प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 395, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ३६९
प्रमाणं संशयोत्पत्तेस्ततः साक्षान्न साधनम् ॥ १६ ॥
साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम् ।
शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयंम् ॥ १७ ॥
हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता ।
शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात् ॥ १८ ॥
तत्संशयेन जिज्ञासोर्भवेत् प्रकरणाश्रयः ।
प्रायनिवेदने प्रमाणं शब्दप्रामाण्यमाचार्यस्य वदतोऽभिमतमिति बोद्धव्यम् ।
तत्पक्षवचनात् साध्येऽर्थे संशयोत्पत्तेरनिश्चयान्न साक्षात् साधनमर्थस्य
तत् ॥ १६ ॥
परम्परया साध्यसाधनात् प्रमाणं पक्षवचनं वक्तुरभिप्रायनिवेदने प्रमाणं
तर्हि स्याद् ? इत्याह — पारम्पर्येणापि पक्षवचनमलं समर्थं न साध्यसिद्धौ;
साध्यस्यैव केवलस्याभिधानात् । न हि पक्षवचसा साधकं किञ्चिदुच्यते;
साध्यमात्रस्यैवाभिधानात् । त्रिरूपस्य हेतोर्वचो वचनं तु स्वयं साक्षात्
सिद्धावशक्तमपि शक्तस्य त्रिरूपलिङ्गस्य सूचकं प्रतिपादकमिति साधन-
मुचितम् ॥ १७ ॥
नन्वाचार्यस्य पक्षवचनमसाधनत्वेनेष्टमिति कथं ज्ञायते ? इत्याह — हेतोरर्थः
साध्यः स विषयोऽस्येति हेत्वर्थविषयः तत्त्वेन साध्यार्थोपदर्शकत्वेन तस्य
पक्षवचनस्य साध्यसाधनं प्रत्यशक्तस्योक्तिरीरिता निर्दिष्टाऽऽचार्येण —
“तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः” ( ) इत्यनेन ग्रन्थेन । ततो
ज्ञायते पक्षवचनमसाधनमिष्टमाचार्यस्येति ।
ननु तस्य पक्षवचनस्यापि साध्यसिद्धौ शक्तिरस्ति; तत्साधकस्य हेतु-
वचनस्य प्रवर्त्तनात् । न ह्यनुद्दिष्टेऽर्थे साधनप्रस्तावः, ततः साधनप्रस्तावना-
हेतुत्वेन पक्षवचनस्य साधकत्वमस्तीति चेत् ? एवं तस्य साध्यसंशयेन जिज्ञासा,
तस्याञ्च सत्यां साधनमुच्यत इति जिज्ञासोः पुंसः संशयो जिज्ञासा च प्रकरणस्य
साधनप्रस्तावस्याश्रयो निमित्तमिति भवेत् साधनं पक्षवचनवत् ।
प्र० वा० : २४