीनाम् . तथा स-
र्वाङ्गेषु स्वाम्यादिषु(l.8) सुन्दरी यस्य नीतिर्वल्लभतां श्रद्धेयत्वं ययौ . तन्नी-
तिरन्येषां काङ्क्षणीयाभूदित्यर्थः ॥ स्फुर(l.9)द्भिः प्रज्ञाबलोत्साहैस्सिद्धौ
वशीकरणे उपायात्मकानां गुणानामुदयो यस्यां सा . प्रज्ञा(l.10)दिभि-
र्भूर्वशीकृतेत्यर्थः ॥ अत्र नीतिशास्त्रप्रसिद्धे वस्तुनि नायिकाव्यवहार-
प्रतीतिः ॥(l.11) 104.
भूसत्तायामुदात्तो यः परस्मै पदमग्रहीत् .
अनुदात्तो रिपुस्तस्य भूमाप्तावात्मनेपदी ॥(l.12)
भुवि सत्तायां प्रशस्तत्वे साम्राज्ये सति यः परस्मै परार्थं पदं त्राण-
मग्रहीत् यत उदात्तः(l.13)•••••••••••••र्थमेव पदीर्य?(l.14) 105.
Lines 15 to end of page missing
“ मन्त्र्यपेक्षा दैवनियोगज्ञस्य मित्रबलापेक्षा च नाभूत् ॥ यष्षट्संख्यकं
1 Ms. संदे°. 2 Ms. °रीदी°. 3 Text प्रज्ञा°. 4 Add नीतिशास्त्रीये वस्तुनि व्याकरणशास्त्रीयव्यवहारसमारोपः. 5 Ms. °बलेपे°.

प्रमाणं जानाति विनियोगं च वेत्ति स ईश्वरं सर्वज्ञं नापेक्षते ॥
लौकिके मीमांसाव्यवहारसमारोपः ॥ १०६.
सपक्षे ददृशे नांस्ते विपक्षे यज्जडात्मनि .
तत्प्रतापाग्निमान्भूभृद्धेतौ धूमेन्वमायि यः ॥
जनेन सं पक्षे स्वाश्रिते विषये यद्ददृशे स्वपक्षस्योपकारं कुर्व-
न्यदृष्ट इत्यर्थः जडात्मनि विपक्षे शत्रौ यन्नास्ते अपकारप्रवृत्त(l.4) एवाभू-
दित्यर्थः तत्तस्माद्धेतावायुधे खङ्गे सत्यां भूभृत्प्रतापाग्निमाननुमितः . धूमे
इ(l.5)ति हेतोरारोपः कालत्वेन धूमानुकारात् स पक्षे महानसे दृष्टः विपक्षे
जलादौ न दृष्टः(l.6) ततो भूभृत्पर्वतो धूमे हेतौ कारणे लिङ्गे सत्यग्निमान-
नुमीयते ॥ लौकिके तर्कव्यवहार(l.7)समारोपः ॥ १०७.
अहार्यलङ्घनैस्त्यक्तरसास्वादैस्सदूषणैः .
येन पीनसितावस्थां कीर्त्ति(l.8)रत्याजि वैरिणाम् ॥
येन राज्ञा शत्रूणां कीर्त्तिः [पीन]सितां चावस्थां [त्या]जिता[तीव]
ल(l.9)घुर्मलिना च कीर्त्तिः कृतेत्यर्थः यतः अहार्याणां पर्वतानां [ल]ङ्घनै-
रारोहावरोहैस्त्यक्तो(l.10) रसाया भूमेरास्वादो यैः कारणभूतैः सह दूषणेन
दोषेण यानि तैः. अहार्यैरपरि(l.11)हार्यैश्च लङ्घनैर्भोजनविच्छेदादिभिः
त्यक्तो रसा[नां मधु]रादीनामास्वादो येषु तथा(l.12) तच्छोभनभूषणैरां
मरीचादियैषु तैर्हेतुभिर्भिषजा परिमितों(?) प्रतिश्यायवत्त्वं तस्या अव-
(l.13)······जते . गतिबुद्धीति नियमात्कीर्त्तिशब्दस्य कर्मत्वम् . तस्य
चात्याँजीत्यत्र कर्मण्यत्पन्ने(l.14)·············· ॥ लौकिके
आयुर्वेद(l.15)-
१०८.
Lines 16 to the end of page missing


1 Ms. °शेनं°. 2 Ms. राजा crossed after स. 3 Ms. °रकंकुं°. 4 Ms. °दिकै.
5 Ms. Sic. Is it सति ? 6 Ms. °त्पर्वतश्च crossed after °भृ°. 7 Ms.
हेतेरा°. 8 Ms. पनीसि°. 9 Ms. °वस्या. 10 Ms. Sic. Is it सङ्ग्रोजनदूषण्यं ?
11 Sic. Read पीनसिता. 12 Ms. °तिबोधेति. Pāṇini, 1.4.52. 13 Ms. °त्यत्जी°.

