प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
विषयक्रमः
वार्त्तिके यद् वस्तुजातं व्याख्यातं धर्मकीर्त्तिना ।
तस्य क्रमोऽत्र तद्वृत्तेरनुसारं वितन्यते ॥
१. प्रमाणसिद्धिनामा
प्रथम परिच्छेदः
मङ्गलम् १
अनुबन्धचतुष्टयनिरूपणम् २
प्रमाणलक्षणम् ३
१. अविसंवादि ज्ञानं प्रमाणम् ३
अविसंवादनशब्दनिरुक्तिः ३
शाब्दे ज्ञानेऽपि प्रामाण्यम् ४
मीमांसकमतखण्डनम् ५
शास्त्रप्रणयनफलम् ६
२. अज्ञातार्थप्रकाशकं वा ज्ञानं प्रमाणम् ८
सामान्यज्ञानेऽप्रामाण्यम्
भगवति प्रामाण्यम् ९
ईश्वरादावप्रामाण्यम् ९
नित्येऽप्रामाण्यम् ९
अनित्येऽप्यप्रामाण्यम् १०
ईश्वरसाधनदूषणम् ११
१. नैयायिकमतखण्डनम् ११
२. साङ्ख्यमतखण्डनम् १५
ईश्वरबाधकं प्रमाणम् १६
१२ प्रमाणवार्त्तिके
१. ज्ञानवत्त्वाद् भगवान् प्रमाणम् १८
मीमांसकमतखण्डनम् १८
२. हेयोपादेयवेदकत्वादेव भगवान् प्रमाणम् १९
३. कारुणिकत्वादपि भगवान् प्रमाणम् २०
चार्वाकमतनिरसनपूर्वकं परलोकसाधनम् २०
विज्ञानसिद्धिः २३
पुनर्जन्मसिद्धिः ३४
कर्मसिद्धिः ४५
४. शास्तृत्वाच्च भगवान् प्रमाणम् ५०
शास्तृपदनिर्वचनम् ५०
प्रत्येकबुद्धादिभ्यो बुद्धस्य वैशिष्ट्यम् ५१
५. सुगतत्वाद् भगवान् प्रमाणम् ५२
त्रिगुणं सुगतत्वम् ५२
सर्वज्ञबाधने जैमिनीयमतम् ५३
तत्प्रतिवचनम् ५३
६. तायित्वाद् भगवान् प्रमाणम् ५४
चतुरार्यसत्यनिरूपणम् ५४
१. दुःखसत्यम् ५४
२. चतुराकारं समुदायसत्यम् ६३
स्वभाववादखण्डनम् ६४
३. चतुराकारं निरोधसत्यम् ६७
४. चतुराकारं मार्गसत्यम् ७१
मोक्षे दीक्षाविधिरकिञ्चित्करः ८८
नैरात्म्यदृष्टिस्तृष्णाक्षये हेतुः ९२
७. संवादकत्वाद् भगवान् प्रमाणम् ९६
विषयक्रमः १३
२. प्रत्यक्षनामा
द्वितीय परिच्छेदः
प्रमाणस्य द्वैविध्यप्रदर्शनमुखेन
तत्र संख्याविप्रतिपत्तिनिराकरणम् ९८
सत्यद्वयविचारः १००
सामान्यतत्कल्पनानिरासः १००
सामान्यविचारः १०२
अनुमानविचारः ११८
अनुपलब्धिविचारः १२७
प्रत्यक्षविचारः १३८
तत्र लक्षणविप्रतिपत्तिनिराकरणम् १३८
न्यायमतदूषणम् १४१
शङ्करस्वामिप्रभृतिमतखण्डनम् १४३
सामान्यनिराकरणम् १४४
अवयविनिराकरणम् १४५
अनुमानतो न जातिसिद्धिः १४७
अन्यापोहविचारः १५०
प्रत्यक्षे शब्दकल्पनानिराकरणम् १५३
प्रत्यक्षभेदाः १५८
१. इन्द्रियप्रत्यक्षम् १५८
चित्रैकत्वविचारः १६३
२. मानसप्रत्यक्षम् १७२
३. स्वसंवेदनप्रत्यक्षम् १७५
तत्र साङ्ख्यमतनिराकरणम् १८०
४. योगिज्ञानप्रत्यक्षम् १८४
१४ प्रमाणवार्त्तिके
प्रत्यक्षाभासविचारः १८६
