प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 63, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः ३७
नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि पूर्ववत् ।
अविशेषादणुत्वाच्च न गतिश्चेन्न सिध्यति ॥ ८८ ॥
अविशेषः;
विशिष्टानामैन्द्रियत्वमतोऽनणुः ।
एतेनावरणादीनामभावश्च निराकृतः ॥ ८९ ॥
कथं वा सूतहेमादिमिश्रं तप्तोपलादि वा ।
सर्वत्र साध्याभावेन साधनाभावः प्रसङ्गविपर्ययः, तमाह—नास्त्येकस्मिन्
नास्त्येकोऽवयवी समुदायोऽवयवानामस्मात् कम्पादिसाध्याभावात् । अवयवायवि-
नोरनेकत्वेऽपि पूर्ववत् । अभेदपक्ष इव साध्याभावेन साधनाभावो विपर्ययः ।
अथ शरीरादौ प्रत्यक्षदृष्टे धर्मिणि कम्पाकम्पादिविरुद्धधर्माध्यासात् स्वतन्त्र-
हेतोरेकत्वप्रतिषेधः साधनीय इति । अवयविनोऽभावात् परमाणुपुञ्जरूपं शरीरादि,
तदपि परस्परसङ्गमावस्थातः पुञ्जावस्थायामविशेषाद् विशेषाभावात् अणुत्वाच्च ।
दर्शनानर्हसूक्ष्मतयापि शरीरादेर्न गतिश्चेत् ? न सिध्यति¹ अविशेषः ।
परस्परासङ्गतेभ्यः परमाणुभ्योऽदृष्टसहकारिभ्यो दृश्यानामेवान्योऽन्यसंहता-
नामुत्पत्तेः, तेषां विशिष्टानामैन्द्रियत्वमिन्द्रियग्राह्यत्वम् । अत ऐन्द्रियत्वादनणु-
रिष्टः । इन्द्रियागोचरेष्वणुत्वं प्रसिद्धम्, तदेव तु हेतुकृतम् । पुञ्जीभूतास्तु
दृश्यमाना नाणव उच्यन्ते; किन्तु शरीरादिव्यपदेश्याः । यथा---तन्तवः
पटावस्थायां² न तन्तवः उच्यन्ते; अपि तु पट इत्यसिद्धौ हेतू³ ।
एतेन परमाणूनां पूर्वावस्थातो विशिष्टत्वकथनेनावरणाधारादीनामभावः
परैरसंहतावस्थायामिव यः प्रतिपादितः स च निराकृतो बोद्धव्यः । केचित्
परमाणवः संहता जाता आवरणधारणादिक्षमा भवन्ति, नान्ये ॥ ८८-८९ ॥
कथं वा सूतहेमादिमिश्रं पिष्टिकावस्थायां तेजःपरमाणुसञ्चयरूपं तप्तो-
पलादि वा मिश्रं कथं दृश्यम् ! विजातीयानां द्रव्याणारम्भात् न तदवयवि द्रव्यम्,
परमाणवश्च तन्मते न दृश्या इति न तेषां दर्शनं स्यात् । यदि च परमाणवः
१. बौद्धानां मते इति शेषः । २. पटावस्था--रा० ।
३. अविशेषादणुत्वाच्चेति परसिद्धान्ते ।