प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 56, कुल 532 में से
संदर्भ में पढ़ें३० प्रमाणवार्त्तिके
अनाश्रयात् सदसतोर्नाश्रयः स्थितिकारणम् ।
सतश्चेदाश्रयो नास्याः स्थातुरव्यतिरेकतः ॥ ६५ ॥
व्यतिरेकेऽपि तद्धेतुस्तेन भावस्य किं कृतम् ।
अविनाशप्रसङ्गः स नाशहेतोर्मतो यदि ॥ ६६ ॥
तुल्यः प्रसङ्गस्तत्रापि;
किं पुनः स्थितिहेतुना ।
आ नाशकागमात् स्थानं ततश्चेद् वस्तुधर्मता ॥ ६७ ॥
कारणात् कार्ययोश्चित्तदेहयोर्जन्मन उत्पादात् तयोः सहस्थानं भवति ।
यथा—अग्निताम्रजन्मनोर्लोहिताम्रद्रवत्वयोः सहावस्थितिः ॥ ६४ ॥
ननु देहश्चित्तस्याश्रयस्ततः सहस्थितिः स्यात् ? इत्याह—अनाश्रयात्¹
सदसतोर्नाश्रयः न ह्यकारणमाश्रयः; अतिप्रसङ्गात् । सतश्च निष्पन्नत्वान्
नाश्रयः कश्चित् । असतोऽपि वा कारणं किञ्चित् स्यात् , न त्वाश्रयः; स्वरूप-
स्यैवाभावात् । सतः स्थितिकारणमाश्रयश्चेदिष्यते, नैतदपि युक्तम्; अस्याः
स्थातुरव्यतिरेकतः । न हि स्थितिर्नाम स्थातुः पदार्थात् भिन्ना, यां कुर्वत
आश्रयत्वम् ॥ ६५ ॥
व्यतिरेकेऽपि वा स्वीक्रियमाणे तद्धेतुराश्रयः स्यात् । तेन चाश्रयाभि-
मतेन भावस्य स्थितिमतः किं कृतं येनासावाश्रयः !
स्यादेतद्—भावसम्बन्धिनी स्थितिर्भावं स्थापयति तेन तत्कर्तुराश्रयत्वम् ?
इत्याह—( अविनाशेत्यादि । ) यदि स्थित्योत्पन्नया भावः स्थाप्यते, तदा न
कदाचिदस्य भावस्य विनाशः स्यात् । स नाशहेतोर्मुद्गरादेर्मतो यदि, तुल्यः
प्रसङ्गस्तत्रापि । नाशोऽपि न तावद् भावाद्व्यतिरिक्तः क्रियते; तस्योत्पन्नत्वात् ।
व्यतिरिक्तेऽपि नाशे कृते भावस्तदवस्थ इति प्राग्वदुपलम्भादिप्रसङ्गः ।
किञ्च—यदि नाशहेतुना नाशः क्रियते तदा किं पुनः स्थितिहेतुना
आश्रयेण । यावन्नाशहेतुर्नापतति तावत् स्वयमेव स्थास्यति, आपतिताच्च
तस्मान्नैष रक्षणक्षम इति किमनेन स्वीकृतेन ! आ नाशकागामाद्धि नाश-
१. आश्रयत्वरहितादित्यर्थः ।