प्रमाणफलविचारः १९०
विज्ञप्तिमात्रताविचारः १९६
अर्थसंवेदनम् १९६
स्मृतिविचारः २१०
ज्ञानस्य द्वैरूप्यसाधनम् २१७
अक्षणिकव्यक्तेरसम्भवत्वम् २२२
स्वसंवेदनविचारः २२३
स्वसंवित्तिसिद्धिः २३९
प्रत्यभिज्ञाविचारः २४५
योगिनां ज्ञानम् २५३
हेतुसामग्र्याः सर्वसम्भवत्वम् २५४
आत्मानुभूतं प्रत्यक्षम् २५५
३. स्वार्थानुमाननामा
तृतीयः परिच्छेदः
हेतुविचारः २६७
हेतुलक्षणम् २५७
हेत्वाभासाः २५८
अनुपलब्धिविचारः २५९
शेषवदनुमाननिरसनम् २६३
व्याप्तिविचारः २६४
सामान्यविचारः २७१
न्याय-मीमांसामतनिराकरणम् २७७
सांख्यमतनिराकरणम् ३००
जैनमतनिराकरणम् ३१३
विषयक्रमः १५
शब्दविचारः ३१४
अहेतुकविनाशः ३१७
अनुपलब्धिचिन्ता ३१८
आगमविचारः ३२२
पौरुषेयत्वविचारः ३२५
अपौरुषेयत्वविचारः ३२६
वेदप्रामाण्यनिराकरणम् ३२६
सम्बन्धविचारः ३२८
कुमारिलमतखण्डनम् ३३२
स्फोटनिरसनम् ३३६
भाट्टमतनिराकरणम् ३४७
जैमिनीयमतनिरासः ३६०
४. परार्थानुमाननामा
चतुर्थः परिच्छेदः
आचार्यदिङ्नागसम्मते
परार्थानुमानलक्षणे स्वदृष्टग्रहणफलम् ३६३
अर्थग्रहणफलम् ३६८
पक्षलक्षणविचारः ३६८
इष्टशब्दग्रहणप्रयोजनम् ३७३
स्वयंशब्दग्रहणप्रयोजनम् ३७८
शब्दाप्रामाण्यविचारः ३८०
सहानिराकृतग्रहणप्रयोजनम् ३९२
बाधायाश्चातुर्विध्यम् ३९२
आगम-स्ववचनयोस्तुल्यत्वम् ३९२
१६ प्रमाणवार्त्तिके
प्रतीतिबाधा ३९८
प्रत्यक्षबाधा ४०४
सामान्यविचारः ४०५
पक्षदोषविचारः ४१०
हेतुनिरपेक्षः पक्षदोषः ४१०
अवयविनिरासः ४११
नैयायिकपक्षलक्षणे दोषः ४१५
प्रतिज्ञालक्षणे दोषः ४१८
सामान्यचिन्ता ४२०
हेतुलक्षणविचारः ४२६
हेतुलक्षणम् ४२६
हेतुभेदाः ४२९
कार्यस्वभावप्रभेदनिर्देशफलम् ४३०
‘विवादाद् भेदसामान्ये’ इत्यस्य व्याख्यानम् ४३२
साध्याभावः साधनाभावेन न व्याप्तः ४३३
सामग्रीशक्तिभेदाद् वस्तूनां नानात्मता ४४५
अनुपलब्धिविचारः ४४९
स्वभावानुपलब्ध्या विषयिप्रतिषेधः ४५१
विशिष्टवेदनादेव विशेषावगतिः ४५३
दृश्यानुपलब्धिः सद्व्यवहारबाधिका ४५४
भावस्वभावविचारः ४५६
संक्षिप्तसंकेतविवरणम्
मनोरथनन्दिनो वृत्तौ ये ये ग्रन्था इहोद्धृताः ।
तेषां संक्षेपसंकेतः स्फुटं विव्रियतेऽधुना ॥
संकेत: नाम प्रकाशनस्थानम्
क० कर्णकगोमिकृतटीका किताबमहल, अलाहाबाद
दी० नि० दीघनिकायो नालन्दासंस्करणम्
न्या० सू० न्यायसूत्राणि } अस्मत्सम्पादितम्,
न्या० द० न्यायदर्शनम् } भारतीयविद्याप्रकाशनम्, काशी
न्या० मु० टी० न्यायमुखटीका अमुद्रिता
पाठा० पाठान्तरम्
