प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 49, कुल 296 में से
संदर्भ में पढ़ें( 46 )
महाराज एव महाराजः । यावदिदानीं मैथिलीं पश्यामि ।
अवदातिका--भट्टिनी ! भर्तृदारकः खल्वागच्छति । नापनीतं
वल्कलम् ?
रामः--मैथिलि ! किमास्यते ?
सीता--हम् आर्यपुत्र । जयत्वार्यपुत्रः ।
रामः--मैथिलि ! आस्यताम् । (उपविशति)
सीता--यद् आर्यपुत्र आज्ञापयति । (उपविशति)
अवदातिका--भट्टिनी ! स एव भर्तृदारकस्य वेषः ।
अलीकमिवतद् भवेत् ।
सीता--तादृशो जनोऽलीकं न मन्त्रयते । अथवा बहुवृत्तान्तानि
राजकुलानि नाम ।
रामः--मैथिलि ! किमिदं कथ्यते ।
सीता--न खलु किञ्चित् । इयं दारिका भणति-अभिषेकोऽभिषेक
इति ।
रामः--अवगच्छामि ते कौतूहलम् । अस्त्यभिषेकः । श्रूयताम् ।
अद्यास्मि महाराजेनोपाध्यायामात्यप्रकृतिजनसमक्षमेकप्रकारं
संक्षिप्तं कोसलराज्यं कृत्वा बाल्याभ्यस्तमङ्कमारोप्य मातृगोत्रं
स्निग्धमाभाष्य “पुत्र राम ! प्रतिगृह्यतां राज्यम्” इत्युक्तः ।
सीता--तदानीमार्यपुत्रेण किं भणितम् ?
रामः--मैथिलि ! त्वं तावत् किं तर्कयसि ?
सीता--तर्कयाम्यपुत्रेणाभणित्वा किञ्चिद् दीर्घं निःश्वस्य
महाराजस्य पादमूलयोः पतितमिति ।
रामः--सुष्ठु तर्कितम् । अस्य तुल्यशीलानि द्वन्द्वानि सृज्यन्ते । तत्र
हि पादयोरस्मि पतितः ।
मम बाष्पेण पतता तस्योपरि ममाप्यधः ।
पितुम् क्लेदितौ पादौ ममापि क्लेदितं शिरः ॥ (६)
सीता--ततस्ततः ।
रामः--ततोऽप्रतिगृह्यमाणेऽप्यनुनये ऽप्यात्मनजरादोषैः स्वैः प्राणैरस्मि
शापितः ।