पञ्चमः सर्गः . १२७
— यशसि यं भूमिराश्लिष्टांशनि र[१]संः .
रजस्वलास्वभावोयं विधिनैवोपपादितः ॥
यस्य(l.1)••••••••निमज्ज्या(?)यमालिङ्ग्य भूमिः रत्नपूर्णातां(?)
विधिनैवायं रजस्वलास्वभाव उपपादितः . र(l.2)जस्वला ऋतुमती
सपांसुश्च ॥ १०९.
लालनाताडनविर्दा्मनुरज्यन्ति योषितः .
अतो यशःप्रता(l.3)पाभ्यां भूमिस्तेन [वशी]कृता ॥
लालना प्रीतिस्तां ताडनं च ये विदन्ति तेषां स्त्रियोनुरज्यन्ति अतो
(l.4) हे[४]तोस्तेन यशःप्र[तापाभ्यां भू] मिर्वशीकृता ॥ समासोक्तयः ॥ ११०.
बुद्धिमद्भिर्बु(l.5)द्धाशास्त्रैस्सत्यवा[दिभि]— — .
व्यायामिभिर्बलीयोभिस्सहायैयों विदिद्युते ॥
बुद्धिमत्त्वादि(l.6) विशिष्टैस्सहायैयों दीप्तः ॥ परिकरः ॥ विशेषणानां
साभिप्रायत्वात् ॥ १११.
अहिद्वि(l.7)षा प्रसिद्धेन गोमण्डलधरेण च .
स्वैरावतारोचितेन हरिणा यस्समोभवत् ॥
अहिः कालिय(l.8)नागो वृत्रासुरश्च अहिर्भातृव्यश्च तद्विषा गावो
धेनवो नेत्रादि च गौर्भूमिश्च तन्मण्डलधरेण(l.9) स्वैरं स्वेच्छयावतारेषु
मत्स्यादिरूपग्रहणेषूचितेन स्वश्वासावैरावत ऐरावणस्तेन रोचिते(l.10)न
स्वात्मीया ऐरी इरायां भूमौ भवा भूमिविषया अवता रक्षकता तया रोचितो
यो राजा ह(l.11)रिणा विष्णुना इन्द्रेण च समोभवत् ॥ विशेष्यस्य विशे-
षणानां च साम्याच्छ्लेषः ॥ अत्राच्यु (l.12) तेन्द्रयोरप्रस्तुतयोः श्लेषः ॥ 112.
1 Ms. °राश्लिष्या°. 2 Is it रत्नसूः ? 3 Is it रत्नसूर्जाता ?
4 Ms. °दिना°. 5 Ms. °तो अतो हे°. 6 Ms. °सत्वा°. 7 Ms. °शेषार्णां.
8 Ms. °भातव्य°. 9 Read °स्तेनारो°.

१२८ पृथ्वीराजविजयमहाकाव्यम्.
यस्सद्दन्तायुधकरान्परिहर्त्तव्यपद्धतीन् •
अत्यन्तगर्जनान्मत्ता(l.13)न्मातङ्गानजयद्रणे ॥
यो मातङ्गानम्लेच्छांश्च युद्धेजयत् सद्दन्तानि शोभनधाराणि आयुधा-
नि(l.14)……………वरेण च सहितान् तथा त्याज्यमार्गान् म्लेच्छानां
दुराचारत्वात्(l.15)……………म्लेच्छानां(l.16) 113.
[Lines 17 to end of page missing](** .33)
नत्वम् पदानां सुप्तिङन्तानां भङ्गेनांशांशिकं………भेदेन नीरसा रस-
वर्जिताः भिन्नस्स्वर उदा(l.1)त्तादिर्येषां तथा स्वापास्तसुलभाश्शब्दा न तु
लक्ष्यादयोर्था यैस्ते यस्य द्विषश्शेषा इवासन् ॥(l.2) अत्र शत्रुशेषयोः प्रस्तु-
ताप्रस्तुतयोश्श्लेषः ॥ श्लेषत्रयम् ॥ 114.
अत्यन्तशुद्धपक्षा(l.3)णां स्वहंसानामिवान्तरम् •
यत्पूर्वजन्मपुण्यानामज्ञासीत्केवलं विधिः ॥
यस्य पूर्वज(l.4)न्मनि पुण्यानामन्तरं विधिरेवं ज्ञातवान् • अत्यन्तं
शुद्धः पक्षास्सिद्धान्तो येषाम् हंसपक्षे पक्षाः प(l.5)तत्राणि ॥ अत्र शुभ्रव-
स्तुसम्पत्तिलक्षणे कार्येप्रस्तुततत्कीर्त्तनपूर्वजन्मपुण्याभिधानाद्(l.6)प्रस्तुत-
प्रशंसा ॥ 115.
अनादित्यमिव व्योम तामसा इव वासराः •
अलोचनेवं जनता जज्ञे(l.7) यस्य प्रयाणके ॥
यस्य प्रयाणे सति आकाशादीनां सूर्यादिरहितत्वमिव जातम् ॥ अत्र से-
(l.8)नार