प्र० वा० प्रमाणवार्त्तिकम् इदमेव संस्करणम्
प्र० स०, प्र० समु० प्रमाणसमुच्चयः महिशूरतः प्रत्यक्षपरिच्छेदान्तो मुद्रित
म० व० महावग्गो नालन्दासंस्करणम्
मा० द० मालवणियासम्पादिता
स्वोपज्ञवृत्तिः हिन्दूविश्वविद्यालयः, काशी
रा० राहुलसांकृत्यायनसम्पादिता
मनोरथनन्दिवृत्तिः बी० ओ० आर० सोसायटी, पटना
वि० का० पा० विज्ञानकायपादः अमुद्रितः
श्लो० वा० श्लोकवार्त्तिकम् चौखम्भासंस्करणम्
由于本页图像严重泛黄、褪色且曝光过度,字迹极度微弱变淡(接近完全隐没),绝大部分文字已无法准确辨认。以下为依稀可见的版面结构与部分残存文字转写:
[विषयानुक्रमणिका / ग्रन्थसूची...]
[...........................................................................]
॥ ................................................................... ॥
[विषय / सूत्र] .................................... [पृष्ठाङ्क]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[—— ❖ ——]
(注:该页墨迹褪色过于严重,对比度极低,无法做出高保真度的准确逐字识读。建议通过数字图像处理增强对比度后重新识别。)
पाठसंशोधनम्
वृत्तिस्था वार्त्तिकस्थाश्च पाठाः कौतस्कुता इह ।
गुरुकृपालवेनाप्ता विलिख्यन्ते यथास्मृति ॥
पृष्ठे पंक्तौ मुद्रितः पाठः उचितः पाठः
३ १९ अविसंवादनमुक्त० विसंवादनमुक्त०
१६ १९ सदृशेन यादृशेन
१७ २० कारणावस्थाया० कारकावस्थाया०
२९ १९ विकारात् अविकारात्
३१ २१ विशेषे विशेषेण
३३ १७ गुणेऽपि विगुणेऽपि
३४ १८ ०पक्षेणाश्रया० ०पक्षे नाश्रया०
३७ १९ ०वरणाधारादी० ०वरणधारणादी०
३८ १५ स्वरूपं सुरूपं
४० १, १० ०ऽप्यपर्यायः ०ऽप्यपर्यायाः
४० ६, २० संख्यादितद्वतः संख्यादि तद्वतः
५० २० तस्या तस्य
५५ १९ तस्याद्वेषादेः तस्य द्वेषादेः
६५ २१ अनेनात्मनि अनेनानात्मनि
६५ २२ इत्यनेनानित्य० इत्यनेन नित्य०
८२ २० तेन न
८६ २५ नित्यदुःखादे० अनित्यदुःखादे०
९० ११ भवितव्यम् ॥ भवितव्यं गमनेनावश्यम् ॥
९२ ७ स कोपदृष्टिः सत्कायदृष्टिः
९२ १५ सुखादयः दुःखादयः
९४ २१ दोषैर्दृष्टः दोषैर्दुष्टः
१०१ १६ परोक्षेऽन्ये परोक्षेऽर्थे
१०२ १८ कर्म० सामान्यं न कर्म० न सामान्यं
१०४ १३ सम्प्रति व्यति० संवृतिव्यति०
? No, it's नु!
Wait, what is the letter before it?
Is it श्रु?
Wait, look at Col 3: ०श्रुनुभव०?
Wait, why would Col 4 be ०श्र्वानुभव० or ०श्चानुभव०?
Wait, what if Col 3 is ०श्रुभव०? No, there is definitely a letter there.
Wait, let's look at the first letter of Col 3:
०
Then: श with a tick, but wait, look at the loop:
Is it श? It's श् + न? श्नु?
