सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 57, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 57

प्रमाणसिद्धिः ३१
नाशस्य;
सत्यबाधोऽसाविति किं स्थितिहेतुना ।
यथा जलादेराधार इति चेत् तुल्यमत्र च ॥ ६८ ॥
प्रतिक्षणविनाशे हि भावानां भावसन्ततेः ।
तथोत्पत्तेः सहेतुत्वादाश्रयोऽयुक्तमन्यथा ॥ ६९ ॥
स्यादाधारो जलादीनां गमनप्रतिबन्धतः ।
अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥ ७० ॥
एतेन समवायश्च समवायि च कारणम् ।
क्तागमनं यावत् तत आश्रयात् स्थानं चेदिष्यते, एवं तर्हि वस्तुधर्मता
नाशस्य ॥ ६६-६७ ॥
यदि नश्वरो भावः, तदाश्रयेण नाशकोपनिपातं यावत् स्थाप्येत; अन्यथा
तु स्वयमेव स्थितिमान्, किमाश्रयेण !
एवं सत्यबाधोऽसाविति किं स्थितिहेतुना ! विद्यमाने वस्तुनि स्वभा-
वत्वात् अबाधः = बाधरहितोऽसौ नाश इति किं स्थितिहेतुना स्वीकृतेनापि !
यथा जलादेः सत एवाधारो घटादिः, तथा चित्तस्य देह इति चेत् ?
तुल्यमत्र च प्रागुक्तं सकलम् ॥ ६८ ॥
कथं तर्ह्याधारव्यवहारः समर्थनीयः ? इत्याह—भावानां हि विनश्वर-
स्वभावतया प्रतिक्षणविनाशे यो भावः सहकारी भावसन्ततेः, तथा तादृश्याः
स्वोपादानदेशाया उत्पत्तेर्निमित्तं सहेतुत्वादाश्रयः, न त्वन्यथा; अयुक्तत्वात्
॥ ६९ ॥
एवं सामान्येनाश्रयाश्रयिभावदूषणमभिधाय द्रव्यदूषणादौ विशेषे दूषणं
वक्तुमाह—स्यादाधारो जलादीनां प्रसर्पणधर्माणां गमनप्रतिबन्धतः
कुण्डादिः अगतीनां निष्क्रियत्वात् किमाधारैः गुणिव्यक्त्यादिभिर्गुणसामान्य-
कर्मणां पदार्थानाम् ॥ ७० ॥
एतेनाश्रयाश्रयिभावप्रतिषेधेन समवायोऽयुतसिद्धानामाधार्याधारभूताना-
मिहेति प्रत्ययहेतुः, यथा व्यक्तिसामान्ययोः समवायिकारणं च स्वसमवेतकार्य-