प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 396, कुल 532 में से
संदर्भ में पढ़ें३७० प्रमाणवार्त्तिके [ पक्षलक्षण-
विपक्षोपगमेऽप्येतत् तुल्यमित्यनवस्थितिः ॥ १९ ॥
अन्तरङ्गं तु सामर्थ्यं त्रिषु रूपेषु संस्थितम् ।
तत्र स्मृतिसमाधानं तद्वचस्येव संस्थितम् ॥ २० ॥
अख्यापिते हि विषये हेतुवृत्तेरसम्भवात् ।
विषयख्यापनादेव सिद्धौ चेत् तस्य शक्तता ॥ २१ ॥
उक्तमत्र;
विनाप्यस्मात् कृतकः शब्द ईदृशाः ।
सर्वेऽनित्या इति प्रोक्तेऽप्यर्थात् तन्नाशधीर्भवेत् ॥ २२ ॥
ननु संशयजिज्ञासे प्रतिपाद्यप्रवर्त्तिते, पक्षवचनं तु वादिप्रवर्त्तितम्, तत् कथं
तत्समुदायस्य साधनस्य वादिना निर्देशसम्भवः ? इत्याह—एवं तर्हि विपक्षस्य
साध्यविरुद्धस्य धर्मस्योपगमे पराभिप्रायेण नित्यशब्द इति साध्यनिर्देशकृते
पार्श्वस्थानां तथा संशयनिरासार्थम्—'यत्कृतकं तदनित्यं यथा घटः कृतकश्च
शब्दः' इति पुनर्वादिनेवोच्यते । तदा नित्यत्वप्रतिज्ञायास्तदनित्यत्वव्यभि-
चारिकृतकत्वहेतुप्रवर्त्तकत्वं तुल्यमिति नित्यत्वप्रतिज्ञाप्यनित्यप्रतिज्ञावत् साधनं
स्यादित्यनवस्थितिः साधनावयवानाम् ॥ १८-१९ ॥
यतश्च पक्षवचनस्य साध्यसिद्धौ साक्षात् पारम्पर्येण वा सामर्थ्यं नास्ति, ततः
अन्तरङ्गं सामर्थ्यम्, तु-शब्दोऽवधारणे भिन्नक्रमश्चेति, त्रिष्वेव पक्षधर्मतादिषु
रूपेषु संस्थितम् । तत्र त्रिरूपलिङ्गे साध्यसाधनशक्तिस्मृतेः समाधान-
मारोपणं तद्वचसि त्रिरूपलिङ्गप्रतिपादकवचन एव संस्थितम् । अतस्तदेव
पारम्पर्येण साध्यसिद्धेरङ्गत्वात् प्रमाणम्, न पक्षवचनम् ॥ २० ॥
ननु अख्यापितेऽप्रतिपादिते साधनस्य विषये साध्ये हेतोर्वृत्तेरेव
ह्यसम्भवात् तस्य पक्षवचनस्य विषयख्यापनादेव साध्यस्य सिद्धौ पारम्पर्येण
शक्ततेति चेत् ? ॥ २१ ॥
उक्तमत्र संशयजिज्ञासयोरपि साधनप्रवर्त्तकत्वात् साधनत्वप्रसङ्ग इति ।
किञ्च—अस्मात् पक्षवचनाद् विनापि कृतकः शब्दः। ईदृशा ये कृत-
कास्ते सर्वेऽनित्या इति पक्षधर्मताव्याप्तिवचने प्रोक्तेऽप्यर्थात् तस्य शब्दस्य