Wait, could it be ०श्वनुभव० -> ०श्वानुभव०?
Look at Col 3: ० श्व with NO आ mātrā, but wait, does it have नु?
०श्वनुभव०!
Wait, why does Col 3 look like ०श्रुनुभव०?
Look at the र stroke: there is NO र stroke, it's a smudge?
Wait, look at the bottom of the first letter in Col 3:
It's श with a subscript व? Wait, in Devanagari, श्व is written as श with
[ २१ ]
पृष्ठे पंक्तौ मुद्रितः पाठः उचितः पाठः
२६९ १९ विपक्षे न विपक्षे
२७४ ८ प्रत्यग्रदृष्टं प्रत्यक्षदृष्टं
२७६ १७ ह्यनुत्वातितकार्यः ह्यनुत्पादितकार्यः
२९१ ८ कार्यञ्च कार्यश्च ( ? )
३१० १९ शेषस्य विशेषस्य
३४५ १ ०ऽभाववाशित्व० ०ऽभावनाशित्व
३५८ ३ निबन्धमम् निबन्धनम्
३५८ ९ ब्रवीमिति ब्रवीमीति
३६६ ४ लुप्तो लुप्तौ
४१६ ७ पयसोदनं पयसौदनं
४२६ ५ ०विशेषाभ्यां ०विशेष्याभ्यां
[ ८६ ]
अशुद्ध पाठः शुद्ध पाठः पंक्ति पृष्ठ
किंचि त् किंचित् १८ ३४२
केवलानाम केवलानाम् ५ ३७०
दीर्घकालिकत्वात् दीर्घकालिकत्वात् ८ ४०९
( १ ) यतोऽस्य यतोऽस्य ४ ४११
विप्रतिपत्ति विप्रतिपत्तिः १४ ४१८
विशेषाभावात् ० ० विशेषाभावात् ८ ४२७
प्रकाशनम् प्रकाशनम् ३ ४२८
निमित्तितः निमित्तितः १ ४२९
विन्दु बिन्दु ४ ४३१
विप्रकृष्टार्थ विप्रकृष्टार्थ ४ ४६४
प्रमाणप्रवृत्तौ० प्रमाणप्रवृत्तौ० ५ ४६४
प्रमाणवार्त्तिकम्
( मनोरथनन्दिवृत्तियुतम् )
प्रकीर्णकगणधर
(अवशिष्टगणधर)
ॐ नमो मञ्जुश्रियै ॐ
प्रमाणवार्त्तिकम्
मनोरथनन्दिवृत्तिसहितम्
प्रमाणसिद्धिनामा
प्रथमः परिच्छेदः
मङ्गलम्
विधूतकल्पनाजालगम्भीरोदारमूर्तये ।
नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ १ ॥
विमुक्तावरणक्लेशं दीप्ताखिलगुणश्रियम् ।
स्वैकवेद्यात्मसम्पत्तिं नमस्यामि महामुनिम् ॥
स्वयमपि कृतिना¹ महद्भिरन्यैरपि गमितो बहुविस्तरैर्न योऽयम् ।
तदपि च सुगमो न मद्विधानामिति विवृत्तिच्छलतः करोमि चिन्ताम् ॥
अहमपि न निजैकलाभलुब्धो न च परकृत्यरसामिलाषमुक्तः ।
फलति पुनरियं परार्थवाञ्छाव्रततिरभीष्टफलानि पुण्यभाजाम् ॥
शास्त्रादावविघ्नेन तत्समाप्त्यर्थं भगवति प्रसादजनने श्रोतृजनानुग्रहार्थं च
स्तुतिपूर्वकमाचार्यो नमस्कारश्लोकमाह—( विधूतेत्यादि ) ।
विधूतम् = विध्वस्तम्, अनुत्पत्तिकधर्मतामापादितम्, कल्पना = ग्राह्यग्राह-
काध्यारोपः, सैव जालं बन्धनहेतुत्वात् यासां ता विधूतकल्पनाजालाः । एतेन
