सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 398, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 398

३७२ प्रमाणवार्त्तिके [ पक्षलक्षण-
इदानीं साध्यनिर्देशः साधनावयवः कथम् ! ॥ २६ ॥
साभासोक्त्याद्युपक्षेपपरिहारविडम्बना ।
असम्बद्धा तथा ह्येष न न्याय्य इति वर्णितम्¹ ॥ २७ ॥
गम्यार्थत्वेऽपि साध्योक्तेरसम्मोहाय लक्षणम् ।
साध्यसिद्धत्वादसाधनम्, असाधनत्वाच्च न प्रतिज्ञा । इदानीमस्मिन्नभ्युपगमे
साध्यनिर्देशोऽसिद्धत्वात् साधनावयवः कथम् ! न हि प्रतिज्ञार्थः सिद्धः;
तदर्थमेव साधनोपन्यासात् । असिद्धश्च न साधनम्, हेत्वाभासवत् ॥ २६ ॥
या च स्वयूथ्यानां² पूर्वपक्षपरिहारोक्तिः—"पक्षवचनं साधनम्, साभा-
सार्थत्वादिति चेत् ? न; प्रत्यक्षेण अनेकान्तात् प्रत्यक्षं साभासमपि न कस्यचित्
प्रमाणस्य साधनम् । वचनात्मत्वे सति साभासत्वात् साधनत्वमिति चेत् ? न;
दूषणेनानेकान्तात् । दूषणं साभासवचनात्मत्वेऽपि न साधनम्” (न्या० मु० टी०)
इति सापि साभासोक्तिरादिर्यस्य तौ साभासोक्त्यादी उपक्षेपपरिहारौ तावेव
विडम्बनाऽयुक्ततया । अत एवाह—असम्बद्धा । तथा हि—साभासत्वस्य
विपर्यये बाधकप्रमाणाभावादेवाहेतुत्वासम्बन्धः पूर्वपक्षः । ततस्तमनुमत्य प्रत्यक्षेणा-
नेकान्ततापादनमशोभनम् । पुनर्वचनात्मत्वं विशेषणं परोक्तमप्रतिक्षिप्य दूषणा-
भासेनानेकान्ततापादनं चायुक्तम्, तदेव हि हेतोर्विशेषणमुपयुक्तम्, यद्विपक्षाद्धेतुं
व्यावर्तयति । न च वचनात्मत्वासाधनत्वयोः कश्चिद्विरोधः, येनासाधनाद् वचनात्म-
त्वनिवृत्तेर्विशेषणसाफल्यं स्यात् । तथा ह्येष विपक्षाद्व्यावर्त्तकहेतुविशेषणोपन्यासो
न न्याय्य इति वर्णितं प्राक् । वेदनित्यतासिद्धयर्थमध्ययनपूर्वकमित्युक्ते भारता-
ध्ययनेनानेकान्ततामापादितां प्रतिषेद्धुं वेदाध्ययनत्वे सतीति विशेषणं मीमांसके-
नोपन्यस्तम्³, तदपि करण( कृति)पूर्वकं भारताध्ययनवद् स्यात्, न कश्चिद्
विरोधः । ततो विपक्षाद्व्यावर्त्तकं विशेषणमुक्तमित्युक्तं प्राक् ॥ २७ ॥
ननु यदि पक्षवचनमसाधनं सामर्थ्याद्गम्याभिधेयञ्च, तदाचार्येण पक्षलक्षणं
कृतं किमर्थम् ? इत्याह–साध्यव्यापक्षवचनसामर्थ्यात् गम्यार्थत्वेऽपि साध्योक्तेः
१. सूचितं—रा० । २. न्यायमुखटीकाकारादीनामित्यर्थः ।
३. कुमारिलेनोपन्यस्तमित्यर्थः ।