सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 393, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 393

विचारः ] परार्थानुमानपरिच्छेदः ३६७
लिङ्गं स्वभावः कार्यं वा दृश्यादर्शनमेव वा ।
सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः ॥ ११ ॥
परेणाप्यन्यतो गन्तुमयुक्तम्;
परकल्पितैः ।
प्रसङ्गो द्वयसम्बन्धादेकापायेऽन्यहानये ॥ १२ ॥
वस्तुकृता प्रतिपत्तिरसत्प्रतिपत्तिं नातिशेते । अप्रत्ययत्वादिति विनिश्चयग्रन्थेन
सह एकवाक्यता न स्यात् ॥ १० ॥
किञ्च—लिङ्गं साध्यार्थसम्बद्धम्, नान्यत्; व्यभिचारात् । तच्च स्वभावः
कार्यं दृश्यादर्शनमनुपलब्धिरेवान्यस्य प्रतिबन्धाभावादित्युक्तम् । तदुत्पत्त्यादिकं
यदि त्रिषु हेतुष्वन्तर्भूतम् , तदा वस्तुतः परमार्थतः सिद्धं प्रतिपाद्यस्य किं
कस्मादात्मनः सांख्यस्य वादिनोऽसिद्धम् । उत्पत्तिमत्त्वादिस्वभावहेतुः स्यात्,
स च धर्मिग्राहकात् प्रमाणादन्यतो वा शिंशपात्ववत् कृतकत्वादिवदर्थान् प्रति-
वादिन इव वादिनोऽपि सिध्येत् ॥ ११ ॥
अथ त्रिविधे हेतौ नान्तर्भवति उत्पत्त्यादि, तदा परेण प्रतिवादिनापि
त्रिविधाद्धेतोरन्यतो हेतोरचैतन्यं गन्तुं प्रत्येतुमयुक्तम् । यदि पराभ्युपगमसिद्ध-
मसाधनम्, तदा प्रसङ्गहेतुरहेतुः स्याद् ? इत्याह—परकल्पितैः साधनैः प्रसङ्गः
क्रियते, यथा सामान्यस्य परोपगतानेकवृत्तित्वाद् अनेकत्वमापाद्यते न त्वयं
पारमार्थिको हेतुः; त्रैरूप्याभावात् । यद्ययं न हेतुः, तदा किमर्थमुच्यते ? इत्याह—
द्वयोः साध्यसाधनयोः सम्बन्धाद् व्याप्यव्यापकभावात् स्फारितादेकस्य
साध्यस्यापायेऽन्यस्य साधनस्य हानये । यथा चानेकं सामान्यं तस्मान्ना-
नैकवृत्तीति विपर्ययप्रयोगे साध्याभावे साधनाभावः कथ्यते । प्रसङ्गविपर्ययोऽत्र
मौलो हेतुः, साध्यसाधनव्याप्तिग्राहकप्रमाणस्मारकस्तु प्रसङ्गे प्रयोग इत्यर्थः ।
भिन्नदेशकालादिष्वनेकासु व्यक्तिषु वृत्तस्य तत्तद्देशत्वाविरुद्धधर्माध्यासादने-
कत्वसिद्धेरनेकवृत्तत्वानेकत्वयोर्व्याप्तिसिद्धिर्बोद्धव्या ॥ १२ ॥
उक्तं स्वदृष्टग्रहणस्य साफल्यम् ॥