धर्मकाय उक्तः; द्वयशून्यताया धर्मधातुत्वात्, तदधिगमस्य धर्मकायत्वात् ।
गम्भीराश्च खड्गश्रावकाद्यविषयत्वात्; उदाराश्च सकलज्ञेयसत्त्वार्थव्यापनादिति
१. कृतिनां—रा० ।
२ प्रमाणवार्तिके
अनुबन्धचतुष्टयनिरूपणम्
प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम्,
नानर्थ्यैव सुभाषितैः परिगतो विद्वेष्ट्यपोष्यमलैः ।
गभीरोदाराः । आभ्यां साम्भोगिकनैर्माणिककायावुक्तौ; तयोरेव स्वरूपत्वात् ।
विधूतकल्पनाजाला गभीरोदारा मूर्तयो यस्य स विधूतकल्पनाजालगम्भीरो-
दारमूर्तिः । एतेन स्वार्थसम्पदुक्ता; त्रिकायलक्षणत्वात् तस्याः ।
समन्तम् = निरवशेषम्, भद्रम् = कल्याणं परार्थसम्पत्सम्भारलक्षणं यस्मा-
दसौ समन्तभद्रः । अनया भगवन्नामव्युत्पत्त्या परार्थसम्पदभिहिता । समन्ततः
स्फरन्तीति समन्तस्फरण्यः त्विषः इव¹ त्विषो देशना यस्य स समन्तस्फरण-
त्विट् । वस्तुतत्त्वावभासनोपायता च त्विग्देशनयोः साधर्म्यम् । अनेन परार्थ-
सम्पदुपायो दर्शितः; देशनाद्वारेण भगवता जगदर्थकरणात् । एतेन स्तुतिरुक्ता;
असाधारणानां स्वपरार्थसम्पत्तितदुपायनामुपदर्शनात् । सर्वत्र नमःशब्दयोगा-
च्चतुर्थी । अनेन नमस्कारोऽभिहितः ।
यदा तु समन्तभद्रशब्दो रूढ्या बोधिसत्त्वविशेषे वर्तते, तदापि पद-
व्याख्यानं पूर्ववदेव । अयं तु विशेषः—विधूतकल्पनाजालत्वं बोधिसत्त्वभूम्या-
वरणप्रहाणतो वेदितव्यम् । गाम्भीर्यं तु खड्गश्रावकाविषयत्वात् । औदार्यं तु
दशभूमीश्वरबोधिसत्त्वमाहात्म्यातिशयः । ( यद्यपि ) कायत्रयं तु बोधिसत्त्वाना-
मप्यस्ति; प्रकर्षनिष्ठागमनात् तु भगवतां व्यवस्थाप्यते । देशना च प्रसिद्धैव
तेषाम् ॥ १ ॥
श्रोतॄदोषबाहुल्याच्छास्त्रेण परोपकारमपश्यन् सूक्ताभ्यासभावितचित्तता-
मेवात्मनः शास्त्रारम्भकारणं दर्शयन् वक्रोक्त्या दोषतापनयनेन शास्त्रे श्रोतॄन् प्रवर्त-
यितुमाह—प्रायो भूयान् , बाहुल्येन वा जनः प्राकृतेषु बहिःशास्त्रेषु सक्तिः =
अभिष्वङ्गो यस्य स प्राकृतसक्तिः । अनेन कुप्रज्ञत्वं श्रोतॄदोषः उक्तः । अप्रति-
बला = शास्त्रार्थग्रहणं प्रत्यशक्ता प्रज्ञा यस्यासावप्रतिबलप्रज्ञः, अनेनाज्ञत्वमुक्तम् ।
केवलं नानर्थ्यैव सुभाषितैः; किन्तु सुभाषिताभिधायिनं ( प्रति ) ईर्ष्या
१. तावत्—रा० ।
प्रमाणसिद्धिः ३
तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम्¹,
सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ २ ॥
प्रमाणलक्षणम्
१. अविसंवादि ज्ञानं प्रमाणम्
प्रमाणमविसंवादि ज्ञानम्;
अविसंवादनशब्दनिरुक्तिः
अर्थक्रियास्थितिः ।
अविसंवादनम्;
परसम्पत्तौ चेतसो व्यारोषः, सैव मलश्चित्तमलिनीकरणात् । तैः परिगतो युक्तः
सन् विद्वेष्ट्यपि । ईर्ष्यामलैरिति व्यक्त्यपेक्षया बहुवचनम् । अनेन यथाक्रम-
मनर्थित्वममाध्यस्थ्यं चोक्तम् । तेन श्रोतृदोषकलापेन अयमारिप्सितो वार्त्तिकाख्यो
ग्रन्थः । परमुपकरोतीति परोपकार इति नोऽस्माकं चिन्तापि नास्ति ।
कथं तर्हि शास्त्रकरणे प्रवृत्तिः ? इत्याह—चेतश्चिरं दीर्घकालं सूक्तस्या-
भ्यासेन विवर्द्धितव्यसनं विस्तारिताभिष्वङ्गमिति हेतोरत्र वार्त्तिककरणेऽनु-
बद्धस्पृहं जाताभिलाषम् । एतेन कुप्रज्ञतादिदोषजातमात्मनो बोधिताः श्रोतारस्तत्-
परिहारेण शास्त्रे प्रवर्तिता एव भवन्ति ॥ २ ॥
अयमाचार्यो बृहदाचार्य्यप्रमाणसमुच्चयशास्त्रे वार्त्तिकं चिकीर्षुः स्वतः
कृतभगवन्नमस्कारः तच्छास्त्रारम्भसमये तदाचार्यकृतभगवन्नमस्कारश्लोकं²
व्याख्यातुकामः प्रथमं प्रमाणसामान्यलक्षणमाह—
ज्ञानं प्रमाणम्, नाज्ञानमिन्द्रियार्थसन्निकर्षादि । कीदृशम् ? अवि-
संवादि । विसंवादनं विसंवादः = वञ्चनम्, तद्योगाद् विसंवादि, न तथाऽ-
दोऽविसंवादि³ । अविसंवादनमुक्तमित्यर्थः ।
किं पुनः ? इत्याह—अर्थेत्यादि । यथोपदर्शितार्थस्य क्रियायाः
१. चेतस्ततः—रा० । २. सोऽयं नमस्कारश्लोकस्तत्र—
“प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने ।
कुतर्कसम्भ्रान्तजनानुकम्पया प्रमाणसिद्धिर्विधिवद्विधीयते ॥” (प्र० स० १. १.)
३. तथाऽसाववि०—रा० ।
शाब्दे ज्ञानेऽपि प्रामाण्यम्
शाब्देऽप्यभिप्रायनिवेदनात् ॥ ३ ॥
वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते ।
स्थितिः प्रमाणयोग्यता = अविसंवादनम् । अतश्च यतो ज्ञानादर्थं परिच्छिद्यापि
न प्रवर्तते, प्रवृत्तो वा कुतश्चित् प्रतिबन्धादेरर्थक्रियां नाधिगच्छति, तदपि
प्रमाणमेव; प्रमाणयोग्यतालक्षणस्याविसंवादस्य सत्त्वात् ।
सैव प्रमाणयोग्यता कथमसत्यामर्थक्रियाप्राप्तौ निश्चीयत इति चेत् ? यत्
तावदसकृद्व्यवहाराभ्यासाद् दर्शनमात्रेणोपलक्षितभ्रमविविक्तस्वरूपविशेषं साधना-
ध्यक्षम्, तस्य स्वतः एव प्रमाणयोग्यतानिश्चयः कृत्रिमाकृत्रिममणिरूप्यादितत्त्व-
