सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 401, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 401

विचारः ] परार्थानुमानपरिच्छेदः ३७५
सद्वितीयप्रयोगेषु निरन्वयविरुद्धते ।
एतेन कथिते;
साध्यं सामान्येनाथ सम्मतम् ॥ ३४ ॥
तदेवार्थान्तराभावाद् देहानाप्तौ न सिध्यति ।
यथा व्युत्पन्नसर्वशब्दवादिनं प्रत्यव्युत्पन्नसंज्ञाशब्दादिना तदर्थवत्त्वसिद्धयर्थं
साधनमुच्यते—संज्ञिसम्बन्धात् प्रागर्थवच्छब्दरूपं विभक्तिदर्शनात् तदन्य-
शब्दवदिति । अत्र ‘गच्छतीति गौः’ इत्येकार्थसमवायात् क्रियोपलक्षितेन
बाह्यसामान्येनार्थवान् गोशब्दः सिद्धोऽव्युत्पन्नवादिनः ।
ननु स्वरूपमात्रेणार्थेनार्थवान्, अर्थमात्रं च साध्यत्वेनोद्दिष्टम्, न तु
स्वरूपेणार्थेनार्थवत्त्वम्, ततो दृष्टान्ते विभक्त्यन्तस्य वाक्यार्थवत्त्वेन व्याप्तिसिद्धेर्देव-
दत्तो देवदत्त इति वाक्यार्थवत्त्वं स्वरूपार्थवत्त्वे विरुद्धं सिध्यति ।
अथ वा—इष्टस्य साध्यत्वाभावे “परार्थाश्चक्षुरादयः संहतत्वाद्” इत्यत्रा-
त्मार्थत्वस्यासंहतपारार्थ्यस्यासाध्यत्वात् ज्ञानहेतुत्वेन संहतपारार्थ्यस्य बौद्धेनापीष्टे
साधनवैफल्यमेव वा स्यात् ॥ ३३ ॥
एतेन साध्यत्वेनेष्टस्यानन्वयदोषदर्शनेन सद्वितीयप्रयोगेषु चार्वाककृतेषु
यथा—‘अभिव्यक्तचैतन्यशरीरलक्षणपुरुषसद्वितीयो घटः, अनुत्पन्नत्वात्, कुड्यवद्’
इति शरीरमेवाभिव्यक्तचैतन्यं पुरुषो नात्मा कश्चित् परलोकी । तेन सद्वितीयत्वं १
घटस्य साध्यत इति प्रयोगफलम् । तत्र च निरन्वयविरुद्धते कथिते ।
तथा हि—अभिव्यक्तचैतन्यदेहलक्षणपुरुषेण सद्वितीयत्वं साध्यम्, तेन च
कुड्येऽन्वयो न दृष्ट इति निरन्वयता । घटस्य तु कुड्येऽन्वयो दृष्ट इति तेन
सद्वितीयत्वसाधनात् विरुद्धता स्यात् ।
अथ सामान्येन विशेषमनुल्लिख्य सद्वितीयत्वं साध्यम्, कुड्ये सद्वितीय-
त्वमात्रेणान्वयात् ? एवमपि तत्सामान्यमेव न सिध्यति प्रतिवादिनः, घटादभि-
व्यक्तचैतन्यस्वभावतयाऽर्थान्तराभावात् अर्थान्तरत्वासम्भवात् । देहस्यानाप्ता-
वार्थान्तरत्वेनासिद्धौ द्वयोर्भिन्नयोरन्यतरसद्वितीयत्वं सामान्यं स्यात् । न हि घटः
१. ससहायत्वमित्यर्थः ।