सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 448, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 448

स च भेदोऽप्रतिक्षेपात् सामान्यानां न विद्यते ।
वृक्षो न शिंशपैवेति यथा प्रकरणे क्वचित् ॥ १७८ ॥
सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता ।
सोऽसर्वः सर्वभेदानामतत्त्वे तदसम्भवात् ॥ १७९ ॥
ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविनः ।
असिद्धेर्ज्ञापकत्वस्य¹ धर्म्यसिद्धः स्वसाधने ॥ १८० ॥

श्रुतेः शब्दस्याह । स च सर्वस्माद् भेदोऽसर्वलक्षणः शब्दस्य न विद्यते;
सामान्यानां व्यापिनां भेदस्याप्रतिक्षेपात् स्वीकारात् निःशेषार्थसंगृहीतत्वात्
सर्वशब्दो न किञ्चित् परिहरति ।
ननु सामान्यानां विशेषप्रतिक्षेपो दृश्यत एव, यथा—'किं शिंशपैव वृक्षो
न वा ?' इति प्रश्ने कथ्यते—'न शिंशपैव वृक्षः', तदा शिंशपावृक्षत्वप्रतिक्षेपो
भवत्येव ? असदेतत्; न हि तत्र शिंशपावृक्षत्वं निषिध्य