सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 394, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 394

३६८ प्रमाणवार्त्तिके [ परार्थानुमानलक्षण-
अर्थग्रहणफलम्
तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् ।
अलिङ्गत्वप्रसिद्धयर्थमर्थादर्थस्य सिद्धितः ॥ १३ ॥
कल्पनागमयोः कर्तुरिच्छामात्रानुवृत्तितः ।
वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः ॥ १४ ॥
पक्षविचारः
अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः ।
नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः ॥ १५ ॥
तत् पक्षवचनं वक्तुरभिप्रायनिवेदने ।
अर्थग्रहणस्येदानीं वक्तव्यम् । 'अदृष्टार्थप्रकाशनम्' इत्यत्र सूत्रे यदुपात्तं
तदर्थग्रहणं शब्देन कल्पनया चारोपित आत्मा येषां पक्षसपक्षान्यतरत्वा-
दीनां तेषामलिङ्गत्वप्रसिद्धयर्थं बोद्धव्यम् । कस्मात् पुनः कल्पितस्यालिङ्गत्वम् ?
इत्याह—अर्थाद् वस्तुभूताल्लिङ्गादर्थस्य साध्यस्य सिद्धितः ॥ १३ ॥
कल्पनाया आगमस्य शब्दस्य च कर्तुः पुरुषस्येच्छामात्रस्यानु-
वृत्तितोनुरोधात् । वस्तुनश्चान्यथाभावात् । कर्तुरिच्छानुवृत्तेस्ताभ्यां शब्द-
कल्पनाभ्यां कृता हेतवो व्यभिचारिणो नैकान्तिकाः ॥ १४ ॥
उक्तमर्थग्रहणप्रयोजनम् ॥
स्वदृष्टार्थप्रकाशनशब्देन त्रिरूपलिङ्गवचनमिष्टम्, न पक्षवचनमपीति वक्त-
व्यम् । यदि साक्षात् पारम्पर्येण वा पक्षवचनं साध्यप्रतिपत्तावुपयुज्यते, तदो-
च्येत, किन्त्वेतन्नास्ति ? इत्याह—साक्षात् तावत् पक्षाभिधानस्य हेत्वभिधानस्य
च प्रतिपाद्येऽर्थे शक्तिर्न विद्यते, किं कारणम् ? इत्याह—अर्थाद् वचनप्रति-
पाद्यादर्थस्य साध्यस्य गतेर्न वचनात् । तेन साक्षादर्थप्रतिपादकत्वाभावेन तयोः
पक्षहेत्वभिधानयोः स्वतः स्वरूपेण साधनसंस्थितिः । साधनत्वव्यवस्था
नास्ति ॥ १५ ॥
यतश्च पक्षवचनं साक्षादर्थे न प्रमाणम्, तत् तस्मात् पक्षवचनं वक्तुरभि-