सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 234, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 234

२०८ प्रमाणवार्त्तिके
तादात्म्यादात्मवित् तस्य स तस्य साधनं ततः ॥ ३६४ ॥
तत्रात्मविषये माने यथारागादि वेदनम् ।
इयं सर्वत्र संयोज्या मानमेयफलस्थितिः ॥ ३६५ ॥
तत्राप्यनुभवात्मत्वात् ते योग्या स्वात्मसंविदि ।
इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥ ३६६ ॥
ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि ।
सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम् ॥ ३६७ ॥
ग्राहकाकारः१ सम्मतः परिच्छेद आकार आत्मवित् तस्य ग्राहकाकारस्य
फलम् । तादात्म्यात् परिच्छेदस्वभावत्वात् स्वसंवित्तिः फलं वेति सूत्रे स्वाभासं
विषयाभासञ्च ज्ञानमुत्पद्यते । तत्र यत् स्वसंवेदनं तत् फलं विषयः परिच्छेदात्मक
एव हि ग्राहकाकारः, स एव चात्मवेदनम् ; ततः परिच्छेदवशेनात्मवेदनव्यवस्था-
नात् स परिच्छेदस्तस्यात्मविदः फलभूतायाः साधनं प्रमाणम् ॥ ३६४ ॥
तत्र एवं सत्यात्मविषये माने स्वसंवेदने प्रमाणे यथारागादि वेदनं
मानमेयफलात्मकम् । इयं मानमेयफलस्थितिः सर्वत्र विज्ञप्तिनयेऽपि
संयोज्या ॥ ३६५ ॥
तथा हि—तत्रापि रागादिवेदनेऽपि ते रागादयोऽनुभवात्मत्वात् स्वा-
त्मनः संविदि योग्या इति तस्मात् सा स्ववेदनयोग्यता रागादीनां मान-
मात्मा मेयः फलं स्ववित् ॥ ३६६ ॥
ननु रागादिष्वात्मसंवेदनं फलभूतं मानमुक्तम्२, इह३ तु ग्राहकाकारो
योग्यतालक्षणं प्रमाणमुच्यत इति व्याहतमिति शङ्कायामुत्तरम्—या ग्राहकाकार-
संख्याता परिच्छेदात्मता सा आत्मनि संवेदने योग्यता चेति तस्माद्
रागादिषु स्वात्मसंवेदनं प्रमाणं प्रोक्तम् । न हि स्ववेदनं फलभूतमिह
विवक्षितम्, किन्तु योग्यता । तस्माद्भिन्नार्थतैव ॥ ३६७ ॥
१. स ग्राहकाकारः—रा० । २. दिङ्नागेन प्रमाणसमुच्चय इत्यर्थः ।
३. प्रमाणवार्त्तिके धर्मकीर्तिना ।