सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 397, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 397

विचारः ] परार्थानुमानपरिच्छेदः ३७१
अनुक्तावपि पक्षस्य सिद्धेरप्रतिबन्धतः ।
त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्यूनतोदिता ॥ २३ ॥
साध्योक्तिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते ।
साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः ॥ २४ ॥
अविशेषोक्तिरप्येकजातीये संशयावहा ।
अन्यथा सर्वसाध्योक्तेः प्रतिज्ञात्वं प्रसज्यते ॥ २५ ॥
सिद्धोक्तेः साधनत्वाच्च परस्यापि न दुष्यति ।
नाशधीर्भवेत् । अनित्यत्वाव्यभिचारि कृतकत्वं शब्दे वर्त्तमानमनित्यतां तत्र
गमयत्येवेति निष्फलं पक्षवचनम् ॥ २२ ॥
तस्मात् पक्षस्यानुक्तावपि साध्यसिद्धेरप्रतिबन्धतः अविरोधात् त्रिषु
पक्षधर्मतादिषु रूपेष्वन्यतमस्य एकस्यानुक्तिर्न्यूनतोदिता साधनदोषः, न तु
पक्षाद्यवचनम् ॥ २३ ॥
यदि च प्रतिज्ञा साधनमिष्यते, तदा ‘साध्यनिर्देशः प्रतिज्ञा’ इति प्रतिज्ञालक्षण-
मतिव्यापि स्यात् । असिद्धस्य हेतोर्दृष्टान्तस्य चासिद्धस्य साध्यत्वं साधनत्वञ्चा-
स्तीति प्रतिज्ञार्थं स्यात् । यस्य तु मते प्रतिज्ञा न साधनम्, स साध्योक्तिं
साध्यनिर्देशं प्रतिज्ञां वदन्ननन्तरोक्तैर्दोषैर्न युज्यते; साधनाधिकृतेः साध-
नत्वेनाधिकारादेव प्रतिज्ञार्थस्य हेत्वाभासेष्वप्रसङ्गतः ॥ २४ ॥
यस्माद् अविशेषोक्तिः सामान्याभिधानमप्येकजातीये संशयावहा
तत्त्वार्थशङ्कोपाधिका, न सर्वत्रेति न्यायः । ततोऽसाधनमेव साध्यं प्रतिज्ञा, न
त्वसिद्धहेतुदृष्टान्तादिकम्; तस्य साधनत्वेनेष्टत्वात् । अन्यथा यद्येवं नाभ्युपगम्यते,
तदा सर्वस्याः साध्योक्तेर्घटं करोतीत्यादेः प्रतिज्ञात्वं प्रसज्यते । ज्ञापकहेत्व-
धिकारात् तत्साध्यस्यैव प्रतिज्ञात्वम्, न कारकहेतुसाध्यस्येति चेत् ? यद्येवम्,
असाधनभूतसाध्यनिर्देशः प्रतिज्ञा, न साधननिर्देश इति सिद्धम् ॥ २५ ॥
स्यादेतत्—परस्यापि सिद्धोक्तेः सिद्धार्थप्रतिपादकत्वात्, साधनत्वाच्च
प्रतिज्ञात्वमिष्टम् । अतो हेत्वाभासादि प्रतिज्ञात्वप्रसङ्गेन न दुष्यति । हेत्वाभा-