सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 449, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 449

विचारः ] परार्थानुमानपरिच्छेदः ४२३
धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः ।
सर्वत्र दोषस्तुल्यश्चेन्न संवृत्या विशेषतः ॥ १८१ ॥
परमार्थविचारेषु तथाभूताप्रसिद्धितः ।
तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते ॥ १८२ ॥
ननु शब्दत्वं सिद्धमेव, नित्यवत्तया तु तदसिद्धं साध्यते । न च तथैव
तत्साधनम्; शब्दत्वमात्रेण साधनत्वात् । तत् कथं धर्मी स्वसाधनेऽसिद्ध उच्यते !
अयमभिप्रायः—न शब्दत्वमित्येव गमकत्वम्, किन्तु साध्यव्याप्तम्, तस्य
चासाधारणत्वेन नान्यत्र व्याप्त्युपलम्भः । ततश्चान्यत्रानित्यत्वनियमात् शब्दे
शब्दत्वं नित्यताव्याप्तं सद्धेतुर्वक्तव्यः । तथा च—य एव साध्यः स एव हेतुरिति
साध्यसिद्धेः, हेत्वसिद्धिश्चेति युक्तमुक्तम्—‘धर्म्यसिद्धः स्वसाधने’ इति !
नन्वेवं सति सर्वत्र भावेषु धर्मयोः साध्यसाधनयोर्धर्मिणश्च विवेकस्य
भेदस्यासिद्धितः सर्वत्र तुल्यो दोषः । न हि शब्दादन्यत् नित्यत्वम्, कृतकत्वं
वा । अनित्यत्वासिद्धौ च यथा नित्यः साध्यः, तथा तदात्मवान् कृतकोऽपि
शब्दोऽसिद्ध एवेति चेत् ? नैष दोषः; संवृत्या भिन्नव्यावृत्तिविषयया साध्य-
साधनधर्मिणो विशेषतो भेदात् । यथास्वं विकल्पैः संकेतवासनानुगमनियमिते-
कैकवृत्तिमात्रविषयार्थैः शब्दत्वकृतकत्वानित्यत्वाद्यसंकीर्णान्येव धर्मसाधनसाध्यतया
व्यवस्थाप्यन्त इति न दोषः ॥ १८१ ॥
यदि धर्मधर्मिविवे

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ) · पृष्ठ 449, कुल 532 में से · SarvaKosh