सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 145, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 145

प्रमाणं जानाति विनियोगं च वेत्ति स ईश्वरं सर्वज्ञं नापेक्षते ॥
लौकिके मीमांसाव्यवहारसमारोपः ॥ १०६.
सपक्षे ददृशे नांस्ते विपक्षे यज्जडात्मनि .
तत्प्रतापाग्निमान्भूभृद्धेतौ धूमेन्वमायि यः ॥
जनेन सं पक्षे स्वाश्रिते विषये यद्ददृशे स्वपक्षस्योपकारं कुर्व-
न्यदृष्ट इत्यर्थः जडात्मनि विपक्षे शत्रौ यन्नास्ते अपकारप्रवृत्त(l.4) एवाभू-
दित्यर्थः तत्तस्माद्धेतावायुधे खङ्गे सत्यां भूभृत्प्रतापाग्निमाननुमितः . धूमे
इ(l.5)ति हेतोरारोपः कालत्वेन धूमानुकारात् स पक्षे महानसे दृष्टः विपक्षे
जलादौ न दृष्टः(l.6) ततो भूभृत्पर्वतो धूमे हेतौ कारणे लिङ्गे सत्यग्निमान-
नुमीयते ॥ लौकिके तर्कव्यवहार(l.7)समारोपः ॥ १०७.
अहार्यलङ्घनैस्त्यक्तरसास्वादैस्सदूषणैः .
येन पीनसितावस्थां कीर्त्ति(l.8)रत्याजि वैरिणाम् ॥
येन राज्ञा शत्रूणां कीर्त्तिः [पीन]सितां चावस्थां [त्या]जिता[तीव]
ल(l.9)घुर्मलिना च कीर्त्तिः कृतेत्यर्थः यतः अहार्याणां पर्वतानां [ल]ङ्घनै-
रारोहावरोहैस्त्यक्तो(l.10) रसाया भूमेरास्वादो यैः कारणभूतैः सह दूषणेन
दोषेण यानि तैः. अहार्यैरपरि(l.11)हार्यैश्च लङ्घनैर्भोजनविच्छेदादिभिः
त्यक्तो रसा[नां मधु]रादीनामास्वादो येषु तथा(l.12) तच्छोभनभूषणैरां
मरीचादियैषु तैर्हेतुभिर्भिषजा परिमितों(?) प्रतिश्यायवत्त्वं तस्या अव-
(l.13)······जते . गतिबुद्धीति नियमात्कीर्त्तिशब्दस्य कर्मत्वम् . तस्य
चात्याँजीत्यत्र कर्मण्यत्पन्ने(l.14)·············· ॥ लौकिके
आयुर्वेद(l.15)-
१०८.
Lines 16 to the end of page missing


1 Ms. °शेनं°. 2 Ms. राजा crossed after स. 3 Ms. °रकंकुं°. 4 Ms. °दिकै.
5 Ms. Sic. Is it सति ? 6 Ms. °त्पर्वतश्च crossed after °भृ°. 7 Ms.
हेतेरा°. 8 Ms. पनीसि°. 9 Ms. °वस्या. 10 Ms. Sic. Is it सङ्ग्रोजनदूषण्यं ?
11 Sic. Read पीनसिता. 12 Ms. °तिबोधेति. Pāṇini, 1.4.52. 13 Ms. °त्यत्जी°.