सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 148, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 148

पञ्चमः सर्गः . १२६
रात्रावपि प(l.10)द्मिन्यैस्तथा दिवाप्युत्पलिन्यो यन्न विकासितास्तत्र
जाड्यमेव हेतुः ।। तद्राज्ये जडा एव न विक(l.11)सिता इति सामान्ये
प्रस्तुते तद्विशेषकुमुदिनीपद्मिन्यभिधानेनाप्रस्तुतप्रशंसा ।।(l.12) ११७.
वर्द्धर्यमानं स्वकुलजैः केषांचित्पुण्यकर्मणाम् .
कल्पान्तस्थायितामेति धनं स्थाने निवेशितम् ।।(l.13)
पूर्वपुरुषैर्वर्ध्यमानं स्थाने निवेशितं सत्कल्पान्तं तावत्स्थैर्यं केषांचिद्भा-
ग्यवतामेति ।। अत्राज(l.14)³...............ते सामान्याभिधानेनाप्रस्तु-
तप्रशंसा.............(l.15)..........पृथिव्यामपि सं.........
..........(l.16) ११८.
Lines 17 to end of page missing
र्जा नगरं कृतवान् येषु काव्येषु तन्नगरं न वर्णितं तानि काव्यानि
धन्यानि न भवन्ति ।। तान्यधन्यानीत्यत्रं वै(l.1)धर्म्येणाप्रस्तुतप्रशंसा
इदं काव्यं धन्यमिति प्रस्तुतार्थप्रतीतेः ।। ११९.
भवत्यजयमेरुत्वं सार्थं यस्य सु(l.2)रालयैः .
न हि पुण्यप्रभावेण तदस्त्येव न यद्भवेत् ।।
यस्य नगरस्याजयमेरुभावस्सार्थको भव(l.3)ति देवावासैः . मेरुर्हि
देवावासः . एतमेव विशेषं सामान्येन समर्थयते . न यद्भवेत्तन्नास्ति किं
तर्हि(l.4) सर्वमेव भवेदित्यर्थः पुण्यप्रभावात् ।। अर्थान्तरन्यासः ।। १२०.
धीर्यत्रावैति नोत्कर्षं शिवपा(l.5)दयुगं विना .
उल्का एव हि सर्वेस्मिन्नृपयो दर्शनं प्रति ।।
शिवपादद्वयादन्यद्वस्तु सोत्कर्षं बुद्धि(l.6)र्न जानाति . एतदेवोत्तरार्धेन
1 Ms. °न्यस्तं°. 2 Ms. °ग्यतां°. 3 Restore °त्राजयराजस्य नगरनिर्माणे प्रस्तुते.
4 This might be part of a shloka. 5 Read स रां°.
१७