सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 61, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 61

प्रमाणसिद्धिः ३५
आत्मस्नेहवतो दुःखसुखत्यागाप्तिवाञ्छया ॥ ८२ ॥
दुःखे विपर्यासमतिः तृष्णा चाऽऽबन्धकारणम् ।
जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ ८३ ॥
गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् ।
अदृष्टिर्मन्दनेत्रस्य तनुधूमगतिर्यथा ॥ ८४ ॥
तनुत्वान्मूर्तमपि तु किञ्चित् क्वचिदशक्तिमत् ।
जलवत् सूतवद्धेम्नि नादृष्टेनासदेव वा ॥ ८५ ॥
हीनस्थानपरिग्रहो गर्भस्याश्रयत्वेन स्वीकारः आत्मस्नेहवतः सतृष्णस्य दुःखे
सुखमिति विपर्यासः, तस्य दुःखसुखयोर्यथाक्रमं त्यागाप्तिवाञ्छया । सतृष्णो
हि दुःखे सुखमिति विपर्यस्त आत्मनि विपर्यस्तः आत्मनि स्निग्धो जन्माक्षेपक-
कर्मवशात् सुखहेतुं गर्भस्थानं मन्यमानः परिगृह्णाति ॥ ८२ ॥
ततश्च दुःखे विप