निश्चयवत् । अनुमानस्य च साध्यप्रतिबद्धजन्मनो व्यभिचाराशङ्काविरहात् ।
अर्थक्रियानिर्भासं तु प्रत्यक्षं स्वत एवार्थक्रियानुभवात्मकम्, न तत्र परार्थ-
क्रियाऽपेक्ष्यत इति तदपि स्वतो निश्चितप्रामाण्यम् । अत एवार्थक्रियापरम्परा-
नुसरणादनवस्थादोषोऽपि दुःस्थ एव । यत्त्वनभ्यस्तदशायां सन्दिग्धप्रामाण्यम् ;
उत्पत्तौ तस्यार्थक्रियाज्ञानाद्, अनुमानाद्वा प्रामाण्यं निश्चीयते ।
एतच्चाविसंवादनं बाह्यार्थेतरवादयोः समानं प्रमाणलक्षणम् । विज्ञाननयेऽपि
साधननिर्भासज्ञानानन्तरमर्थक्रियानिर्भासज्ञानमेव संवादः । अतो विज्ञप्तिमात्रत्वे
प्रमाणेतरविभागव्यवहारोऽसङ्कीर्णः ।
ननु शब्दाद् १ गन्धरसस्पर्शान् १ चित्ररूपं च पश्यतो ज्ञानस्य परमार्थक्रिया-
ज्ञानं नास्तीति तत् प्रमाणं न स्यात् ? इत्याह — शाब्दे शब्दजनिते ज्ञानेऽपि
शब्दाद् गन्धादिविषयेऽपि अभिप्रायस्याभिप्रेतार्थक्रियाया निवेदनात् प्रतिपाद-
नात् प्रामाण्यम् । अर्थक्रिया हि क्वचित् स्वरूपप्रतिपत्तिरेव, क्वचित् ततोऽन्या
यथासम्भवं व्यवहारविषयः । तत्प्रमाणं च प्रामाण्यमिति नाव्यापकं प्रमाण-
लक्षणम् ॥ ३ ॥
ननु शब्दस्यार्थप्रतिबन्धाभावान्न प्रामाण्यं स्यात्, इष्यते च, अनुमान-
त्वात् ? इत्याह—वक्तृव्यापारो विवक्षा तस्य विषयो योऽर्थः समारोपितबही-
१-१. शब्दगन्ध०—रा० ।
प्रथम परिच्छेद: स्वार्थानुमान परिच्छेद (हेतु, व्याप्ति व तर्क)
प्रमाणसिद्धिः ५
प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥ ४ ॥
गृहीतग्रहणान्नेष्टं सांवृतम्, धीप्रमाणता ।
प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि¹ ॥ ५ ॥
विषयाकारभेदाच्च धियोऽधिगमभेदतः ।
भावादेवास्य तद्भावे;
रूपो ज्ञानाकारः प्रकाशते बुद्धौ विवक्षात्मिकायाम् । तत्र शब्दस्य प्रामाण्यं
लिङ्गत्वम् । शब्दादुच्चरिताद् विवक्षितार्थप्रतिभासी विकल्पोऽनुमीयत इत्यर्थः;
तत्कार्यत्वात् तच्छब्दस्य । न पुनरर्थतत्त्वनिबन्धनम्; तत्प्रतिबन्धाभावात् ॥४॥
ननु 'घटोऽयम्' इत्यादिज्ञानात् प्रवर्तमानस्य सम्बन्धोऽस्त्येवेति² तत् प्रमाणं
स्यात् ? इत्याह—गृहीतग्रहणान्नेष्टं सांवृतं दर्शनोत्तरकालं सांवृतं विकल्प-
ज्ञानं प्रमाणं नेष्टम्; दर्शनगृहीतस्यैव ग्रहणात्, तेनैव च प्रापयितुं शक्यत्वात्
सांवृतमकिञ्चित्करमेव । कस्मात् पुनर्धियः प्रमाणतेष्यते, नेन्द्रियादेः ?
