प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 392, कुल 532 में से
संदर्भ में पढ़ें३६६ प्रमाणवार्त्तिके [ परार्थानुमानलक्षण-
विच्छिन्नानुगमा येऽपि सामान्येनाप्यगोचराः ।
साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ॥ ८ ॥
पुंसामभिप्रायवशात् तत्त्वात्तत्त्वव्यवस्थितौ ।
लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात् ॥ ९ ॥
सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः ।
सतोऽपि वस्त्वसंश्लिष्टाऽसंगत्या सदृशी गतिः ॥ १० ॥
ततस्तान्येव साधनान्युच्यन्ताम्, किं स्वयमदृष्टसाध्यप्रतिपादनसामर्थ्येनोत्पत्ति-
मत्त्वादिनोक्तेन ॥ ७ ॥
स्यादेतत् । प्रत्यक्षस्याचैतन्यादिविषयस्य योगाद्यभ्यासेन सह साध्यसाधन-
सम्बन्धो विप्रकृष्टत्वात् सामान्याकारेणापि न प्रतीयते, ततोऽस्यानुपदर्शनमित्याह—
येऽपि विच्छिन्नो विप्रकृष्टोऽनुगमः सम्बन्धो येषां ते प्रत्यक्षतदुपायोदयाः
सामान्येनाविशेषाकारेणाप्यगोचराः, तेष्वर्थेषु 'इदं साधनमिदं साध्यम्' इति च
साध्यसाधनचिन्ता काचन नास्ति । ततोऽर्वाग्दर्शनस्याबुद्धिविषयीकृतयो
रूपयोरुपायोपेययोरेकत्रानुष्ठानादपरत्र निष्पादनमिति कुतः ! ॥ ८ ॥
किञ्च—अप्रमाणकादागमादिच्छामात्रेण प्रतिपाद्यो हेतुं कुर्वन् पुनरिच्छया
तमेव परिहरन् हेतुतदाभासयोरिच्छाधीनतां स्वीकुर्यादित्याख्यातुमाह—पुंसा-
मभिप्रायवशादिच्छानुरोधात् तत्त्वात्तत्त्वयोर्हेतुतदाभासत्वयोर्व्यवस्था-
विधीयमानायां हेतुतदाभासौ लुप्तौ स्याताम्, अव्यवस्थितत्वात् ; तस्य पुरुषाभि-
प्रायस्य वस्त्वसंश्रयाद् यथावस्तुप्रवृत्तिनियमाभावात् ॥ ९ ॥
अपि च—सन्नर्थो ज्ञानसापेक्षः साध्यसाधकः प्रतीतः, यथा—धूमादिः ।
नासन्नर्थो ज्ञानेन प्रतीतिमात्रेण साधकः साध्यस्य, यथा—कल्पितो धूमः ।
अथाचैतन्यं वस्तुतोऽस्त्येव तद्, यथाकथञ्चित् परस्मै प्रतिपादनीयम् । अतः
पराभ्युपगतो हेतुः क्रियते ? इत्याह—सतोऽप्यचैतन्यस्य वस्त्वसंश्लिष्टा वस्तु-
भूतलिङ्गाप्रतिबद्धा गतिरसङ्गत्याऽसतः प्रतीत्या सदृशी; सम्यक् प्रतीतत्वा-
भावात् । अन्ये तु—असद्गत्या दोषवत्प्रतीत्या सदृशीति व्याचक्षते, तेषां सतोऽप्य-