पञ्चमः सर्गः . १२६
रात्रावपि प(l.10)द्मिन्यैस्तथा दिवाप्युत्पलिन्यो यन्न विकासितास्तत्र
जाड्यमेव हेतुः ।। तद्राज्ये जडा एव न विक(l.11)सिता इति सामान्ये
प्रस्तुते तद्विशेषकुमुदिनीपद्मिन्यभिधानेनाप्रस्तुतप्रशंसा ।।(l.12) ११७.
वर्द्धर्यमानं स्वकुलजैः केषांचित्पुण्यकर्मणाम् .
कल्पान्तस्थायितामेति धनं स्थाने निवेशितम् ।।(l.13)
पूर्वपुरुषैर्वर्ध्यमानं स्थाने निवेशितं सत्कल्पान्तं तावत्स्थैर्यं केषांचिद्भा-
ग्यवतामेति ।। अत्राज(l.14)³...............ते सामान्याभिधानेनाप्रस्तु-
तप्रशंसा.............(l.15)..........पृथिव्यामपि सं.........
..........(l.16) ११८.
Lines 17 to end of page missing
र्जा नगरं कृतवान् येषु काव्येषु तन्नगरं न वर्णितं तानि काव्यानि
धन्यानि न भवन्ति ।। तान्यधन्यानीत्यत्रं वै(l.1)धर्म्येणाप्रस्तुतप्रशंसा
इदं काव्यं धन्यमिति प्रस्तुतार्थप्रतीतेः ।। ११९.
भवत्यजयमेरुत्वं सार्थं यस्य सु(l.2)रालयैः .
न हि पुण्यप्रभावेण तदस्त्येव न यद्भवेत् ।।
यस्य नगरस्याजयमेरुभावस्सार्थको भव(l.3)ति देवावासैः . मेरुर्हि
देवावासः . एतमेव विशेषं सामान्येन समर्थयते . न यद्भवेत्तन्नास्ति किं
तर्हि(l.4) सर्वमेव भवेदित्यर्थः पुण्यप्रभावात् ।। अर्थान्तरन्यासः ।। १२०.
धीर्यत्रावैति नोत्कर्षं शिवपा(l.5)दयुगं विना .
उल्का एव हि सर्वेस्मिन्नृपयो दर्शनं प्रति ।।
शिवपादद्वयादन्यद्वस्तु सोत्कर्षं बुद्धि(l.6)र्न जानाति . एतदेवोत्तरार्धेन
1 Ms. °न्यस्तं°. 2 Ms. °ग्यतां°. 3 Restore °त्राजयराजस्य नगरनिर्माणे प्रस्तुते.
4 This might be part of a shloka. 5 Read स रां°.
१७

१३० पृथ्वीराजविजयमहाकाव्यम्.
कारणाभूतेन समर्थयते . शिवपाददर्शनार्थं सर्वे ऋषयो यस्मात्सो(l.7)-
त्कण्ठाः ॥ कारणमृषीणामुत्कण्ठितत्वं समर्थकमित्यर्थान्तरन्यासः ॥ 121.
यत्र प्रत्यक्षफ(l.8)लदस्सेवितोऽग्निसुकर्मणाम् ·
धूमो हि घनतामेत्य भजते वृष्टिहेतुताम् ॥
यत्र शोभन(l.9)कर्मणां फलदोऽग्निर्भवति . तथा हि यज्ञादिषु धूमो
वृष्टिहेतुर्भवति . अत्र अग्निसेवनस्य कार(l.10)[णस्य कार्यं].........
समर्थकम् ॥ अर्थान्तरन्यासः ॥ 122.
उच्चेतताराकुसुमा वन्द्य(l.11)[मन्दाकिनीह्रदा]¹ ·
——त्र श्रव्यसप्तर्षितृतीयसवनस्वरा ॥
उच्चेतुं शक्यानि ताराकुसुमानि य(l.12)[स्यां वन्दितुं शक्यो मन्दा]-
किनीह्रदो यस्यां तथा श्रोतुं² शक्यश्रव्यस्तृतीये सवने स्नाने³ स्व-
रो(l.13) 123.
Lines 14 to end of page missing
[——]प्राप्तप्रवेशाभिरीतिभिस्सुखमास्यते ॥
· द्वितीयां व्याजस्तुतिः ॥.........व्य......(l.1)नैयरूपया स्तुत्या⁵
निन्दायाः पर्यवसाने प्रतीतेः ॥ 124.
तुङ्गत्वात्सर्वतो दृश्यं यदि——-⁷(l.2)क्तिकम् ·
सर्वत्र भ्राम्यताद्यापि कलिना यन्न वीक्षितम् ॥
तुङ्गत्वात्सर्वतो दृश्यं वस्तु भंवतीति यदेत⁸दतुपपन्नम् य⁹द्वा