हेयोपादेयवस्तुविषयायाः प्रवृत्तेस्तत्प्रधानत्वात् ज्ञानप्रधानत्वात् धिय
एव प्रामाण्यम् । न हीन्द्रियमस्तीत्येव प्रवृत्तिः, किं तर्हि ? ज्ञानसद्भावात् ।
साधकतमञ्च प्रमाणम्; तस्याव्यवहितव्यापारत्वात् ॥ ५ ॥
एवं फलार्थिनां प्रवृत्तिव्यवहारकारित्वेन धियः प्रामाण्यं प्रतिपादितम्,
साम्प्रतमधिगमफलविभागकारित्वमाह—धियो विषयस्येवाकारो विषयाकारः
नीलादिः, तस्य भेदात् विशेषादधिगमस्यार्थप्रतीतेर्भेदाद् विशेषाद् धिय एव
प्रामाण्यम् । नीलस्वरूपं हि ज्ञानं नीलप्रतीतिः, अन्यादृशमन्यथा—इति धीरेव
प्रमाणम् ।
ननु यथाधिगमसाधनमाकारस्तथेन्द्रियमपि तदुत्पत्तेः ? अत आह—तस्या-
कारस्य भावेऽस्याधिगमस्य भावादेव स³ आकारः³ साधनम्; व्यवहितत्वात् ।
न त्विन्द्रियादि; तद्भावेऽपि ज्ञानानुत्पत्तावधिगमाभावात् ।
कश्चिदाह⁴—सर्वज्ञानानामबाधितत्वलक्षणं प्रामाण्यं स्वत एव सिध्यति;
१. तु०—प्र० वा० २.१०१. कारिका । २. संवादो०—रा० ।
३-३. रा० पुस्तके नास्ति । ४. मीमांसक इत्यर्थः ।
६ प्रमाणवार्त्तिके
मीमांसकमतखण्डनम्
स्वरूपस्य स्वतो गतिः ॥ ६ ॥
प्रामाण्यं व्यवहारेण;
बाधकारणदोषज्ञानाभ्यां क्वचित् तदपोद्यते, यथा—शुक्तिकायां रजतज्ञाने,
चन्द्रद्वयदर्शने वा । तच्चेदमयुक्तम् ; यतः—स्वरूपस्य स्वतो गतिः, न
प्रामाण्यस्य । स्वतो हि प्रामाण्यस्याभिव्यक्तिर्वक्तव्या, न तूत्पत्तिः; ज्ञानात्मभूतस्य
स्वस्मादुत्पत्तिविरोधात् । यदि च स्वतोऽबाधितत्वं प्रामाण्यमभिव्यक्त्या व्यवस्था-
पितम् , न तस्य बाधकानां सहस्रेणापि बाधो युक्तः । अथ सम्भवति बाधके
बाधकादर्शनं यत्र, तत्राबाधितत्वमपोद्यते¹ बाधकदर्शनेन ? एवं तर्हि बाधका-
दर्शनान्नाबाधितत्वम् , किं तर्हि ? बाधकाभावात् । तस्य चादर्शनादन्यत्र
साधनम् । तच्चेदसाधनम्, नाबाधितत्वं नाम प्रामाण्यम्, नाप्यस्य स्वतः सिद्धिः ।
अथ² प्रथमं बाधकादर्शनात् प्रसक्तमबाधितत्वं बाधदर्शनादपोद्यत इति ? किमत्रा-
युक्तम् ! ईदृश एव बाध्यबाधकभावः सर्वतः ॥
कीदृशोऽत्र प्रसङ्गार्थः ? किं सत्त्वम् ? उत सत्त्वनिश्चयः ? सम्भावनामात्रं
वा ? तत्र न तावदनयोः पक्षयोरपवादो युक्तः; सतः केनचिदपि बाधितुम-
शक्यत्वात् । अन्येऽपि न स्वतोऽबाधितत्वनिश्चयः; तद्विरुद्धत्वात् सम्भावनायाः ।
अनिश्चितमेव तत्राबाधितत्वं कथमन्यथोत्पद्यत इति चेत् ? न; तर्हि स्वतः-
प्रामाण्यनिश्चय इति यत्रापि बाधदर्शनं नास्ति तत्राप्यनाश्वास एव । एवं च
बाध्यबाधकभावः सदसत्तापक्षयोरसङ्गतो वेदितव्यः ॥ ६ ॥
यदि स्वरूपमात्रं स्वतो गम्यते, न प्रामाण्यम्, कथं तर्हि तदवगम्यम् ?
इत्याह—प्रामाण्यं व्यवहारेण अर्थक्रियाज्ञानेन । यस्य साधनज्ञानस्य तादा-
त्म्यादनुभूतेऽपि प्रामाण्ये साशङ्का व्यवहर्त्तारोऽनभ्यासवशादनुत्पन्नानुरूपनिश्चयाः,
तत्रार्थक्रियाज्ञानेन प्रामाण्यनिश्चयः । अन्यत्र तु विभ्रमशङ्कासङ्कोचादुत्पत्तावेव
स्वरूपस्य प्रामाण्यस्य स्वतो गतिरित्युक्तम् ।
१. ०मपोह्यते—इत्युचितः पाठः । एवमग्रेऽपि ।
२. अतः—रा० ।