प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 62, कुल 532 में से
संदर्भ में पढ़ें३६ प्रमाणवार्त्तिके
पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेर्विरोधिनः ।
एकस्मिन् कर्मणोऽयोगात् स्यात् पृथक् सिद्धिरन्यथा ॥ ८६ ॥
एकस्य चावृतौ सर्वस्यावृत्तिः स्यादनावृतौ ।
दृश्येत रक्ते चैकस्मिन् रागोऽरक्तस्य वाऽगतिः ॥ ८७ ॥
किञ्च—शरीरमुपादानं बुद्धेर्भवेदेकमवयविरूपं वा स्यात्, अनेकं परमाणु-
सञ्चयस्वभावं वा। तत्रावयविरूपं किमवयवा एव हस्तादयः ? उत तेभ्योऽन्यत् ?
द्वयमपि प्रतिषेद्धुमाह—पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेः । यदि पाण्यादयो-
ऽवयवा एव अवयव्येकरूपाः, तदा पाण्यादेः कम्पे सति सर्वस्य पादादेरपि कम्पः
प्राप्नोति; एकस्मिँस्तस्मिन् कर्मणः कम्पस्य विरोधिनोऽकम्पस्यायोगात् । एकं
तु द्रव्यं तत्समवेतश्च कम्प इति सर्वं कम्पेत । अवयवानामेकावयविरूपत्वं
हेतुः पराभ्युपगमसिद्धः, ( तथा च ) सर्वस्य कम्पप्रसङ्गः, न च कम्पोऽस्ति इति
साध्याभावेनैकावयविरूपत्वाभावप्रसङ्गविपर्ययः । एवं वक्ष्यमाणावपि प्रसङ्गतद्विपर्ययौ
वेदितव्यौ ।
अथावयवेभ्यो भिन्नोऽवयवी, अत एवैकस्मिन्नवयवे कम्पमाने नावयवा-
न्तरस्य कम्पः ? तदापि स्यात् पृथक् सिद्धिः; अन्यथावयवावयविनोर्भेदे
पृथक् कम्पमानादवयवादकम्पमानस्यावयविनः समवेतस्य भेदेन तत्रैवावयवे सिद्धिः
स्यात्, वस्त्रोदकवत्१ । अत्राप्यवयवावयविनोर्भेदः पराभ्युपगमसिद्धो हेतुः,
( तथा च ) पृथक् सिद्धिः प्रसज्यते । साध्याभावे साधनाभावो विपर्ययः । एवं
वक्ष्यमाणौ च प्रसङ्गविपर्ययौ ( बौद्धव्यौ ) ॥ ८६ ॥
अथाभेदपक्षे एकस्यावयवस्यावृतौ सर्वस्यावृत्तिश्च स्यादिति प्रसङ्गः ।
भेदपक्षमाश्रित्यानावृतौ चावयविनः स्वीक्रियमाणायामावृत एवावयवेऽनावृतोऽसौ
दृश्येतेति प्रसङ्गः । अथाभेदपक्षे रक्ते चैकस्मिन्नवयवे सर्वत्रावयवे रागो
दृश्येतेति प्रसङ्गः । भेदपक्षे तु रक्त एवावयवेऽरक्तस्य चावयविनो वाऽगतिः
स्यादिति प्रसङ्गः ॥ ८७ ॥
१. यथा हि वस्त्रैकदेशे लग्नमुदकं तत्रैव दृश्यते तद्वदित्यर्थः ।