1 Ms. ॰हदो. 2 Ms. श्रातुं. 3 Sic. (!) 4 [पर्यायोक्तम्. गम्यस्योक्तत्वस्य भङ्ग्यन्तरेणाभिधा-
नात् ] 5 Illustration of व्याजस्तुति in which निन्दाभिधीयमानापि प्रमाणान्तराद्वाधितस्व-
रूपा स्तुतौ पर्यवस्यति is lost. 6 Is it ईतीनां सुखासनरू° ? 7 Restore वस्त्वित्य-
यौक्तिकम्. 8 Should be यदेतत्तदनु॰. 9 Is it यथा ?

पञ्चमः सर्गः . १३१
यन्नगरम् तथा हि सर्वासु दिक्षु भ्राम्यतापि कलियुगेनोन्नतर्मपि तत्पुरं
न दृष्टम् . कलिस्तत्र न प्रविष्ट इत्यर्थः ॥ आक्षेपः ॥ अत्र वक्तुं युक्तस्यौ-
(l.5)न्नत्यस्यानुक्तिमदित्यनेन प्रतिपादितो निषेधो निषेधाभासस्सम्पद्यमान-
स्सदाचारं कलिप्रवेशाभावप्ररूढं विशेषमाक्षिपति ॥ 125.
न यत्र धार्मिकः कश्चित्कीर्त्तिकामो नरोपि वा .
अनाश्रयेण न प्राप्तः प्रवेशः कलिना क्वचित् ॥
यत्र नगरे धार्मिकः कीर्त्ति[का]मो वा कश्चिन्नास्तीति साध्यम् .
अत्र साधनमाह अश्रयेण कलिना तत्र प्रवेशः क्वचिदपि न लब्धः ॥
आक्षेपः ॥(l 9) निषेधेनातिधार्मिकतारूपस्य विशेषस्य प्रतीतेः ॥ 126.
किं नाम वर्ण्यते यस्य धुरीणैरपि वाग्मि(l.10)[भिः] .
—————जि सर्वदा वर्णयन्ति यम् ॥
महावाग्मिभिरपि यस्य किं वर्ण्यते(l.11) 127.
Lines 12 to end of page missing
…………थ मित्रभावं विरहिणीमारणं कृत्वा कालपक्षं यमपक्षं
कृष्णपक्षं च प्रपत्स्ये ॥(l.1) [आक्षेप]प्रकाराः ॥ 128.
इत्यध्वगवधूसख्यो यत्र वातायने स्थिताः .
निन्दन्ति वन्द्यं विश्वस्य प्रतिपत्सु सुधाकरम् ॥
यत्र वातायनगताः पान्थस्त्रीसख्यो विश्ववन्द्यं चन्द्रं प्रतिपत्सु निन्द-
न्त्येवम् ॥(l.3) 129.
पुण्डरीकैस्सुहरिणैर्मातङ्गैर्यत्र सुद्विजैः .
कृष्णसारैश्च हरिभिश्शोभते राजमन्दिरम् ॥(l.4)


