सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 391, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 391

विचारः ] परार्थानुमानपरिच्छेदः ३६५
तदन्योपगमे तस्य त्यागांगस्याप्रमाणता ॥ ५ ॥
तत् कस्मात् साधनं नोक्तं स्वप्रतीतिर्यदुद्भवा ।
युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम् ॥ ६ ॥
प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्यक्षसम्भवौ ।
साधनैः साधनान्यर्थशक्तिज्ञानेऽस्य तान्यलम् ॥ ७ ॥
कथं भवेत् ! सम्भवे वा विरुद्धार्थाभिधायित्वेनाप्रमाणादागमाद्धेतुसिद्धिरयुक्तैव
आगमप्रतीतेनोत्पत्तिमत्त्वादिना । तस्मादागमोक्तचैतन्यादन्यस्याचैतन्यस्योपगमे
स्वीकारे वा प्रतिवादिना क्रियमाणे तस्यागमस्य त्यागांगस्याप्रमाणताऽ-
भ्युपगता स्यात् । यदैवागमाप्रामाण्यस्य बाधके हेतावाद्रियते तदैव तत्र संशयितः ।
न चाप्रमाणाद्धेतुसिद्धिः ॥ ५ ॥
किञ्च—अयं वादी तावत् स्वयमप्रतीतमेवाचैतन्यं परस्मै प्रतिपादयति ।
न च साधनमन्तरेणैव प्रतीतिः । ततः प्रतिपादयितुः स्वस्य प्रतीतिश्चैतन्य-
विषया, यस्मात् साधनादुद्भवो यस्याः सा यदुद्भवा । तत्साधनं स्वागमादिकं
कस्मात् प्रतिपाद्यं प्रति नोक्तम् । स्वयं प्रतिपन्नसामर्थ्यमेव साधनं वक्तु-
मुचितम् । तथा निर्युक्तिकस्यागमस्याप्रामाण्यात् यया युक्त्योपपन्न आगमः
साधनत्वेन ग्राह्यो वादिना, सा युक्तिः परस्य प्रतिपाद्यस्यापि किं न साधनं
येन तत्परित्यज्यान्यदप्रमाणसिद्धमुत्पत्त्याद्युच्यते ॥ ६ ॥
अथ योगबलजेन प्रत्यक्षेण सुखादीनामचैतन्यं प्रतीतम् , न तदन्यथा प्रति-
पादयितुं परस्य शक्यत इति परोपगतं साधनमुच्यते ।
ननु तथापि नाकस्मिको बुद्धिसुखाद्यचैतन्यविषयस्य निश्चयः, तत्साक्षा-
त्कारिप्रत्यक्षतत्साधनयोगानुष्ठानयोः साध्यसाधनभावावधारणं चावश्यकर्त्तव्यम् ;
तन्निश्चयमन्तरेण योगानुष्ठानायोगात् । तथा च—प्राकृतस्यार्वाग्दर्शनस्य सतो
यैः साधनैः सुखाचैतन्यादिविषयं तद्ग्राहि प्रत्यक्षतत्साधनयोः सम्बन्धं च
निश्चित्य प्रवृत्तस्योपाये प्रतिपत्तुरनुष्ठानस्य, तत्फलस्याक्षस्य प्रत्यक्षस्याचैतन्या-
दिविषयग्राहिणः सम्भवौ भवतः, तानि साधनान्यर्थस्योपायाभ्यासस्य शक्तेर-
चैतन्यग्राहिप्रत्यक्षजनिकाया ज्ञाने कर्त्तव्येऽस्य प्रतिपाद्यस्यालं समर्थानि ।