प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 146, कुल 296 में से
संदर्भ में पढ़ें(157)
रावणः—सीत ! श्रूयतां मत्पराक्रमः ।
भग्नः शक्रः कम्पितो वित्तनाथः
कृष्टः सोमो मर्दितः सूर्यपुत्रः ।—
धिग् भोः स्वर्गं भीतदेवैर्निविष्टं
धन्या भूमिर्वर्तते यत्र सीता ॥ (१७)
सीता—आर्यपुत्रे !—परित्रायस्व परित्रायस्व । सौमित्रे ! परित्रायस्व
परित्रायस्व माम् ।
रावणः—
रामं वा शरणमुपेहि लक्ष्मणं वा
स्वर्गस्थं दशरथमेव वा नरेन्द्रम् ।
किं वा स्यात् कुपुरुषसंश्रितैर्वचोभि
र्न व्याघ्रं मृगशिशवः प्रधर्षयन्ति ॥ (१८)
सीता—आर्यपुत्र ! परित्रायस्व परित्रायस्व । सौमित्रे ! परित्रायस्व
परित्रायस्व माम् ।
रावणः—विलपसि किमिदं विशालनेत्रे
विगणय मा च यथा तवार्यपुत्रम् ।
विपुलबलयुतो ममैव योद्धुं
ससुरगणोऽप्यसमर्थ एव रामः ॥ (१६)
सीता—(सरोषम्) शप्तोऽसि ।
रावणः—अहह ! अहो पतिव्रतायास्तेजः ।
योऽहमुत्पतितौ वेगान्न दग्धः सूर्यरश्मिभिः ।
अस्या परिमितैर्दग्धः शप्तोऽसीत्यभिरक्षरैः !। (२०)
सीता—आर्यपुत्र ! परित्रायस्व परित्रायस्व ।
रावणः—(सीतां गृहीत्वा) भो भोः । जनस्थानवासिनस्तपस्विनः
शृण्वन्तु भवन्तः ।
बलादेष दशग्रीवः सीतामादाय गच्छति ।
क्षात्रधर्मे यदि स्निग्धः यिङ्कुम् रामः पराक्रम ॥ (२१)
सीता—आर्यपुत्र ! परित्रायस्व । परित्रायस्व
रावणः—(परिक्रामन् विलोक्य) अये ! स्वपक्षपवनोत्क्षेपक्षुभितव
षण्डश्चण्डचञ्चुरभिधावत्येष जटायुः । आः ! तिष्ठेदानीम्