1 Ms. भ्रामं°. 2 Ms. °मति. 3 Ms. °नययः. 4 Ms. अमं°. 5 Ms. °ध्याशा°.

१३२ पृथ्वीराजविजयमहाकाव्यम्.
सुहरिगौरतिशुभ्रैः पुण्डरीकैः क्लृप्तैस्तथा सुद्विजैश्शोभनदन्तैर्मातङ्गै-
र्हस्तिभिः कृष्णैश्च तैस्सां(l.5)रैश्चाश्चर्यंयत्र राजगृहं शोभते ॥ विरोधः ॥
विरुद्धाभासत्वात् ॥ तथा हि पुण्डरीका व्याघ्रावि(l.6)शेषाः कथं हरिणा
भवन्ति मातङ्गाश्चाण्डालास्ते कथं द्विजाः कृष्णसारा मृगाः कथं हरय॑ः
सिंहाः ॥ (l.7) 130.
राजहंसानुरूप्येण सितोपि पृथिवीभुजाम् •
असितो यत्र सततं जायते यशसां भरः ॥
यत्र(l.8) राज्ञामसितः खङ्गाद्यशो राजहंसानुरूप्येण राजहंससितो
मन्वादिप्रशस्तराजयशो(l.9)नुरूपत्वेन…………यशसां भर उत्पद्यते ॥
विरोधः असितशब्दस्य विरोधद्योतकत्वात् ॥(l.10)……[अ]सितश्श्याम
इति ॥ 131.
क्ष्मायां यदकाठिन्यं शैल्ये तापकता द्विषाम् •
अपालक -----(l.11) 132.
[Lines 12 to end of page missing] (**35)
'ति नोत्थानं यत्र संपूर्णपादपि ॥
अन्यत्र देशे त्रयाणां पादानां भङ्गेपि धर्मं…………(l.1)
लायते इत्यर्थः यत्र देशे चतुष्पादपि धर्म उत्थानं निर्गमनं नेच्छति तत्रैव
तिष्ठतीत्यर्थः ॥ (l 2) विभावना विशेषोक्तिश्च ॥ अनवस्थितेर्हेतुः पादसा-
मग्री तदभावेपि तत्फलं धर्मानव[स्थान](l 3)मुत्पन्नमिति विभावना तथा
उत्थानस्य कारणं सम्पूर्णपादत्वं तत्सद्भावेप्युत्थानाभावरूपफलस्यो-
त्पत्तिरिति विशेषोक्तिः ॥ 133.
आयव्ययेषु कालैक्यं यत्र सर्वस्य दृश्यते •
व्ययस्तत्त्वादौ(l.5) सुकृतिनामायस्तस्यानुयात्रिकः ॥
1 Ms. °कैच्छ्र°. 2 Ms. °द्वैद्द°. 3 Ms. °श्शभरै°. 4 Ms. °यो सिं°. 5 Ms.
°सिंश्च°. 6 Ms. °तरशां°. 7 Restore धर्मं इच्छति.

यत्र सर्वस्य लोकस्य¹ धनोत्पत्तित्यागेषु समकालत्वं दृ(l. 16)श्यते . अ-
र्जयन्तो जना व्ययं कुर्वन्तीत्यर्थः . यत्र सुकृतिनामादौ व्ययस्तस्य² व्ययँस्यो-
त्पत्तिरनुयात्रिकी(l. 7) पश्चाद्धनागम इत्यर्थः ॥ अतिशयोक्ती ॥ आयः का-
रणं व्ययः कार्यं भवति कारणका(l. 8)र्ययोः पौर्वापर्यं प्रसिद्धम् तंत्र त्वाय-
व्यययोस्तुल्यकालत्वम् . तथोत्तरार्धे आयव्यययोः(l. 9) कारणकार्ययोः पौर्वा-
पर्यविपर्ययः ॥ १३४.
पौराणां हृदये यत्र सन्निधत्ते त्रिलोचनः .(l. 10)
अन्तस्तु पौरनारीणां जाज्वलीति मनोभवः ॥
यत्र जनानां चित्ते हरस्सन्निधानं करोति(l. 11) कामस्तु पौरस्त्रीचित्ते
ज्वलतितराम् ॥ असङ्गतिः ॥ हरः कामदाहस्य कारणम्(l. 12) अत्र तु
हरः पौरचित्ते संनिहितः कामस्तु पौरस्त्रीचित्ते ज्वलतीति कार्यकारणयो-
र्विभिन्न(l. 13)देशत्वात् ॥ १३५.
यत्र स्त्रीणामपाङ्गेभ्यः पूर्णाङ्गो जायते स्मरः .
युवभिर्नीयमानोपि(l. 14) रूपेण⁴ लभते बलम् ॥
यत्र पुरस्त्रीणां कटाक्षेभ्यः पूर्णाङ्गः कामो जायते तथा तरुणैर्जि(l. 15)-
[तस्तासां रू]पेण कामो बलं लभते ॥ विषमम् ॥ सर्वत्र कारणानुगुणं
कार्यं प्रसिद्धम् (l. 16) ............ कामस्य रूपहेतुकबललाभ-
......(l. 17) १३६.
Lines 18 to end of page missing⁵
यत्र राजशिखामणिः .
विश्वस्य मान्यतां लब्धुं सेव्यते परमेश्वरः ॥
यत्र रक्तैर्विंरक्तैर्वा(l. 1) [राजशिखा]मणिः राजा चन्द्रः⁷ शिखामाणिर्यस्य
स पैरमेश्वरस्सेव्यते विश्वकर्तृकं मानं प्राप्तुम् ॥(l. 2)[विचित्रं] विकल्पश्च ॥
1 Ms. °ध्यं° written over °र्जं°. 2 Ms. °यसो°. 3 Scil. नगरे as well as
पूर्वार्धे. 4 Ms. °मायो°. 5 Illustration of सम alamkāra lost. 6 Restore
अनुरक्तैर्विरक्तैर्वा, 7 Ms. चन्दः. 8 Ms °स्यप°.

१३४ पृथ्वीराजविजयमहाकाव्यम्.
विचित्रस्य विफलप्रयत्नलक्षणत्वात् अत्र हि मानलाभार्थं सेवाख्य-
(13)स्य प्रयत्नस्य विपरीतफलानिष्पत्तिहेतुत्वम्. सेवाकारिणां हि मान-
हानिः ॥ १३७,
भूपैर्भुजेपि य(1.4)त्रत्यैर्धार्यते भूससागरा .
कीर्त्तिः स्वंच्छतनुस्तेषां न माति भुवनेष्वपि ॥
यत्रत्यै राजभिर्भूमिस्स(1.5)समुद्रा भुजचक्रेपि³ धार्यते स्वच्छा शुद्धा
सूक्ष्मा च तनुर्यस्यास्सा कीर्त्तिर्भुवनेषु न वर्तते ॥ अधिकद्वयम् ॥ अधिक-
(1.6)स्याश्रयाश्रयिणोरनानुरूप्यलक्षणत्वात्. अत्र ह्याश्रयस्य भुजस्या-
श्रयिभूताया भुवस्तुच्छत्व(1.7)महत्वाभ्यामनानुरूप्यम् भुवनानामांश्रयाणां
कीर्त्तेस्तदाश्रयीभूताया महत्वतुच्छत्वाभ्याम् ॥(1.8) 138.
धर्मो विवर्ध्यते यत्र वास्तव्यानां विभूतिभिः .
धर्मेण च विवर्ध्यन्ते वास्तव्यानां विभूतयः ॥
पौरश्री(1.9)भिर्धर्मो वर्धते धर्मेण च पौरश्रियो वर्धन्ते ॥ अन्योन्यम् ॥
परस्परं वर्धनक्रियाजननात् ॥(1.10) 139.
वापीकूपतटाकेषु प्रपासु विविधासु च .
दिवमप्युपयातानां दृश्यते तत्र जीवनम् ॥(1.11)
वाप्यादिषु जीवनं जलं प्राणाश्च स्वर्गतानां दृश्यते ॥ विशेषः ॥ अना-
धारमाधेयमि(1.12)त्यादिलक्षणत्वात् ॥ अत्र जीवनँस्याधारशरीरिणः ते
स्वर्गं गतास्तथापि जीवनं दृश्य(1.13)ते इत्यनाधारमाधेयम् ॥ 140.
त्रिदिवे दिवि पाताले कीर्त्ति[: सर्वासु] दिक्षु च .
यदीयानां नरे(1.14)न्द्राणा[मेकरूपा समा]श्रिता ॥ •
1 Read विपरीतफ°. 2 Ms. °र्तिन्वत्त्व°. 3 Ms. भुजचक्रेपि lc. on margin.
4 Ms. °कीर्ते°. 5. Ms. °वस्या°.

पञ्चमः सर्गः . १३५
स्वर्गादिषु कीर्तिरेकरूपा समा समं युगपत्स्थिता ॥ वि²(l.15) 141.
[Lines 16 to end of page missing] (**36)
गैः पुनः राजभिः कीर्त्तिरनुपाल्यते ॥ व्याघातः ॥ उत्पत्तिविनाशयो-
रेकोपायत्वात् ॥ अत्र(l.1) राजभ्य एव वृषोत्सर्गैरुत्पत्तिः तैरेव तेभ्य एव
च विनाशः ॥ 142.
अबला इति बाध्यन्ते सबलैरन्य(l.2)देशजैः .
तेनैव हेतुना यत्र रक्ष्यन्ते राजभिः परे ॥
अन्यत्र राजभिरबलत्वाद्राजानो बाध्यन्ते त(l.3)स्मादेव हेतोस्तत्र
तैश्शत्रवो रक्ष्यन्ते ॥ व्याघातः ॥ व्याघातार्थं संभाव्यमानस्याबलत्वस्य
बाधा(l.4)विरुद्धरक्षणनिष्पादकत्वेन समर्थनात् ॥ 143.
यत्र वीर्यं प्रतापस्य प्रतापः कारणं श्रियः .
श्रीर्ध(l.5)र्मस्य नरेन्द्रणां धर्मो भोगापवर्गयोः ॥
यत्र वीर्यादयः प्रतापादीनां हेतवः ॥ कारणमाला ॥(l.6) 144.
अर्थो धर्मानुगो यत्र कामश्चार्थानुगो नृणाम् .
कामस्य शिवकामानां मोक्षोप्यनुगतां गतः ॥(l.7)
यत्र श्रेयस्कामानां धर्माद्यनुगा अर्थादयः ॥ एकावली ॥ अर्थादीनां
धर्माद्यनुगतत्वात् ॥ (l.8) 145.
यौवनेन वपुः स्त्रीणां यत्र रूपेण यौवनम् .
रूपं कान्तिविशेषेण सलावण्येन गर्जति ॥ (l.9)
यत्र यौवनादिभिर्वपुरादयो गर्जन्ति ॥ मालादीपकम् ॥ यौवनादीना-
मुत्तरोत्तर(l.10)वपुरादिगर्जनाव्यगुणावहत्वात् ॥ 146.
1 Ms. °त्तिरे°. 2 [ विशेषः । एकस्याः कीर्तेरनेकगोचरत्वात् ]. Perhaps one illus-
tration of विशेष—किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं is lost.

१३६ पृथ्वीराजविजयमहाकाव्यम्.
शम्भुर्लोकत्रये सारं तस्य सारं त्रिनेत्रता •
तत्रापि(l.11) चन्द्रमास्तस्य यत्कान्तावदनोपमा ॥¹ 147.
कनकाब्ज²रजश्छन्न³ा वातायनविहारिणः •
मानवैर्यत्र सेव्यन्ते स्व(l.12)र्गङ्गावीचिमारुताः ॥
यत्र वातायनगता नाकनदीपवना मनुष्यैस्सेव्यन्ते यतो⁴ हेमाब्ज⁵रजः-
(l.13)पूर्णाः ॥ काव्यलिङ्गम् ॥ कनकां⁶ब्जेत्यादेः पदार्थत्वात् ॥ काव्यलिङ्ग-
स्य च हेतोर्वाक्यप(l.14)[दार्थत्यादि लक्षणात् ] ॥ 148.
द्रष्टुं दिग्भ्यो दशभ्यो यदपर्याप्तदृगष्टकम् •
————(l.15) 149.
Lines 16 to end of page missing
हतोर्वाक्यार्थत्वात् ॥ पूर्वश्लोकेपर्याप्तदृगष्टक इति विशेषणस्य पदार्थ-
त्वाभिमानात् ॥ 150.
सर्वस्वहारिणस्त्रस्तो वरुणो वाडवाद्ध्रुवम् •
यत्कूपान्‍सेवते तोयं गिरिदुर्गे कुतो(l.1)न्यथा ॥
वरुणस्य सर्वस्वं समुद्रस्तं दहतो वाडवाग्नेर्ध्रुवं भीतो वरुणो यत्कू-
पान्सेवते . वरुणत्रास(l.2)स्य साध्यस्य साधनमाह . अन्यथा यदि न वरु-
णस्य भयं स्यात्तद्गिरिदुर्गे तोयं कथं स्यात् . वरुण(l.3)स्य जलाधिपतित्वा-
दिति भावः ॥ अनुमानम् ॥ साधनात्साध्यप्रतीतिरनुमानस्य लक्षणम् ॥
(l.4) अत्र गिरौ जलसंभवात्त्रासानुमानम् ॥ 151.
वरुणादिमहेन्द्रान्तमूर्त्तयो यत्र पार्थिवाः •
शिष्ट(l.5)दिक्पतिमूर्त्तित्वं गृह्णन्तेन्यपुरीः प्रति ॥
1 No Comm. [ उदारालंकारः-उत्तरोत्तरोत्कर्षमुदार इति लक्षणात् ]
2 Ms. °काजं°. 3 Ms. °जच्छं°. 4 Ms. येतो. 5 Ms. °माब्जं°. 6 Ms. °काब्जे°.
7-7 Ms. lc. at the top of page. 8 i.e. only one verse between द्रष्टुं
दिग्भ्यो and सर्वस्वहा°. 9 Ms. °न्सव°. 10 Ms. °बस्ते°.

वरुणादारभ्येन्द्रं यावत्पञ्च लोकपालास्तेषां मूर्त्तयस्ते(1.6)जोंशा येषां
तथाविधास्तत्र राजानो भवन्ति . तत्र वरुणत्वमशेषजनाप्याय्यैनात् . वायुत्वं
बलि(1.7)त्वात् . कुबेरत्वं धनदत्वात् . शर्वत्वं सर्वोत्कर्षात् . इन्द्रत्वमखण्डि-
तज्ञत्वात् . यत्रत्या राजानोवशि(1.8)ष्टा ये दिक्पतयो वह्निमन्नैर्ऋतास्तद्भावं
शत्रुनगरीषु गृह्णन्ति . अग्नित्वं तासां दाहात् . य(1.9)मत्वं शत्रुमारणात् .
नैर्ऋतत्वं शत्रुपुरीनिर्वसत्वर्करणात् ॥ अनुमानम् ॥ 152.
स्वर्गे पाल(1.10)ननिर्माणवर्णनैर्देववेश्मनाम् •
ध्रुवं पश्यति यत्रत्यो राजा चित्रकरः कविः ॥
पालनादिभिः(1.11) राजाद्यस्स्वर्गं गच्छन्ति ॥ यथासंख्यम् ॥ उद्दि-
ष्टानांमर्थानां क्रमेणानुनिर्देशात् ॥(1.12) 153.
व्यर्थौ यशःप्रतापाभ्यां राज्ञां यत्रेन्दुभास्करौ •
धत्तोर्धरात्रमध्याह्ने छत्रत्वं देववेश्मनाम् ॥(1.13)
यत्र राज्ञां यशःप्रतापाभ्यां हेतुभ्यां व्यर्थौ निष्प्रयोजनौ सन्तौ चन्द्रा-
कौं अर्धरात्रे मध्याह्ने च दे(1.14)वगृहाणां छत्रभावं धत्तः ॥ प्रतीपम् ॥ यशः-
प्रतापाभ्यां चन्द्रार्कयोराक्षेपात् ॥(1.15) 154.
[Lines 16 to end of page missing] (**37)
यत्कान्ताकेशसंस्कारघूपधूमस्सुधासितम् •
श्यामीकरोति सततं सौधं सितकरं ततः ॥(1.1)
यत्स्त्रीकेशसौगन्ध्यार्थे धूमैः पूर्वं सौधं ततश्चन्द्रं श्यामीकरोति ॥
पर्यायः ॥ क्रमेणैकस्या(1.2)नेकस्मिन्ननेकस्यैकस्मिन्नवस्थानात् ॥ 155.
यत्राधत्ते निशि मरुत्सौधेन्दुमणिशीकरैः •
घर्मोद(1.3)विन्दून्वामानां गण्डयोश्चन्द्रकान्तयोः ॥
1 Ms. °भ्येन्द्रं. 2 Ms. ताव°. 3 Ms. °प्ययं. 4 Ms. °कारं. 5 Ms. भिन्नं.
6 Ms. व्यर्थो. 7 Read धूपधू°.
१८

१३८ पृथ्वीराजविजयमहाकाव्यम्.
यत्र रात्रौ स्त्रीणां वायुर्बिन्दुसुन्दरयोगेऽडयोर्घर्म(l.4)जलकणान्गृह्णाति
कैस्सौधचन्द्रकान्तकरैः ॥ परिवृत्तिः ॥ चन्द्रकान्तजलकणैस्स्रवे(l.5)दाम्बु-
ग्रहणात्समत्वम् ॥ 156.
पञ्चभिर्मार्गणैः पौष्पैस्स्मरो हरति कामिनाम् .
हृत्काञ्चना(l.6)म्बुजवनं वियोगाग्निपरीक्षितम् ॥
पुष्पमयैः पञ्चभिर्बाणैः कामो विरहाग्नौ परीक्षिक्षि(l.7)तं चित्तहेमप-
द्मवनं हरति ॥ 157.
सर्वस्वमपि संत्यज्य स्वगृहाद्यत्र मानिनः .
यशो गृह्णन्ति(l.8) तद्यस्य परे चर्वितचर्वकाः ॥
यस्य यशसः चर्वित चर्वणेपि कृते चर्वका भवन्ति(l.9) तद्यशस्सर्वस्वं द-
त्वा मानिनो गृह्णन्ति ॥ परिवृत्तिः ॥ सर्वस्वेनाधिकेन यशसो न्यून(l.10)स्य ग्र-
हणेन न्यूनत्वात् ॥ पूर्वत्र पञ्चभिशरैर्हेमपद्मवनहरणादधिकम् ॥(l.11) 158.
अपावनं धनं यत्र सर्वथा त्यागिनां गृहे .
अत्यागैः स्तूयते मौग्ध्याद्वालाभिर्यत्र कामिनाम् ॥(l.12)
अपगतमवनं रक्षणं त्यागाभावो यस्य तद्धनं त्यागिनां दातृणां गृहे
भवति . बालाभिः(l.13) कामिनामत्यागः अतिशयेनापराधः स्तूयते मुग्ध-
त्वात् ॥ परिसंख्या ॥ अपावन(l.14)············त्यागिधनादावेव नियम-
नात् त्यागिधन······वा······नृ(l.15)············भिसयः······
···(l.16) 159,
[Lines 17 to end of page missing] (*)
[सतां परापवा]दोपि यत्र श्रोत्रमहाज्वरः .
स्वस्याकीर्त्तिर्भवेद्येन ततु व्यवहरन्ति के ॥
1 Ms. पौष्पै°. 2 Ms. ॰र्वेत्थं. 3 Ms. ॰गस्तू°. 4 Ms. ॰र्त्तिंन°.